६८

बलिरुवाच ।
भवता कथितं सर्वं समाराध्य जनार्दनम् ।
या गतिः प्राप्यते लोके तां मे वक्तुमिहार्हसि ॥ ६८।१ ॥
केनार्चनेन देवस्य प्रीतिः समुपजायते ।
कानि दानानि शस्तानि प्रीणनाय जगद्गुरोः ॥ ६८।२ ॥
उपवासादिकं कार्यं कस्यां तिथ्यां महोदयम् ।
कानि पुण्यानि शस्तानि विष्णोस्तुष्टिप्रदानि वै ॥ ६८।३ ॥
यच्चान्यदपि कर्त्तव्यं हृष्टरूपैरनालसैः ।
तदप्यशेषं दैत्येन्द्र ममाख्यातुमिहार्हसि ॥ ६८।४ ॥
प्रह्लाद उवाच ।
श्रद्दधानैर्भक्तिपरैर्यान्युद्दिश्य जनार्दनम् ।
बले दानानि दीयन्ते तानूचुर्मुनयो ऽक्षयान् ॥ ६८।५ ॥
ता एव तिथयः शस्ता यास्वभ्यर्च्य जगत्पतिम् ।
तच्चित्तस्तन्मयो भूत्वा उपवासी नरो भवेत् ॥ ६८।६ ॥
पूजितेषु द्विजेन्द्रेषु पूजितः स्याज्जनार्दनः ।
एतान् द्विषन्ति ये मूढास्ते यान्ति नरकं ध्रुवम् ॥ ६८।७ ॥
तानर्चयेन्नरो भक्त्या ब्राह्मणान् विष्णुतत्परः ।
एवमाह हरिः पूर्वं ब्राह्मणा मामकी तनुः ॥ ६८।८ ॥
ब्राह्मणो नावमन्तव्यो बुधो वाप्यबुधो ऽपि वा ।
सो ऽपि दिव्या तनुर्विष्णोस्तस्मात् तामर्चयेन्नरः ॥ ६८।९ ॥
तान्येव च प्रशस्तानि कुसुमानि महासुर ।
यानि स्युर्वर्णयुक्तानि रसगन्धयुतानि च ॥ ६८।१० ॥
विशेषतः प्रवक्ष्यामि पुष्पाणि तिथयस्तथा ।
दानानि च प्रशस्तानि माधवप्रीणनाय तु । ।
६८।११ जाती शताह्वा सुमनाः कुन्दं बहुपुटं तथा ।
बाणञ्च चम्पकाशोकं करवीरं च यूथिका ॥ ६८।१२ ॥
पारिभद्रं पाटला च बकुलं गिरिशालिनी ।
तिलकं च जपाकुसुमं पीतकं नागरं त्वपि ॥ ६८।१३ ॥
एतानि हि प्रशस्तानि कुसुमान्यच्युतार्चने ।
सुरभीणि तथान्यानि वर्जयित्वा तु केतकीम् ॥ ६८।१४ ॥
बिल्वपत्रं शमीपत्रं पत्रं भृङ्गमृगाङ्कयोः ।
तमालामलकीपत्रं शस्तं केशवपूजने ॥ ६८।१५ ॥
येषामपि हिच पुष्पाणि प्रशस्तान्यच्युतार्चने ।
पल्लवान्यपि तेषां स्तुः पत्राण्यर्चाविधौ हरेः ।
६८।१६ वीरुधां च प्रवालेन बर्हिषा चार्चयेत्तथा ।
नानारूपैश्चाम्बुभवैः कमलेन्दीवरादिभिः ॥ ६८।१७ ॥
प्रवालैः शुचिभिः श्लक्ष्णैर्जलप्रक्षालितैर्बले ।
वनस्पतीनामर्च्येत तथा दूर्वाग्रपल्लवैः ॥ ६८।१८ ॥
चन्दनेनानुलिम्पेत कुङ्कुमेन प्रयत्ननतः ।
