लोमहर्षण उवाच ।
नारायणस्तु भगवाञ्छ्रुत्वैवं परमं स्तवम् ।
ब्रह्मज्ञेन द्विजेन्द्रेण कश्यपेन समीरितम् ॥ ६।१ ॥
उपाच वचनं सम्यक् तुष्टः पुष्टपदाक्षरम् ।
श्रीमान् प्रीतमना देवो यद्वदेत् प्रभुरीश्वरः ॥ ६।२ ॥
वरं वृणुध्वं भद्रं वो वरदो ऽस्मि सुरोत्तमाः ।
कश्यप उवाच
प्रीतो ऽसि नः सुरश्रेष्ठ सर्वेषामेव निश्चयः ॥ ६।३ ॥
वासवस्यानुजो भ्राता ज्ञातीनां नन्दिवर्धनः ।
अदित्या अपि च श्रीमान् भगवानस्त वै सुतः ॥ ६।४ ॥
अदितिर्देवमाता च एतमेवार्थमुत्तमम् ।
पुत्रार्थं वरदं प्राह भगवन्तं वरार्थिनी ॥ ६।५ ॥
देवा ऊचुः
निःश्रेयसार्थं सर्वेषां दैवतानां महेश्वर ।
त्राता भर्ता च दाता च शरणं भव नः सदा ॥ ६।६ ॥
ततस्तानब्रवीद्विष्णुर्देवान् कश्यपमेव च ।
सर्वेषामेव युष्माकं ये भविष्यन्ति शत्रवः ।
मुहूर्तमपि ते सर्वे न स्थास्यन्ति ममाग्रतः ॥ ६।७ ॥
हत्वासुरागणन् सर्वान् यज्ञभागाग्रभेजिनः ।
हव्यादांश्च सुरान् सर्वान् कव्यादांश्च पितृनपि ॥ ६।८ ॥
करिष्ये विबुधश्रेष्ठाः पारमेष्ठ्येन कर्मणा ।
यथायातेन सार्गेण निवर्तध्वं सुरोत्तमाः ॥ ६।९ ॥
लोमहर्षण उवाच
एवमुक्ते तु देवेन विष्णुना प्रभविष्णुना ।
ततः प्रहृष्टमनसः पूजयन्ति स्म तं प्रभुम् ॥ ६।१० ॥
विश्वेदेवा महात्मानः कश्यपो ऽदितिरेव च ।
नमस्कृत्य सुरेशाय तस्मै देवाय रंहसा ॥ ६।११ ॥
प्रयाताः प्राग्दिशं सर्वे विपुलं कश्यपाश्रमम् ।
ते कश्यपाश्रमं गत्वा कुरुक्षेत्रवनं महात् ॥ ६।१२ ॥
प्रसाद्य ह्यदितिं तत्र तपसे तां न्ययोजयन्।
थ सा चचार तपो घोरं वर्षाणामयुतं तदा ॥ ६।१३ ॥
तस्या नाम्ना वनं दिव्यं सर्वकामप्रदं शुभम् ।
आराधनाय कृष्णस्य वाग्जिता वायुभोजना ॥ ६।१४ ॥
दैत्यैर्निराकृतान् दृष्ट्वा तनयानृषिसत्तमाः ।
वृथापुत्राहमिति सा निर्वेदात् प्रणयाद्धरिम् ।
तुष्टाव वाग्भिरग्र्याभिः परमार्थवबोधिनी ॥ ६।१५ ॥
शरण्यं शरणं विष्णुं प्रणता भक्तवत्सलम् ।
देवदैत्यमयं चादिमध्यमान्तस्वरूपिणम् ॥ ६।१६ ॥
अदितिरुवाच
नमः कृत्यार्तिनाशाय नमः पुष्करमालिने ।
नमः परमकल्याण कल्याणायादिवेधसे ॥ ६।१७ ॥
नमः पङ्कजनेत्राय नमः पङ्कजनाभये ।
