६७

पुलस्त्य उवाच ।
गत्वा रसातलं दैत्यो महार्हमणिचित्रितम् ।
शुद्धस्फटिसोपानं कारयामास वै पुरम् ॥ ६७।१ ॥
तत्र मध्ये सुविस्तीर्मः प्रासादो वज्रवेदिकः ।
मुक्ताजालान्तरद्वारो निर्मितो विश्वकर्मणा ॥ ६७।२ ॥
तत्रास्ते विविधान् भोगान् भुञ्जन् दिव्यान् स मानुषान् ।
नाम्ना विन्ध्यावलीत्येवं भार्यास्य दयिताभवत् ।
६७।३ युवतीनां सहस्रस्य प्रधाना शीलमण्डिता ।
तया सह महातेजा रेमे वैरोचनिर्मुने ॥ ६७।४ ॥
भोगासक्तस्य दैत्यस्य वसतः सुतले तदा ।
दैत्यतेजोहरः प्राप्तः चपाताले वै सुदर्शनः ॥ ६७।५ ॥
चक्रे प्रविष्टे पातालं दानवानां पुरे महान् ।
बभै हलहलाशब्दः क्षुभितार्णवसन्निभः ॥ ६७।६ ॥
तं च श्रुत्वा महाशब्दं बलिः खङ्गं समाददे ।
आः किमेतदितीत्थञ्च पप्रच्छासुरपुङ्गवः ॥ ६७।७ ॥
ततो विन्ध्यावली प्राह सान्त्वयन्ती निजं पतिम् ।
कोशे खङ्गं समावेश्य धर्मपत्नी शुचिव्रता ॥ ६७।८ ॥
एतद् भगवतश्चक्रं दैत्यचक्रक्षयङ्करम् ।
सम्पूजनीयं दैत्येन्द्र वामनस्य महात्मनः ।
इत्येवमुक्त्वा चार्वङ्गी सार्घपात्रा विनिर्ययौ ॥ ६७।९ ॥
अथाभ्यागात् सहस्रारं विष्णोश्चक्रं सुदर्शनम् ।
ततो ऽसुरपतिः प्रह्वः कृताञ्जलिपुटो मुने ।
सम्पूज्य विधिवच्चक्रमिदं स्तोत्रमुदीरयत् ॥ ६७।१० ॥
बलिरुवाच ।
नमस्यामि हरेश्चक्रं दैत्यचक्रविदारणम् ।
सहस्रांशुं सहस्राभं सहस्रारं सुनिर्मलम् ॥ ६७।११ ॥
नमस्यामि हरेश्चक्रं यस्य नाभ्यां पितामहः ।
तुण्डे त्रिशूलधृक् शर्व आरामूले महाद्रयः ॥ ६७।१२ ॥
अरेषु संस्थिता देवाः सेन्द्राः सार्काः सपावकाः ।
जवे यस्य स्थितो वायुरापोग्निः पृथिवी नभः ॥ ६७।१३ ॥
आरप्रान्तेषु जीमूताः सौदामिन्यृक्षतारकाः ।
बाह्मतो मुनयो यस्य बालखिल्यादयस्तथा ॥ ६७।१४ ॥
तमायुधवरं वन्दे वासुदेवस्य भक्तितः ।
यन्मे पापं शरीरोत्थं वाग्जं मानसमेव च ॥ ६७।१५ ॥
तन्मे दहस्व दीप्तांशो विष्णोश्चक्र सुदर्शन ।
यन्मे कुलोद्भवं पापं पैतृकं मातृकं तथा ॥ ६७।१६ ॥
तन्मे हरस्व तरसा नमस्ते अच्युतायुध ।
आधयो मम नश्यन्तु व्याधयो यान्तु सङ्क्षयम् ।
त्वन्नामकीर्तनाच् चक्र दुरितं यातु सङ्क्षयम् ॥ ६७।१७ ॥
इत्येवमुक्त्वा मतिमान् समभ्यर्च्याथ भक्तितः ॥
संस्मरन् पुण्डरीकाक्षं सर्वपापप्रणासनम् ॥ ६७।१८ ॥
पूजितं बलिना चक्रं कृत्वा निस्तेजसो ऽसुरान् ।
निश्चक्रामाथ पातालाद् विषुवे दक्षिमे मुने ॥ ६७।१९ ॥
सुदर्शने निर्गते तु बलिर्विक्लवतां गतः ।
