०४

ब्रह्मोवाच
यदर्थमिह सम्प्राप्त भवन्तः सर्व एव हि ।
चिन्तयाम्यहमप्यग्रे तदर्थं च महाबला ॥ ४।१ ॥
भविष्यति च वः सर्वं काङ्क्षितं यत् सुरोत्तमाः ।
बलेर्दानवमुख्यस्य यो ऽस्य जेता भविष्यति ॥ ४।२ ॥
न केवलं सुरादीनां गतिर्मम स विश्वकृत् ।
त्रैलोक्यस्यापि नेता च देवानामपि स प्रभुः ॥ ४।३ ॥
यः प्रभुः सर्वलोकानां विश्वेशश्च सनातनः ।
पूर्वजो ऽयं सदाप्याहुरादिदेवं सनातनम् ॥ ४।४ ॥
तन्देवापि महात्मानं न विदुः को ऽप्यसाविति ।
देवानास्मान् श्रुतिं विश्वं स वेत्ति पुरुषोत्तमः ॥ ४।५ ॥
तस्यैव तु प्रसादेन प्रवक्ष्ये परमां गतिम् ।
यत्र योगं समास्थाय तपश्चरति दुश्चरम् ॥ ४।६ ॥
क्षीरोद्सयोत्तरे कूले उदीच्यां दिशि विश्वकृत् ।
अमृतं नाम परमं स्थानमाहुर्मनीषिणः ॥ ४।७ ॥
भवन्तस्तत्र वै गत्वा तपसा शंसितव्रताः ।
अमृतं स्थानमासाद्य तपश्चरत दुश्चरम् ॥ ४।८ ॥
ततः श्रोष्यथ सङ्घुष्टां स्निग्धगम्भीरनिः स्वनाम् ।
उष्णान्ते तोयदस्येव तोयपूर्णस्य निःस्वनम् ॥ ४।९ ॥
रक्तां पुष्टक्षरां रम्यमाभयां सर्वदा शिवाम् ।
वाणीं परमसंस्कारं वदतां ब्रह्मवादिनाम् ॥ ४।१० ॥
दिव्यां सत्यकरीं सत्यां सर्वकल्मषनाशिनीम् ।
सर्वदेवाधिदेवस्य ततो ऽसौ भावितात्मनः ॥ ४।११ ॥
तस्य व्रतसमाप्त्यां तु योगव्रतविसर्जने ।
अमोघं तस्य देवस्य विश्वतेजो महात्मनः ॥ ४।१२ ॥
कस्य किं वो वरं देवा ददामि वरदः स्थितः ।
स्वागतं वः सुरश्रेष्ठा मत्समीपमुपागताः ॥ ४।१३ ॥
ततो ऽदितिः कश्यपश्च गृह्णीयातां वरं तदा ।
प्रणम्य शिरसा पादौ तस्मै देवाय धीमते ॥ ४।१४ ॥
भगवानेव नः पुत्रो भवत्विति प्रसीद नः ।
उक्तश्च परया वाचा तथास्त्वति स वक्ष्यति ॥ ४।१५ ॥
देवा ब्रुवन्ति ते सर्वे कस्यपो ऽदितिरेव च ।
तथास्त्विति सुराः सर्वे प्रणम्य शिरसा प्रभुम् ।
श्वेतद्वीपं समुद्दिश्य गताः सौम्यदिशं प्रति ॥ ४।१६ ॥
ते ऽचिरेणैव सम्प्राप्ताः क्षीरोदं सरितां पतिम् ।
यथोद्दिष्टं भगवता ब्रह्मणा सत्यवादिना ॥ ४।१७ ॥
ते क्रान्ताः सागरान् सर्वान् पर्वतांश्च सकाननान् ।
नदीश्च विविधा दिव्याः पृथिव्यां ते सुरोक्तमाः ॥ ४।१८ ॥
अपश्यन्त तमो घोरं सर्वसत्त्वविवर्जितम् ।
अभास्करममर्यादं तमसा सर्वतो वृतम् ॥ ४।१९ ॥
अमृतं स्थानमासाद्यकश्यपेन महात्मना ।
दीक्षिताः कामदं दिव्यं व्रतं वर्ष सहस्रकम् ॥ ४।२० ॥
प्रसादार्थं सुरेशाय तस्मै योगाय धीमते ।
नारायणाय देवाय सहस्राक्षाय भूतये ॥ ४।२१ ॥
ब्रह्मचर्येण मौनेन स्थानवीरासनेन च ।
क्रमेण च सुराः सर्वे तप उग्रं समास्थिताः ॥ ४।२२ ॥
कश्यपस्तत्र भगवान् प्रसादार्थं महात्मनः ।
उदीरयत वेदोक्तं यमाहुः परमं स्तवम् ॥ ४।२३ ॥
इति श्रीवामनपुराणे सरोमाहात्म्ये चतुर्थे ऽध्यायः