इन् रेए निच्ह्त् ज़ुल्Äस्सिगे ज़ेइच्हेन्:
ऋषय ऊचुः
देवानां ब्रूहि नः कर्म यद्वृत्तास्ते पराजिताः ।
कथं देवातिदेवो ऽसौ विष्णुर्वामनतां गतः ॥ ३।१ ॥
लोमहर्षण उवाच॥
बलिसंस्थं च त्रैलोक्यं दृष्ट्वा देवः पुरन्दरः।
मेरुप्रस्थं ययौ शक्रः स्वमातुर्निलयं शुभम् ॥ ३।२ ॥
समीपं प्राप्य मातुश्च कथयामास तां गिरम् ।
आदित्याश्च यथा युद्धे दानवेन पराजिताः ॥ ३।३ ॥
अदितिरुवाच॥
यद्येवं पुत्र युष्माभिर्न शक्यो हन्तुमाहवे ।
बलिर्विरोचनसुतः सर्वैश्चैव मरुद्गणैः ॥ ३।४ ॥
सहस्रशिरसा शक्यः केवलं हन्तुमाहवे ।
तेनैकेन सहस्राक्ष न स ह्यन्येन शक्यते ॥ ३।५ ॥
तद्वत् पृच्छामि पितरं कश्यपं ब्रह्मवादिनम्।
पराजयार्थं दैत्यस्य बलेस्तस्य महात्मनः ॥ ३।६ ॥
ततो ऽदित्या सह सुराः पम्प्राप्ताः कश्यपान्तिकम् ।
तत्रापश्यन्त मारीचं मुनिं दीप्ततपोनिधिम् ॥ ३।७ ॥
आद्यं देवगुरुं दिव्यं प्रदीप्तं ब्रह्मवर्चसा ।
तेजसा भास्कराकारं स्थितमग्निशिखोपमम् ॥ ३।८ ॥
न्यस्तदण्डं तपोयुक्तं बद्धकृष्णाजिनाम्बरम् ।
वल्कलाजिनसंवीतं प्रदीप्तमिव तेजसा ॥ ३।९ ॥
हुताशमिव दीप्यन्तमाज्यगन्धपुरस्कृतम् ।
स्वाध्यायवन्तं पितरं वपुष्मन्तमिवानलम् ॥ ३।१० ॥
ब्रह्मवादिसत्यवादिसुरासुरगुरुं प्रभुम् ।
ब्राह्मण्याप्रतिमं लक्ष्म्या कश्यपं दीप्ततेजसम् ॥ ३।११ ॥
यः स्रष्टा सर्वलोकानां प्रजानां पतिरुत्तमः ।
आत्मभावविशेषेण तृतीयो यः प्रजापतिः ॥ ३।१२ ॥
अथ प्रणम्य ते वीराः सहादित्या सुरर्षभाः ।
ऊचुः प्राञ्जलयः सर्वे ब्रह्माणमिव मानसाः ॥ ३।१३ ॥
अजेयो युधि शक्रेण बलिर्दैत्यो बलाधिकः ।
तस्माद् विधत्त नः श्रेयो देवानां पुष्टिवर्धनम् ॥ ३।१४ ॥
श्रुत्वा तु वचनं तेषां पुत्राणां कश्यपः प्रभुः ।
अकरोद् गमने बुद्धि ब्रह्मलोकाय लोककृत् ॥ ३।१५ ॥
कश्यप उवाच
शक्र गच्छाम सदनं ब्रह्मणः परमाद्भुतम् ।
तथा पराजयं सर्वे ब्रह्मणः ख्यातुमुद्यताः ॥ ३।१६ ॥
सहादित्या ततो देवायाताः काश्यपमाश्रमम् ।
प्रस्थिता ब्रह्मसदनं महर्षिगणसेवितम् ॥ ३।१७ ॥
ते मुहूर्तेन सम्प्राप्ता ब्रह्मलोकं सुवर्चसः ।
दिव्यैः कामगमैर्यानैर्यथार्हैस्ते महाबलाः ॥ ३।१८ ॥
ब्रह्माणं द्रष्टुमिच्छन्तस्तपोराशिनमव्यायम् ।