परमामापदं प्राप्य सस्मार स्वपितामहम् ॥ ६७।२० ॥
स चापि संस्मृतः प्राप्तः सुतलं दानवेश्वरः ।
दृष्ट्वा तस्थौ महातेजाः सार्घपात्रो बलिस्तदा ॥ ६७।२१ ॥
तमर्च्य विधिना ब्रह्मन् पितुः पितरमीश्वरम् ।
कृताञ्जलिपुटो भूत्वा इदं वचनमब्रवीत् ।
६७।२२ संस्मृतो ऽसि मया तात सुविषण्णेन चेतसा तन्मे हितं च पथ्यं च श्रेयोग्र्यं वद तात मे ।
६७।२३ किं कार्यं तात संसारे वसता पुरुषोण हि ।
कृतेन येन वै नास्य बन्धः समुपजायते ।
६७।२४ संसारार्णवमग्नानां नराणामल्पचेतसाम् ।
तरणे यो भवेत् पोतस्तन्मे व्याख्यातुमर्हसि ॥ ६७।२५ ॥
पुलस्त्य उवाच ।
एतद्वचनमाकर्ण्य तत्पौत्राद् दानवेश्वरः ।
विचिन्त्य प्राह वचनं संसारे यद्वितं परम् ॥ ६७।२६ ॥
प्रह्लाद उवाच ।
साधु दानवशार्दूल यत्ते जाता मतिस्त्वियम् ।
प्रवक्ष्यामि हितं ते ऽद्य तथानेयेषां हितं बले ॥ ६७।२७ ॥
भवजलधिगतानां द्वान्द्ववाताहतानां सुतदुहितृकलत्रत्राणभारार्दितानाम् ।
विषमविषयतोये मज्जतामप्लावानां भवति शरणमेको विष्णुपोतो नराणाम् ॥ ६७।२८ ॥
ये संश्रिता हरिमनन्तमनादिमध्यं नारायणं सुरगुरुं शुभदं वरेण्यम् ।
शुद्धं खगेन्द्रगमनं कमलालयेशं ते धर्मराजकरणं न विशन्ति धीराः ।
६७।२९ स्वपुरुषमभिवीक्ष्य पाशहस्तं वदति यमः किल तस्य कर्णमूले ।
परिहर मधुसूदनप्रन्नान् प्रभुरहमन्यनृणां न वैष्णवानाम् ॥ ६७।३० ॥
तथान्यदुक्तं नरसत्तमेन इक्ष्वाकुणा भक्तियुतेन नूनम् ।
ये विष्णुभक्ताः पुरुषाः पृथिव्यां यमस्य ते निर्विषया भवन्ति ॥ ६७।३१ ॥
सा जिह्वा या हरिं स्तौति तच्चित्तं यत्तदर्पितम् ।
तावेव केवलं शलाघ्यौ यौ तत्पूजाकरौ करौ ॥ ६७।३२ ॥
नूनं न तौ करौ प्रोक्तौ वृक्षशाखाग्रपल्लवौ ।
न यौ पूजितुं शक्तौ हरिपादाम्बुजद्वयम् ॥ ६७।३३ ॥
नूनं तत्कण्ठशालूकमथवा प्रतिजिह्वका ।
रोगोवान्यो न सा जिह्वा या न वक्ति हरेर्गुणान् ॥ ६७।३४ ॥
शोचनीयः स बन्धूनां जीवन्नपि मृतो नरः ।
यः पादपङ्कजं विष्णोर्न पूजयति भक्तितः ॥ ६७।३५ ॥
ये नरा वासुदेवस्य सततं पूजने रताः ।
मृता अपि न शोच्यास्ते सत्यं सत्यं मयोदितम् ॥ ६७।३६ ॥
शारीरं मानसं वाग्जं मूर्तामूर्तं चराचरम् ।
दृश्यं स्पृस्यमदृश्यञ्च तत्सर्वं केशवात्मकम् ॥ ६७।३७ ॥
येनार्चितो हि भगवान् चतुर्धा वै त्रिविक्रमः ।
तेनार्चिता न सन्देहो लोकाः सामरदानवाः ॥ ६७।३८ ॥
यता रत्नानि जलधेरसङ्ख्येयानि पुत्रक ।
तथा गुणा हि देवस्य त्वसङ्ख्यातास्तु चक्रिणः ॥ ६७।३९ ॥