उशीरपद्मकाभ्यां च तथा कालीयकादिना ॥ ६८।१९ ॥
महिषाख्यं कणं दारु सिह्लकं सागरुं सिता ।
शङ्खं जातीफलं श्रीशे धूपानि स्युः प्रियाणि वै ॥ ६८।२० ॥
हविषा संस्कृता ये तु यवगोधूमशालयः ।
तिलमुद्गादयो माषा व्रीहयश्च प्रिया हरेः ॥ ६८।२१ ॥
गोदानानि पवित्राणि भूमिदानानि चानघ ।
वस्त्रान्नस्वर्णदानानि प्रीतये मधुघातिनः ॥ ६८।२२ ॥
माघमासे तिला देयास्तिलधेनुश्च दानव ।
इन्धनादीनि च तथा माधवप्रीणनाय तु ॥ ६८।२३ ॥
फाल्गुने व्रीहयो मुद्गा वस्त्रकृष्णाजिनादिकम् ।
गोविन्दप्रीणनार्थाय दातव्यं पुरुषर्षभैः ॥ ६८।२४ ॥
चैत्रे चित्राणि वस्त्राणि शयनान्यासनानि च ।
विष्णोः प्रीत्यर्थमेतानि देयानि ब्राह्मणेष्वथ ॥ ६८।२५ ॥
गन्धमाल्यानि देयानि वैशाखे सुरभीणि वै ।
देयानि द्विजमुख्येभ्यो मधुसूदनतुष्टये ॥ ६८।२६ ॥
उदकुम्भाम्बुधेनुं च तालवृन्तं सुचन्दनम् ।
त्रिविक्रमस्य प्रीत्यर्थं दातव्यं साधुभिः सदा ॥ ६८।२७ ॥
उवानद्युगलं छत्रं लवणामलकादिकम् ।
आषाढे वामनप्रीत्यै दातव्यानि तु भक्तितः ॥ ६८।२८ ॥
घृतं च क्षीरकुम्भाश्च घृतधेनुफलानि च ।
श्रावणे श्रीधरप्रीत्यै दातव्यानि विपश्चिता ॥ ६८।२९ ॥
मासि भाद्रपदे दद्यात् पायसं मधुसर्पिषी ।
हृषीकेशप्रीणनार्थं लवणं सगुडोदनम् ॥ ६८।३० ॥
तिलास्तुरङ्गं वृषभं दधि ताम्रायसादिकम् ।
प्रीत्यर्थं पद्मनाभस्य देयमाश्वयुजे नरैः ॥ ६८।३१ ॥
रजतं कनकं दीपान् मणिमुक्ताफलादिकम् ।
दामोदरस्य तुष्ट्यर्थं प्रदद्यात् कार्तिके नरः ॥ ६८।३२ ॥
खरोष्ट्राश्वतरान् नागान् यानयुग्यमजाविकम् ।
दात्वयं केशवप्रीत्यै मासि मार्गशिरे नरैः ॥ ६८।३३ ॥
प्रासादनगरादीनि गृहप्रावरणादिकम् ।
नारायणस्य तुष्ट्यर्थं पौषे देयानि भक्तितः ॥ ६८।३४ ॥
दासीदासमलङ्कारमन्नं षड्रससंयुतम् ।
पुरुषोत्तमस्य तुष्ट्यर्थं प्रदेयं सार्वकालिकम् ॥ ६८।३५ ॥
यद्यदिष्टतमं किञ्चिद्यद्वाप्यस्ति शुचि गृहे ।
तत्तद्वि देयं प्रीत्यर्थं देवदेवाय चक्रिणे ॥ ६८।३६ ॥
यः कारयेन्मन्दिरं केशवस्य पुण्यांल्लोकान् स जयेच्छाश्वतान् वै ।
दत्त्वारामान् पुष्पफलाभिपन्नान् भोगान् भुङ्क्ते कामातः श्लाघनीयान् ॥ ६८।३७ ॥
पितामहस्य पुरतः कुलान्यष्टौ तु यानि च ।
