०२

ऋषय ऊचुः
ब्रूहि वामनमाहात्म्यमुत्पत्तिं च विशेषतः ।
यथा बलिर्नियमितो दत्तं राज्यं शतक्रतोः ॥ २।१ ॥
लोमहर्षण उवाच
शृणुध्वं मुनयः प्रीता वामनस्य महात्मनः ।
उत्पत्तिं च प्रभावं च निवासं कुरुजाङ्गले ॥ २।२ ॥
तदेव वंशं दैत्यानां शृणुध्वं द्विजसत्तमाः ।
यस्य वंशे समभवद् बलिर्वैरोचनिः पुरा ॥ २।३ ॥
दैत्यानामादिपुरुषो हिरण्यकशिपुः पुरा ।
तस्य पुत्रो महातेजाः प्रह्लादो नाम दानवः ॥ २।४ ॥
तस्माद् विरोचनो जज्ञे बलिर्जज्ञे विरोचनात् ।
हते हिरण्यकशिपौ देवानुत्साद्य सर्वतः ॥ २।५ ॥
राज्यं कृतं च तेनेष्टं त्रैलोक्ये सचराचरे ।
कृतयत्नेषु देवेषु त्रैलोक्ये दैत्यतां गते ॥ २।६ ॥
जये तथा बलवतोर्मयशम्बरयोस्तथा ।
शुद्धासु दिक्षु सर्वासु प्रवृत्ते धर्मकर्मणि ॥ २।७ ॥
सम्प्रवृत्ते दैत्यपथे अयनस्थे दिवाकरे ।
प्रह्लादशम्बरमयैरनुह्वादेन चैव हि ॥ २।८ ॥
दिक्षु सर्वासु सुप्तासु गगने दैत्यपालिते ।
देवेषु मखशोभां च स्वर्गस्थां दर्शयत्सु च ॥ २।९ ॥
प्रकृतिस्थे ततो लोके वर्तमाने च सत्पथे ।
अभावे सर्वपापानां धर्मभावे सदोत्थिते ॥ २।१० ॥
चतुष्पादे स्थिते धर्मे ह्यधर्मे पादविग्रहे ।
प्रजापालनयुक्तेषु भ्राजमानेषु राजसु ।
स्वधर्मसम्प्रयुक्तेषु तथाश्रमनिवासिषु ॥ २।११ ॥
अभिषिक्तो ऽसुरैः सर्वैर्दैत्यराज्ये बलिस्तदा ।
हृष्टेष्वसुरसङ्घेषु नदत्सु मुदितेषु च ॥ २।१२ ॥
अथाभ्युपगता लक्ष्मीर् बलिं पद्मान्तरप्रभा ।
पद्मोद्यतकरा देवी वरदा सुप्रवेशिनी ॥ २।१३ ॥
श्रीरुवाच
बले बलवतां श्रेष्ठ दैत्यराज महाद्युते ।
प्रीतास्मि तव भद्रं ते देवराजपराजये ॥ २।१४ ॥
यत्त्वया युधि विक्रम्य देवराज्यं पराजितम् ।
दृष्ट्वा ते परमं सत्त्वं ततो ऽहं स्वयमागता ॥ २।१५ ॥
नाश्चर्यं दानवव्याघ्र हिरण्यकशिपोः कुले ।
प्रसूतस्यासुरेन्द्रस्य तव कर्मे दमीदृशम् ॥ २।१६ ॥
विशेषितस्त्वया राजन् दैत्येन्द्रः प्रपितामहः ।
येन भुक्तं हि निखिलं त्रैलोक्यमिदमव्ययम् ॥ २।१७ ॥
एवमुक्त्वा तु सा देवी लक्ष्मीर्दैत्यनृपं बलिम् ।
प्रविष्टा वरदा सेव्या सर्वदेवमनोरमा ॥ २।१८ ॥
तुष्टाश्च देव्यः प्रवराः ह्रीः कीर्तिर्द्युतिरेव च ।
प्रभा धृतिः क्षमा भूतिर् ऋद्धिर्दिव्या महामतिः ॥ २।१९ ॥
श्रुतिःस्मृतिरिडा कीर्तिः शान्तिः पुष्टिस्तथा क्रिया ।
सर्वाश्चप्सरसो दिव्या नृत्तगीतविशारदाः ॥ २।२० ॥
प्रपद्यन्ते स्म दैत्येन्द्रं त्रैलोक्यं सचराचरम् ।
प्राप्तमैश्वर्यमतुलं बलिना ब्रह्मवादिना ॥ २।२१ ॥
इति क्षीवामनपुराणे सरोमाहात्म्ये द्वितीयो ऽध्यायः