०५

कश्यप उवाच
नमो ऽस्तु ते देवदेव एकशृङ्ग वृषार्च्चे सिन्धुवृष वृषाकपे सुरवृष अनादिसम्भव रुद्र कपिल विष्वक्सेन सर्वभूतपते ध्रुव धर्मधर्म वैकुण्ठ वृषावर्त अनादिमध्यनिधन धनञ्जय शुचिश्रवः पृश्नितेजः निजय (५) अमृतेशय सनातन त्रिधाम तुषित महातत्त्व लोकनाथ पद्मनाभ विरिञ्चे बहुरूप अक्षय अक्षर हव्यभुज खण्डपरशो शतक्र मुञ्जकेश हम्स महादक्षिण हृषीकेश सूक्ष्म महानियमधर विरज लोकप्रतिष्ठ अरूप अग्रज धर्मज धर्मनाभ (१०) गभस्तिनाभ शतक्रतुनाभ चन्द्ररथ सूर्यतेजः समुद्रवासः अजः सहस्रशिरः सहस्रपाद अदोमुख महापुरुष पुरुषोत्तम सहस्रबाहो सहस्रमूर्ते सहस्रास्य परुषोत्तम सहस्रबाहो सहस्रमूर्ते सहस्रास्य सहस्रसम्भव सहस्रसत्त्वं
त्वमाहुः ।
पुष्पहास चरम त्वमेव वौषट् (१५) वषट्कारं त्वामाहुरग्रयं मखेषु प्राशितारं सहस्रधारं च भुश्च भुवश्च स्वश्च त्वमेव वेदवेद्य ब्रह्मशय ब्राह्मणप्रिय त्वमेव द्यौरसि मातरिश्वासि धर्मो ऽसि होता पोता मन्ता नेता होमहेतुस् त्वमेव अग्रय विश्वधाम्ना त्वमेव दिग्भिः सुभाण्ड (२०) इज्यो ऽसि सुमेधो ऽसि समिधस्त्वमेव मतिर् गतिर् दाता त्वमसि ।
मोक्षो ऽसि योगो ऽसि ।
सृजसि ।
धाता परमयज्ञो ऽसि सोमो ऽसि दीक्षितो ऽसि दक्षिणासि विश्वमसि ।
स्थविर हिरण्यनाम नारायण त्रिनयन आदित्यवर्म आदित्यतेजः महापुरुष (२५) पुरुषोत्तम आदिदेदेव सुविक्रम प्रभाकर शम्भो स्वयम्भो भूतादिः महाभूतो ऽसि विश्वभूत विश्वं त्वमेव विश्वगोप्तासि पवित्रमसि विश्वभव ऊर्ध्वकर्म अमृत दिवस्पते वाचस्पते घृतार्चे अनन्तकर्म वम्श प्रग्वम्श विश्वपास्त्वमेव वरार्थिनां वरदो ऽसि त्वम् ।
(३०) चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्जभिरेव च ।
हूयते च पुनर्द्वाभ्यां तुभ्यं होत्रात्मने नमः ।

इति श्रीवामनपुराणे सरोमाहात्म्ये पञ्चमो ऽध्यायः