तारयेदात्मना सार्धं विष्णोर्मन्दिरकारकः ॥ ६८।३८ ॥
इमाश् च पितरो दैत्य गाथा गायन्ति योगिनः ।
पुरतो यदुसिंहस्य ज्यामघस्य तपस्विनः ॥ ६८।३९ ॥
अपि नः स कुले कश्चिद् विष्णुभक्तो भविष्यति ।
हरिमन्दिरकर्ता यो भविष्यति शिचिव्रतः ॥ ६८।४० ॥
अपि नः सन्ततौ जायेद् विष्ण्वालयविलेपनम् ।
सम्मार्जनं च धर्मात्मा करिष्यति च भक्तितः ॥ ६८।४१ ॥
अपि नः सन्ततौ जातो ध्वजं चकेशवमन्दिरे ।
दास्यते देवदेवाय दीपं पुष्पानुलेपनम् ॥ ६८।४२ ॥
महापातकयुक्तो वा पातकी चोपपातकी ।
विमुक्तपापो भवति विष्ण्वायतनचित्रकृत् ॥ ६८।४३ ॥
इत्थं पितॄणां वचनं श्रुत्वा नृपतिसत्तमः ।
चकारायतनं भूम्यां ख्यं च लिम्पतासुर ॥ ६८।४४ ॥
विभूतिभिः केशवस्य केशवाराधने रतः ।
नानाधातुविकारैश्च पञ्चवर्णैश्च चित्रकैः ॥ ६८।४५ ॥
ददौ दीपानि विधिवद् वासुदेवालये बले ।
सुगन्धितैलपूर्णानि घृतपूर्णानि च स्वयम् ॥ ६८।४६ ॥
नानावर्णा वैजयन्त्यो महारजनरञ्जिताः ।
मञ्जिष्ठा नवरङ्गीयाः श्वेतपाटलिकाश्रिताः ॥ ६८।४७ ॥
आरामा विविधा हृद्याः पुष्पाढ्याः फलशालिनः ।
लतापल्लवसञ्छन्ना देवदारुभिरावृताः ॥ ६८।४८ ॥
कारिताश्च महामञ्चाधिष्ठिताः कुशलैर्जनैः ।
पौरोगवविधानज्ञै रत्नसंस्कारिभिर्द्दढै ॥ ६८।४९ ॥
तेषु नित्यं प्रपूज्यन्ते यतयो ब्रह्मचारिणः ।
श्रोत्रिया ज्ञानसम्पन्ना दीनान्धविकलादयः ॥ ६८।५० ॥
इत्थं स नृपतिः कृत्वा श्रद्दधानो जितेन्द्रियः ।
ज्यामघो विष्णुनिलयं गत इत्यनुशुश्रुमः ॥ ६८।५१ ॥
तमेव चाग्यापि बले मार्गं ज्यामघकारितम् ।
व्रजन्ति नरशार्दूल विष्णुलोकजिगीषवः ॥ ६८।५२ ॥
तस्मात् त्वमपि राजेन्द्र कारयस्वालयं हरेः ।
तमर्चयस्व यत्नेन ब्राह्मणांश्च बहुश्रुतान् ।
पौराणिकान् विशेषेण सदाचाररताञ्शुचीन् ॥ ६८।५३ ॥
वासोभिर्भूषणै रत्नैर्गौभिर्भूकनकादिभिः ।
विभवे सति देवस्य प्रीणनं कुरु चक्रिणः ॥ ६८।५४ ॥
एवं क्रियायोगरतस्य ते ऽद्य नूनं मुरारिः शुभदो भविष्यति ।
नरा न सीदन्ति बले समाश्रिता विभुं जगन्नाथमनन्तमच्युतम् ॥ ६८।५५ ॥
पुलस्त्य उवाच ।
इत्येवमुक्त्वा वचनं दितीश्वरो वैरोचनं सत्यमनुत्तमं हि ।