अध्यगच्छन्त विस्तीर्णा ब्रह्मणः परमां सभाम् ॥ ३।१९ ॥
षट्पदोद्गीतमधुरां सामगैः समुदीरिताम् ।
श्रेयस्करीममित्रघ्नीं दृष्ट्वा सञ्जहृषुस्तदा ॥ ३।२० ॥
ऋचो बह्वचमुख्यैश्च प्रोक्ताः क्रमपदाक्षराः ।
शुश्रुवुर्विबुधव्याघ्रा विततेषु च कर्मसु ॥ ३।२१ ॥
यज्ञविद्यावेदविदः पदक्रमविदस्तथा ।
स्वरेण परमर्षिणां सा बभूव प्रणादिता ॥ ३।२२ ॥
यज्ञसंस्तवविद्भिश्च शिक्षाविद्भिस्तथा द्विजैः ।
छन्दसां चैव चार्थज्ञैः सर्वविद्याविशारदैः ॥ ३।२३ ॥
लोकायतिकमुख्यैश्च शुश्रुवुः स्वरमीरितम् ।
तत्र तत्र च विप्रेन्द्रा नियताः शंसितव्रताः ॥ ३।२४ ॥
जपहोमपरा मुख्या ददृशुः कश्यपात्मजाः ।
तस्यां सभायामास्ते स ब्रह्म लोकपितामहः ॥ ३।२५ ॥
सुरासुरगुरुः श्रीमान् विद्यया वेदमायया ।
उपासन्त च तत्रैव प्रजानां पतयः प्रभुम् ॥ ३।२६ ॥
दक्षः प्रचेताः पुलहो मरीचिश्च द्विजोत्तमाः ।
भृगुरत्रिर्वसिष्ठश्च गौतमो नारदस्तथा ॥ ३।२७ ॥
विद्यास्तथान्तरिक्षं च वायुस्तेजो जलं महो ।
शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च ॥ ३।२८ ॥
प्रकृतिश्च विकारश्च यच्चान्यत् कारणं महत् ।
साङ्गोपाङ्गाश्च चत्वारो वेदा लोकपतिस्तथा ॥ ३।२९ ॥
नयाश्च क्रतवश्चैव सङ्कल्पः प्राण एव च ।
एते चान्ये च बहवः स्वयम्भुवमुपासते ॥ ३।३० ॥
अर्थो धर्मश्य कामश्च क्रोधो हर्षश्च नित्यशः ।
सक्रो बृहस्पतिश्चैव संवर्तऽथ बुधस्तथा ॥ ३।३१ ॥
शनाश्चरश्च राहुश्च ग्रहाः सर्वे व्यवस्थिताः ।
मरुतो विश्वकर्मा च वसवश्च द्विजोत्तमाः ॥ ३।३२ ॥
दिवाकरश्च सोमश्च दिवा रात्रिस्तथैव च ।
अर्द्धमासाश्च मासाश्च ऋतवः षट् च संस्थिताः ॥ ३।३३ ॥
तां प्रविश्य सभां दिव्यां ब्रह्मणः सर्वकामिकाम् ।
कश्यपस्त्रिदशैः सार्द्ध पुत्रैर्धर्मभृतां वरः ॥ ३।३४ ॥
सर्वतेजोमयीं दिव्यां ब्रह्मर्षिगणसेविताम् ।
ब्राह्म्या श्रिया सेव्यमानाम् अचिन्त्यां विगतक्लमाम् ॥ ३।३५ ॥
ब्रह्मणं प्रक्ष्य ते सर्वे परमासनमास्थितम् ।
शिरोभिः प्रणता देवं देवा ब्रह्मर्षिभिः सह ॥ ३।३६ ॥
ततः प्रणम्य चरणौ नियताः परमात्मनः ।
विमुक्ताः सर्वपापेभ्यः शान्ता विगतकल्मषाः ॥ ३।३७ ॥
दृष्ट्वा तु तान् सुरान् सर्वान् कश्यपेन सहागतान् ।
आह ब्रह्म महातेजा देवानां प्रभुरीश्वरः ॥ ३।३८ ॥