लोमहर्षण उवाच ।
एवं स्तुतो ऽथ भगवान् वासुदेव उवाच ताम् ।
अदृश्यः सर्वभूतानां तस्याः सन्दर्शने स्थितः ॥ ७।१ ॥
श्रीभगवानुवाच
मनोरथांस्त्वमदिते यानिच्छस्यभिवाञ्छितान् ।
तांस्त्वं प्राप्यसि धर्मज्ञे मत्प्रसादान्न संशयः ॥ ७।२ ॥
शृणु त्वं च महाभागे वरो यस्ते हृति स्थितः ।
मद्दर्शनं हि विफलं न कदाचिद् भविष्यति ॥ ७।३ ॥
यश्चेह त्वद्वने स्थित्वा त्रिरात्रं वै करिष्यति ।
सर्वे कामाः समृध्यन्ते मनसा यानिहेच्छति ॥ ७।४ ॥
दूरस्थो ऽपि वनं यस्तु अदित्याः स्मरते नरः ।
सो ऽपि याति परं स्थानं किं पुनर्निवसन् नरः ॥ ७।५ ॥
यश्चेह ब्राह्मणान् पञ्च त्रीन् वा द्वावेकमेव वा ।
भोजयेच्छ्रद्धया युक्ताः स याति परमां गतिम् ॥ ७।६ ॥
अदितिरुवाच
यदि देव प्रसन्नस्त्वं भक्त्या मे भक्तवत्सल ।
त्रैलोक्याधिपतिः पुत्रस्तदस्तु मम वासवः ॥ ७।७ ॥
हृतं राज्यं हृतश्चास्य यज्ञभाग इहासुरैः ।
त्वयि प्रसन्ने परद तत् प्राप्नोतु सुतो मम ॥ ७।८ ॥
हृतं राज्यं न दुःखाय मम पुत्रस्य केशव ।
प्रपन्नदायविभ्रंशो बाधां मे कुरुते हृति ॥ ७।९ ॥
श्रीभगवानुवाच
कृतः प्रसादो हि मया तव देवि यथेप्सितम् ।
स्वांशेन चैव ते गर्भे सम्भविष्यामि कश्यपात् ॥ ७।१० ॥
तव गर्भे समुद्भूतस्ततस्ते ये त्वरातयः ।
तानहं च हनिष्यामि निवृत्ता भव नन्दिनि ॥ ७।११ ॥
अदितिरुवाच
प्रसीद देवदेवेश नमस्ते विश्वभावन ।
नाहं त्वामुदरे वोढुमीश शक्ष्यामि केशव ।
यस्मिन् प्रतिष्ठितं सर्वं विश्वयोनिस्त्वमीश्वरः ॥ ७।१२ ॥
अहं त्वां च वहिष्यामि आत्मानं चैव नन्दिनि ।
न च पीडां करिष्यामि स्वस्ति ते ऽस्तु व्रजाम्यहम् ॥ ७।१३ ॥
इत्युक्त्वान्तर्हिते देवे ऽदितिर्गर्भं समादधे ।
गर्भस्थिते ततः खृष्णे चचाल सरला क्षितिः ।
चकम्पिरे महाशैला जग्मुः क्षोभं महाब्धयः ॥ ७।१४ ॥
यतो यतो ऽदितिर्याति ददाति पदमुत्तमम् ।
ततस्ततः क्षितिः खेदान्ननाम द्विजपुङ्गवाः ॥ ७।१५ ॥
दैत्यानामपि सर्वेषां गर्भस्थे मधुसूदने ।
बभूव तेजसो हानिर्यथोक्तं परमेष्ठिना ॥ ७।१६ ॥
इति श्रीवामनपुराणे सरोमाहात्म्ये सप्मो ऽध्यायः