नारद उवाच ।
श्रुतं यथा भगवता बलिर्बद्धो महात्मना ।
किं त्वस्तयन्यत्तु प्रष्टव्यं तच्छ्रुत्वा कथयाद्य मे ॥ ६६।१ ॥
भगवान् देवराजाय दत्त्वा विष्णुस्त्रिविष्टपम् ।
अन्तर्धानं गतः क्वासौ सर्वात्मा तात कथ्यताम् ॥ ६६।२ ॥
सुतलस्थश्च दैत्येन्द्रः किमकार्षीत् तथा वद ।
का चेष्टा तस्य विप्रर्षे तन्मे व्याख्यातुमर्हसि ॥ ६६।३ ॥
पुलस्त्य उवाच ।
अन्तर्धाय सुरावासं वामनो ऽभूदवामनः ।
जगाम ब्रह्मसदनमधिरुह्योरगाशनम् ॥ ६६।४ ॥
वासुदेवं समायान्तं ज्ञात्वा ब्रह्माव्ययात्मकः ।
समुत्थायायथ सौहार्दात् सस्वजे कमलासनः ॥ ६६।५ ॥
परिष्वज्यार्च्य विधिना वेधाः पूजादिना हरिम् ।
पप्रच्छ किं चिरेणेह भवतागमनं कृतम् ।
६६।६ अथोवाच जगत्स्वामी मया कार्यं महत्कृतम् ।
सुराणां क्रतुभागार्थं स्वयम्भो बलिबन्धनम् ॥ ६६।७ ॥
पितामहस्तद् वचनं श्रुत्वा मुदितमानसः ।
कथं कथमिति प्राह त्वं मां दर्शितुमर्हसि ॥ ६६।८ ॥
इत्येवमुक्ते वचने भगवान् गरुडध्वजः ।
दर्शयामास तद्रूपं सर्वदेवमयं लघु ॥ ६६।९ ॥
तं दृष्ट्वा पुण्डरीकाक्षं योजनायुतविस्तृतम् ।
तावानेवोर्ध्वामानेन ततो ऽजः प्रणतो ऽभवत् ॥ ६६।१० ॥
ततः प्रणम्य सुचिरं साधु साध्वित्युदीर्य च ।
भक्तितम्रो महादेवं पद्मजः स्तोत्रमीरयत् ॥ ६६।११ ॥
ॐ नमस्ते देवाधिदेव वासुदेव एकशृङ्ग बहुरूप वृषाकपे भूतभावतन सुरासुरवृष सुरासुरमथन पीतवासः श्रीनिवास असुरनिर्मितान्त अमितनिर्मित कपिल महाकपिल विष्वक्सेन नारायण (५) ध्रुवध्वज सत्यध्वज खङ्गध्वज तालध्वज वैकुण्ठं पुरुषोत्तम वरेण्य विष्णो अपराजित जय जयन्त विजय कृतावर्त महादेव अनादे अनन्त आद्यान्तमध्यनिधन पुरञ्जय धनञ्जय शुचिश्रव पृश्निगर्भ (१०) कमलगर्भ कमलायताक्ष श्रीपते विष्णुमूल मूलाधिवास धर्माधिवास धर्मवास धर्माध्यक्ष प्रजाध्यक्ष गदाधर श्रीधर श्रुतिधर वनमालाधर लक्ष्मीधर धरणीधर पद्भनाम (१५) विरिञ्जे आर्ष्टिषेण महासेन सेनाध्यक्ष पुरुष्टुत बहुकल्प महाकल्प कल्पनामुख अनिरुद्ध सर्वग सर्वात्मन् द्वादशात्मक सूर्यात्मक सोमात्मक कालात्मक व्योमात्मक भूतात्मक (२०) रसात्मक परमात्मन् सनातन मुञ्जकेश हरिकेश गुडाकेश केशव नील सूक्ष्म स्थूल पीत रक्त श्वेत श्वेताधिवास रक्ताम्बरप्रिय प्रीतिकर प्रीतिवास हम्स नीलवास सीरध्वज सर्वलोकाधिवास (२५) कुशेशय अधोक्षज गोविन्द जनार्दन मधुसूदन वामन नमस्ते ।
सहस्रशीर्षो ऽसि सहस्रदृगसि सहस्रपादो ऽसि त्वं कमलो ऽसि महापुरुषो ऽसि सहस्रबाहुरसि सहस्रमूर्तिरसि त्वं देवाः प्राहुः सहस्रवदनं (३०) तेनमस्त ।
ॐ नमस्ते विश्वदेवेश विश्वभूः विश्वात्मक विश्वरूप विश्वसम्भव त्वत्तो विश्वामिदमभवद् ब्राह्मणास्त्वन्मुखेभ्यो ऽभवन् क्षत्रिया दोःसम्भूताः ऊरुयुग्माद् विसो ऽभवन् शूद्राश्चरणकमलेभ्यः (३५) नाभ्या भवतो ऽन्तरिक्षमजायत इन्द्राग्नीवक्त्रतो नेत्राद् भानुरभून्मनसः शशाङ्कः अहं प्रसादजस्तव क्रोधात् त्र्यम्बकः प्राणाज्जातो भवतो मातरिश्वा शिरसो द्यौरजायत श्रोत्राद् दिशो भूरियं चरणादभूत्श्रोत्रोद्भवादिशोभवतः स्वयम्भोनक्षत्रास्तेजोद्भवाः (४०) मूर्त्तयश्चामूर्तयश्च सर्वे त्वत्तः समुद्भूताः ।