नमः पङ्कजसम्भूतिसम्भवायात्मयोनये ॥ ६।१८ ॥
श्रियः कान्ताय दान्ताय दान्तदृश्याय चक्रिणे ।
नमः पद्मासिहस्ताय नमः कनकरेतसे ॥ ६।१९ ॥
तथात्मज्ञानयज्ञाय योगिचिन्त्याय योगिने ।
निर्गुणाय विशेषाय हरये ब्रह्मरूपिणे ॥ ६।२० ॥
जगच्च तिष्ठते यत्र जगतो यो न दृस्यते ।
नमः स्थूलातिसूक्ष्माय तस्मै देवाय शार्ङिड्णे ॥ ६।२१ ॥
यं न पश्यन्ति पश्यन्तो जगदप्यखिलं नराः ।
अपश्यद्भिर्जगद्यश्च दृश्यते हृदि संस्थितः ॥ ६।२२ ॥
बहिर्ज्योति रलक्ष्यो यो लक्ष्यते ज्योतिषः परः ।
यस्मिन्नेव यतश्चैव यस्यैतदखिलं जगत् ॥ ६।२३ ॥
तस्मै समस्तजगताम् अमराय नमो नमः ।
आद्यः प्रजापतिः सो ऽपि पितॄणां परमः पतिः ।
पतिः सुराणां यस्तस्मै नमः कृष्णाय वेधसे ॥ ६।२४ ॥
यः प्रवृत्तैर्निवृत्तैश्च कर्मस्तस्मै विरज्यते ।
स्वर्गापवर्गफलदो नमस्तस्मै गदाभृते ॥ ६।२५ ॥
यस्तु सञ्चित्यमानो ऽपि सर्वं पापं व्यपोहति ।
नमस्तस्मै विशुद्धाय परस्मै हरिमेधसे ॥ ६।२६ ॥
ये पश्यन्त्यखिलाधारमीशानमजमव्ययम् ।
न पुनर्जन्ममरणं प्राप्नुवन्ति नमामि तम् ॥ ६।२७ ॥
यो यज्ञो यज्ञपरमैरिज्यते यज्ञसंस्थितः ।
तं यज्ञपुरुषं विष्णुं नमामि प्रभुमीश्वरम् ॥ ६।२८ ॥
गीयते सर्ववेदेषु वेदविद्भिर्विदां गतिः ।
यस्तस्मै वेदवेद्याय नित्याय विष्णवे नमः ॥ ६।२९ ॥
यतो विश्वं समुद्भूतं यस्मिन् प्रलयमेष्यति ।
विश्वोद्भवप्रतिष्ठाय नमस्तस्मै महात्मने ॥ ६।३० ॥
आब्रह्मस्तम्बपर्यन्तं व्याप्तं येन चराचरम् ।
मायाजालसमुन्नद्धं तमुपेन्द्रं नमाम्यहम् ॥ ६।३१ ॥
यो ऽत्र तोयस्वरूपस्थो बिभर्त्यखिलमीश्वरः ।
विश्वं विश्वपतिं विष्णुं तं नमामि प्रजापतिम् ॥ ६।३२ ॥
मूर्त तमो ऽसुरमयं तद्विधो विनिहन्ति यः ।
रात्रिजं सूर्यरूपी च तमुपेन्द्रं नमाम्यहम् ॥ ६।३३ ॥
यस्याक्षिणि चन्द्रसूर्यौ सर्वलोकशुभाशुभम् ।
पश्यतः कर्म सततं तमुपेन्द्रं नमाम्यहम् ॥ ६।३४ ॥
यस्मिन् सर्वेश्वरे सर्वं सत्यमेतन्मयोदितम् ।
नानृतं तमजं विष्णुं नमामि प्रभवाव्ययम् ॥ ६।३५ ॥
यद्येतत्सत्यमुक्तं मे भूयश्चातो जनार्दन ।
सत्येन तेन सकलाः पूर्यन्तां मे मनोरथाः ॥ ६।३६ ॥
इति श्रीवामनपुराणे सरोमाहात्म्ये षष्ठो ऽध्यायः