ये शङ्खचक्राब्जकरं सशार्ङ्गिणं खगेन्द्रकेतुं वरदं श्रियः पतिम् ।
समाश्रयन्ते भवभीतिनाशनं संसारगर्ते न पतन्ति ते पुनः ॥ ६७।४० ॥
येषां मनसि गोविन्दो निवासी सततं बले ।
न ते परिभवं यान्ति न मृत्योरुद्विजन्ति च ॥ ६७।४१ ॥
देवं सार्ङ्गधरं विष्णुं ये प्रपन्नाः परायणम् ।
न तेषां यमसालोक्यं न च ते नरकौकसः ॥ ६७।४२ ॥
न तां गतिं प्राप्नुवन्ति श्रुतिशास्त्रविशारदाः ।
विप्रा दानवशार्दूल विष्णुभक्ता व्रजन्ति याम् ॥ ६७।४३ ॥
या गतिर्दैत्यशार्दूल हतानां तु महाहवे ।
ततो ऽदिकां गतिं यान्ति विष्णुभक्ता नरोत्तमाः ॥ ६७।४४ ॥
या गतिर्धर्मशीलानां सात्त्विकानां महात्मनाम् ।
सा गतिर्गदिता दैत्य भगवत्सेविनामपि ॥ ६७।४५ ॥
सर्वावासं वासुदेवं सूक्ष्ममव्यक्तविग्रहम् ।
प्रविशन्ति महात्मानं तद्भक्ता नान्यचेतसः ॥ ६७।४६ ॥
अनन्यमनसो भक्त्या ये नमस्यन्ति केशवम् ।
शुचयस्ते महात्मानस्तीर्थभूता भवन्ति ते ॥ ६७।४७ ॥
गच्छन् तिष्ठन् स्वपन् जाग्रत् पिबन्नश्चन्नभीक्ष्णशः ।
ध्यायन् नारायणं यस्तु न ततो ऽन्यो ऽस्ति पुण्यभाक् ।
वैकुण्ठं खड्गपरशुं भवबन्धसमुच्छिदम् ॥ ६७।४८ ॥
प्रणिपत्य यथान्यायं संसारे न पुनर्भवेत् ।
क्षेत्रेषु वसते नित्यं क्रीडन्नास्ते ऽमितद्युतिः ॥ ६७।४९ ॥
आसीनः सर्वदेहेषु कर्मभिर्न स बध्यते ।
येषां विष्णुः प्रियोन्त्यन्ते विष्णोः सततं प्रियाः ॥ ६७।५० ॥
न ते पुनः सम्भवन्ति तद्भक्तास्तत्परायणाः ।
ध्यायेद् दामोदरं यस्तु भक्तिनम्रोर्ऽचयेत वा ॥ ६७।५१ ॥
न स संसारपङ्के ऽस्मिन् मज्जते दानवेश्वर ।
कल्यमुत्थाय ये भक्त्या स्मरन्ति मधुसूदनम् ।
स्तुवन्त्यप्यभिशृण्वन्ति दुर्गण्यतितरन्ति ते ॥ ६७।५२ ॥
हरिवाक्यामृतं पीत्वा विमलैः श्रोत्रभाजनैः ।
प्रहृष्यति मनो येषां दुर्गाण्यतितरन्ति ते ॥ ६७।५३ ॥
येषां चक्रगदापाणौ भक्तिरव्यभिचारिणी ।
ते यान्ति नियतं स्थानं यत्र योगेश्वरो हरिः ॥ ६७।५४ ॥
विष्णुकर्मप्रसक्तानां भक्तानां या परा गतिः ।
सा तु जन्मसहस्रेण न तपोभिरवाप्यते ॥ ६७।५५ ॥
किं जप्यैस्तस्य मन्त्रैर्वा किं तपोभिः किमाश्रमैः ।
यस्य नास्ति परा भक्तिः सततं मधुसूदने ॥ ६७।५६ ॥
वृथा यज्ञा वृता वेदा वृथा दानं वृथा श्रुतम् ।
वृथा तपश्च कीर्तिश्च यो द्वेष्टि मधुसूदनम् ॥ ६७।५७ ॥
किं तस्य बहुर्भर्मन्त्रैर्भक्तिर्यस्य जनार्दने ।
नमो नारायणायेति मन्त्रः सर्वार्थसाधकः ॥ ६७।५८ ॥
विष्णुरेव गतिर्योषां कुतस्तेषां पराजयः ।
येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ॥ ६७।५९ ॥
सर्वमङ्गलमाङ्गल्यं वरेण्यं वरदं प्रभुम् ।
नारायणं नमस्कृत्य सर्वकर्माणि कारयेत् ॥ ६७।६० ॥
विष्टयो व्यतिपाताश्च ये ऽन्ये दुर्नीतिसम्भवाः ।
ते नाम स्मरणाद्विष्णोर्नासं यान्ति महासुर ॥ ६७।६१ ॥
तीर्थकोटिसहस्राणि तीर्थकोटिशतानि च ।
नारायणप्रणामस्य कलां नार्हन्ति षोडशीम् ॥ ६७।६२ ॥
पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च ।
तानि सर्वाण्यवाप्नोति विष्णोर्नामानुकीर्तनात् ॥ ६७।६३ ॥
प्राप्नुवन्ति न तांल्लोकान् व्रतिनो वा तपस्विनः ।
प्राप्यन्ते ये तु कृष्णस्य नमस्कारपरैर्न रैः ॥ ६७।६४ ॥
यो ऽप्यन्यदेवताभक्तो मिथ्यार्चयति केशवम् ।
सो।ऽपि गच्छति साधूनां स्थानं पुण्यकृतां महत् ॥ ६७।६५ ॥
सातत्येन हृषीकेशं पूजयित्वा तु यत्फलम् ।
सुचीर्णतपसां नॄणां तता फलं न कदाचन ॥ ६७।६६ ॥
त्रिसन्ध्यं पद्मानाभं तु ये स्मरन्ति सुमेधसः ।
ते लभन्त्युपवासस्य फलं नासत्यत्र संशयः ॥ ६७।६७ ॥
सततं शास्त्रदृष्टेन कर्मणा हरिमर्चय ।
तत्प्रसादात् परां सिद्धिं बले प्राप्स्यसि शाश्वतीम् ॥ ६७।६८ ॥
तन्मना भव तद्भक्तस्तद्याजी तं नमस्कुरु ।
तमेवाश्रित्य देवेशं सुखं प्राप्यसि पुत्रक ॥ ६७।६९ ॥
आद्यं ह्यनन्तमजरं हरिमव्ययं च ये वै स्मरन्त्यहरहर्नृवरा भुविस्थाः ।
सर्वत्रगं शुभदं ब्रह्ममयं पुराणम् ते यान्ति वैष्णवपदं ध्रुवमक्षयञ्च ॥ ६७।७० ॥
ये मानवा विगतरागपरापरज्ञा नारायणं सुरगुरुं सततं स्मरन्ति ।
ते धौतपाण्डुरपुटा इव राजहंसाः संसारसागरजलस्य तरन्ति पारम् ॥ ६७।७१ ॥
ध्यायन्ति ये सततमच्युतमीशितारं निष्कल्मषं प्रवरपद्मदलायताक्षम् ।
ध्यानेन तेन हतकिल्बषवेदनास्ते मातुः पयोधररसं न पुनः पिबन्ति ॥ ६७।७२ ॥
ये कीर्तयन्ति वरदं वरपद्मनाभं शङ्खाब्जचक्रवरचापगदासिहस्तम् ।
पद्मालयावदनपङ्कजषट्पदाख्यं नूनं प्रयान्ति सदनं मधुघातिनस्ते ॥ ६७।७३ ॥
शृण्वन्ति ये भक्तिपरा मनुष्याः सङ्कीर्त्यमानं भगवन्तमाद्यम् ।
ते मुक्तपापाः सुखिनो भवन्ति यथामृतप्राशनतर्पितास्तु ॥ ६७।७४ ॥
तस्माद् ध्यानं स्मरणं कीर्तनं वा नाम्नां श्रवणं पठतां सज्जनानाम् ।
कार्यं विष्णोः श्रद्दधानैर्मनुष्यैः पूजातुल्यं तत् प्रशंसन्ति देवा ॥ ६७।७५ ॥
बाह्यैस्तथान्तःकरणैरविक्लवैर्यो नार्चयेत् केशवमीशितरम् ।
पुष्पैश्च पत्रैर्जलपल्लवादिभिर्नूनं स मुष्टो विधितस्करेण ॥ ६७।७६ ॥

इति श्रीवामनपुराणे सप्तषष्टितमो ऽध्यायः