अतो विश्वात्मको ऽसि ॐ नास्ते पुष्पहासो ऽसि महाहासो ऽसि परमो ऽसि ॐ कारो ऽसि वषट्कारो ऽसि स्वराहाकारो ऽसि वौषट्कारो ऽसि स्वधाकारो ऽसि वेदमयो ऽसि तीर्थमयो ऽसि यजमानमयो ऽसि (४५) यज्ञमयो ऽसि सर्वधातासि यज्ञभोक्तासि शुक्रधातासि भूर्द भुवर्द स्वर्द स्वर्णद गोद अमृतदो ऽसीति ।
ॐ ब्रह्मादिरसि ब्रह्मयो ऽसि यज्ञो ऽसि वेदकामो ऽसि वेद्यो ऽसि यज्ञधारो ऽसि महामीनो ऽसि महासेनो ऽसि महाशिरा असि ।
(५०) नृकेसर्यसि होतासि होम्यो ऽसि हव्यो ऽसि हूयमानो ऽसि हयमेधो ऽसि पोतासि पावयितासि पूतो ऽसि पूज्यो ऽसि दातासि हन्यमानो ऽसि ह्रियमाणो ऽसि हर्त्तासीति ॐ ।
नीतिरसि नेतासि अग्र्यो ऽसि विश्वधामासि शुभाण्डो ऽसि ध्रुवो ऽसि आरणेयो ऽसि (५५) ध्यानो ऽसि ध्येयो ऽसि ज्ञेयो ऽसि ज्ञानो ऽसि ज्ञानो ऽसि यष्टासि दानो ऽसि भूमासि ईक्ष्यो ऽसि ब्रह्मासि होतासि उद्गातासि गतिमतां गतिरसि ज्ञानिनां ज्ञानमसि योगिनां योगो ऽसि मोक्षगामिनां मोक्षो ऽसि श्रीमतां श्रीरसि गृह्यो ऽसि पातासि परमसि (६०) सोमो ऽसि सूर्यो ऽसि दीक्षासि दक्षिणासि नरो ऽसि त्रिनयनो ऽसि महानयनो ऽसि आदित्यप्रभवो ऽसि सुरोत्तमो ऽसि शुचिरसि शुक्रो ऽसि नभोसि नभस्यो ऽसि इषो ऽसि ऊर्जो ऽसि सहो ऽसि सहस्यो ऽसि तपो ऽसि तपस्यो ऽसि मधुरसि (६५) माधवो ऽसि कालो ऽसि सङ्क्रमो ऽसि विक्रमो ऽसि पराक्रमो ऽसि अश्वग्रीवो ऽसि महामेधो ऽसि शङ्करो ऽसि हरिश्वोरो ऽसि शम्भुरसि ब्रह्मेशो ऽसि सूर्यो ऽसि मित्रावरुणो ऽसि प्राग्वंशकायो ऽसि भृतादिरसि महाभूतो ऽसि ऊर्ध्वकर्मासि कर्त्तासि (७०) सर्वपापविमोचनो ऽसि त्रिविक्रमो ऽसि ॐ नमस् ते
पुलस्त्य उवाच ।
इत्थं स्तुतः पद्मवेन विष्णुस्तपस्विभिश्चाद्भुतकार्मकारी ।
प्रोवाच देवं प्रपितामहं तु वरं वृणीष्वामलसत्त्ववृत्ते ॥ ६६।१२ ॥
तमब्रवीत् प्रीतियुतः पितामहो वरं ममेहाद्य विभो प्रयच्छ ।
रूपेण पुण्येन विबो ह्यनेन संस्थीयतां मद्भवने मुरारे ॥ ६६।१३ ॥
इत्थं वृते देववरेण प्रादात् प्रभुस्तथास्त्विति तमव्ययात्मा ।
तस्थौ हि रूपेण हि वामनेन सम्पूज्यमानः सदने स्वयम्भोः ॥ ६६।१४ ॥
नृत्यन्ति तत्राप्सरसां समूह्य गायन्ति गीतानि सुरेन्द्रगायनाः ।
विद्याधरास्तूर्यरांश्च वादयन् स्तुवन्ति देवासुरसिद्धसङ्घाः ॥ ६६।१५ ॥
ततः समाराध्य विभुं सुराधिपः पितामहो धौतमलः स शुद्धः ।
स्वर्गे विरिञ्चिः सदनात् सुपुष्पाण्यानीय पूजां प्रचकार विष्णोः ॥ ६६।१६ ॥
स्वर्गे सहस्रं स तु योजनानां विष्णोः प्रमाणेन हि वामनो ऽभूत् तत्रास्य शक्रः प्रचकार पूजां स्वयम्भुवस्तुल्यगुणां महर्षे ॥ ६६।१७ ॥
एतत् तवोक्तं भगवांस्त्रिविक्रमश्चकार यद् देवहितं महात्मा ।
रसातलस्थो दितिजश्चकार यत्तच्छृणुष्वाद्य वदामि विप्र ॥ ६६।१८ ॥
इति श्रीवामनपुराणे षट्षष्टितमो ऽध्यायः