०१

देवदेव उवाच
सरस्वतीदृषद्वत्योरन्तरे कुरुजाङ्गले ।
सुनिप्रवरमासीनं पुराणं लोमहर्षणम् ।
अष्टच्छन्त द्विजवराः प्रभावं सरसस्तदा ॥ १।१ ॥
प्रमाणं सरसो ब्रूहि तीर्थानां च विशेषतः ।
देवतानां च माहात्म्यमुत्पत्तिं वामनस्य च ॥ १।२ ॥
एतच्छ्रुत्वा वचस्तेषां रोमहर्षसमन्वितः ।
प्रणिपत्य पुराणर्षिरिदं वचनमव्रवीत् ॥ १।३ ॥
लोमहर्षण उवाच
ब्रह्मणमग्र्यं कमलासनस्थं विष्णुं तथा लक्ष्मिसमन्वितं च ।
रुद्रं च देवं प्रणिपत्य मूर्ध्ना तीर्थं महद् ब्रह्मसरः प्रवक्ष्ये ॥ १।४ ॥
रन्तुकादौजसं यावत् पावनाच्च चतुर्मुखम् ।
सरः सन्निहितं प्रोक्तं ब्रह्मणा पूर्वमेव तु ॥ १।५ ॥
कलिद्वापरयोर्मध्ये व्यासेन च महात्मना ।
सरःप्रमाणं यत्प्रोक्तं तच्छृणुध्वं द्विजोत्तमाः ॥ १।६ ॥
विश्वेश्वरादस्थिपुरं रथा कन्या जरद्गवी ।
यावदोघवती प्रोक्ता तावत्सन्निहितं सरः ॥ १।७ ॥
मया श्रुतं प्रमाणं यत् पठ्यमानं तु वामने ।
तच्छृणुध्वं द्विजश्रेष्ठाः पुण्यं वृद्धिकरं महत् ॥ १।८ ॥
विश्वेश्वराद् देववरा नृपावनात् सरस्वती ।
सरः सन्निहितं ज्ञेयं समन्तादर्थयोजनम् ॥ १।९ ॥
एतदाश्रित्य देवाश्च ऋषयश्च समागताः ।
सेवन्ते मुक्तिकामार्थं स्वर्गार्थे चापरे स्थिताः ॥ १।१० ॥
ब्रह्मणा सेवितमिदं सृष्टिकामेन योगिना ।
विष्णुना स्थितिकामेन हरिरूपेण सेवितम् ॥ १।११ ॥
रुद्रेण च सरोमध्यं प्रविष्टेन महात्मना ।
सेव्य तीर्थं महातेजाः स्थाणुत्वं प्राप्तवान् हरः ॥ १।१२ ॥
आद्यैषा ब्रह्मणो वेदिस्ततो रामहृदः स्मृतः ।
करुणा च यतः कृष्टं कुरुक्षेत्रं ततः स्मृतम् ॥ १।१३ ॥
तरन्तुकारन्तुकयोर्यदन्तरं यदन्तरं रामहृदाच्चतुर्मुखम् ।
एत्कुरुक्षेत्रसमन्तपञ्चकं पितामहस्योत्तरवेदिरुच्यते ॥ १।१४ ॥
इति श्रीवामनपुराणे सरोमाहात्म्ये प्रथमो ऽध्यायः