सम्पूजितस्तेन विमुक्तिमाययौ सम्पूर्णकामो हरिपादभक्तः ॥ ६८।५६ ॥
गते हि तस्मिन् मुदिते पितामहे बलेर्बभौ मन्दिरमिन्दुवर्णम् ।
महेन्द्रशिल्पिप्रवरो ऽथ केशवं स कारयामास महामहीयान् ॥ ६८।५७ ॥
स्वयं स्वभार्यासहितश्चकार देवालये मार्जनलेपनादिकाः ।
क्रिया महात्मा यवशर्कराद्यां बलिं चकाराप्रतिमां मधुद्रुहः ॥ ६८।५८ ॥
दीपप्रदानं स्वयमायताक्षी विन्ध्यावली विष्णुगृहे चकार ।
गेयं स धर्म्यश्रवणं च धीमान् पौराणिकैर्विप्रवरैरकारयत् ॥ ६८।५९ ॥
तथाविधस्यासुरपुङ्गवस्य धर्म्ये सुमार्गे प्रतिसंस्थितस्य ।
जगत्पतिर्दिव्यवपुर्जनार्दनस्तस्थौ महात्मा बलिरक्षणाय ॥ ६८।६० ॥
सूर्यायुताभं मुसलं प्रगृह्य निघ्नन् स दुष्टारियूथापालान् ।
द्वारि स्थितो न प्रददौ प्रवेशं प्राकारगुप्ते बलिनो गृहे तु ॥ ६८।६१ ॥
द्वारि स्थिते धातरि रक्षपाले नारायणे सर्वगुणाभिरामे ।
प्रासादमध्ये हरिमीशितारमभ्यर्चयामास सुरर्षिमुख्यम् ॥ ६८।६२ ॥
स एवमास्ते ऽसुरराड् बलिस्तु समर्चयन् वै हरिपादपङ्कजौ ।
सस्मार नित्यं हरिभषितानि स तस्य जातो विनयाङ्कुशस्तु ॥ ६८।६३ ॥
इदं च वृत्तं स पपाठ दैत्यराट् स्मरन् सुवाक्यानि गुरोः शुभानि ।
तथ्यानि पथ्यानि परत्र चेह पितामहस्येन्द्रसमस्य वीरः ॥ ६८।६४ ॥
ये वृद्धवाक्यानि समाचरन्ति श्रुत्वा दुरुक्तान्यपि पूर्वतस्तु ।
स्निग्धानि पश्चान्नवनीतशुद्धा मोदन्ति ते नात्र विचारमस्ति ॥ ६८।६५ ॥
आपद्भुजङ्गदष्टस्य मन्त्रहीनस्य सर्वदा ।
वृद्धवाक्यैषधा नूनं कुर्वन्ति किल निर्विषम् ॥ ६८।६६ ॥
वृद्धवाक्यामृतं पीत्वा तदुक्तमनुमान्य च ।
या तृप्तिर्जायते पुंसा सोमपाने कुतस्तथा ॥ ६८।६७ ॥
आपत्तौ पतितानां येषां वृद्धा न सन्ति शास्तारः ।
ते शोच्या बनधूनां जीवन्तो ऽपीह मृततुल्याः ॥ ६८।६८ ॥
आपद्ग्राहगृहीतानां वृद्धाः सन्ति न पण्डिताः ।
येषां मोक्ष्यितारे वै तेषां सान्तिर्न विद्यते ॥ ६८।६९ ॥
आपज्जलनिमग्नानां ह्रियतां व्यसनोर्मिभिः ।
वृद्धवाक्यैर्विना नूनं नैवोत्तारं कथञ्चन ॥ ६८।७० ॥
तस्माद् यो वृद्धवाक्यानि शृणुयाद् विदधाति च ।
स सद्यः सिद्धिमाप्नोति यथा वैरोचनो बलिः ॥ ६८।७१ ॥

इति श्रीवामनपुराणे अष्टषष्टितमो ऽध्यायः