पुलस्त्य उवाच ।
एतस्मिन्नन्तरे प्राप्तो भगवान् वामनाकृतिः ।
जज्ञवाटमुपागम् उच्चैर्वचनमब्रवीत् ॥ ६५।१ ॥
ओङ्कारपूर्वाः श्रुतयो मखे ऽस्मिन् तिष्ठन्ति रूपेण तपोधनानाम् ।
यज्ञो ऽश्वमेधः प्रवरः क्रतूनां मुख्यस्तथा सत्रिषु दैत्यनाथः ॥ ६५।२ ॥
इत्थं वचनमाकर्ण्य दानवाधिपतिर्वशी ।
सार्घपात्रः समभ्यागाद्यत्र देवः स्थितो ऽभवत् ॥ ६५।३ ॥
ततोर्ऽच्य। देवदेवेशमर्च्यमर्घादिनासुरः ।
भरद्वाजर्षिणा सार्धं यज्ञवाटं प्रवेशयत् ॥ ६५।४ ॥
प्रविष्टमात्रं देवेशं प्रतिपूज्य वधानतः ।
प्रोवाच भगवन् ब्रूहि किं दद्मि तव मानद ॥ ६५।५ ॥
ततो ऽब्रवीत् सुरश्रेष्ठो दैत्यराजानमव्ययः ।
विहस्य सुचिरं कालं भरद्वाजमवेक्ष्य च ॥ ६५।६ ॥
गुरोर्मदीयस्य गुरुस्तस्यास्त्यग्निपरिग्रहः ।
न स धारयते भूम्यां पारक्यां जातवेदसम् ॥ ६५।७ ॥
तदर्थमभियाच्ऽहं मम दानवपार्थिव ।
मच्छरीरप्रमाणेन देहि राजन् पदत्रयम् ॥ ६५।८ ॥
सुरारेर्वचनं श्रुत्वा बलिर्भार्यामवेक्ष्य च ।
बाणं च तनयं वीक्ष्य इदं वचनमब्रवीत् ॥ ६५।९ ॥
न केवलं प्रमाणेन वामनो ऽयं लघुः प्रिये ।
येन क्रमत्रयं मौर्ख्याद् याचते बुद्धितो ऽपि च ॥ ६५।१० ॥
प्रयो विधाताल्पधियां नराणां बहिष्कृतानां च महानुभाग्यैः ।
धनादिकं भूरि न वै ददाति यथेह विष्णोर्न बहुप्रयासः ॥ ६५।११ ॥
न ददाति विधिस्तस्य यस्य भाग्यविपर्ययः ।
मयि दातरि यश्चायमद्य याचेत् पदत्रयम् ॥ ६५।१२ ॥
इत्येवमुक्त्वा वचनं महात्मा भूयो ऽप्युवाचाथ हरिं दनूजः ।
याचस्व विष्णो गजवाजिभूमिं दासीहिरण्यं यदभीप्सितं च ॥ ६५।१३ ॥
भवान् याचयिता विष्णो अहं दाता जगत्पतिः ।
दातुर्याचयितुर्लज्जा कथं न स्यात् पदत्रये ॥ ६५।१४ ॥
रसातलं वा वृथिवीं भुवं नाकमथापि वा ।
एतभ्यः कतमं दद्यां स्थानं याचस्व वामन ॥ ६५।१५ ॥
वामन उवाच ।
गजाश्वभूहिरण्यादि तदर्थिभ्यः प्रदीयताम् ।
एतावता त्वहं चार्थी देहि राजन् पदत्रयम् ॥ ६५।१६ ॥
इत्येवमुक्ते वचने वामनेन महासुरः ।
बलिर्भृङ्गारमादाय ददौ विष्णोः क्रमत्रयम् ॥ ६५।१७ ॥
पाणौ तु पतिते तोये दिव्यं रूपं चकार ह ।
त्रैलोक्यक्रमणार्थाय बहुरूपं जगन्मयम् ॥ ६५।१८ ॥
पद्भ्यां भूमिस्तथा जङ्घे नभस्त्रैलोक्यवन्दितः ।
सत्यं तपो जानुयुग्मे ऊरुभ्यां मेरुमन्दरौ ॥ ६५।१९ ॥
विश्वेदेवा कटीभागे मरुतो वस्तिशीर्षगाः ।
लिङ्गे स्थितो मन्मथश्च वृषणाभ्यां प्रजापतिः ॥ ६५।२० ॥
कुक्षिभ्यामर्णवाः सप्त जठरे भुवनानि च ।
वलिषु त्रिषु नद्यश्च यज्ञास्तु जठरे स्थिताः ॥ ६५।२१ ॥
इष्टापूर्तादयः सर्वाः क्रियास्तत्र तु संस्थिताः ।
पृष्ठस्था वसवो देवाः स्कन्धौ रुद्रैरधिषठितौ ॥ ६५।२२ ॥
बाहवश्च दिशः सर्वा वसवो ऽष्टौ करे स्मृताः ।
हृदये संस्थितो ब्रह्मा कुलिशो हृदयास्थिषु ॥ ६५।२३ ॥
श्रीसमुद्रा उरोमध्ये चन्द्रमा मनसि स्थितः ।
ग्रीवादितिर्देवमाता विद्यास्तद्वलयस्थिताः ॥ ६५।२४ ॥
मुखे तु साग्नयो विप्राः संस्कारा दशनच्छदाः ।
धर्मकामार्थमोक्षीयाः शास्त्रः शौचसमन्विताः ॥ ६५।२५ ॥
लक्ष्म्या सह ललाटस्थाः श्रवणाभ्यामथाश्विनौ ।
श्वासस्थो मातरिश्वा च मरुतः सर्वसन्धिषु ॥ ६५।२६ ॥
सर्वसूक्तानि दशाना जिह्वा देवी सरस्वती ।
चन्द्रादित्यौ च नयने पक्ष्मस्थाः कृत्तिकादयः ॥ ६५।२७ ॥
शिखायां देवदेवस्य ध्रुवो राजा न्यषीदत ।
तारका रोमकूपेभ्यो रोमाणि च महर्षयः ॥ ६५।२८ ॥
गुणैः सर्वमयो भूत्वा भगवान् भूतभावनः ।
क्रमेणैकेन जगतीं जहार सचराचराम् ॥ ६५।२९ ॥
भूमिं विक्रममाणस्य महारूपस्य तस्य वै ।
दक्षिणो ऽभूत् स्तनश्चन्द्रः सूर्यो ऽभूदथ चोत्तरः ।
नक्षश्चाक्रमतो नाभिं सूर्येन्दू सव्यदक्षिणौ ॥ ६५।३० ॥
द्वितीयेन क्रमेणाथ स्वर्महर्जनतापसाः ।
क्रान्तार्धार्धेन वैराजं मध्येनापूर्यताम्बरम् ॥ ६५।३१ ॥
ततः प्रतापिना ब्रह्मन् बृहद्विष्ण्वङ्घ्रिणाम्बरे ।
ब्रह्माण्डोदरमाहत्य निरालोकं जगाम ह ॥ ६५।३२ ॥
विश्वाङ्घ्रिणा प्रसरता कटाहो भेदितो बलान् ।
कुटिला विष्णुपादे तु समेत्य कुटिला ततः ॥ ६५।३३ ॥
तस्या विष्णुपदीत्येवं नामाख्यातमभून्मुने ।
तथा सुरनदीत्येवं तामसेवन्त तापसाः ।
भगवानप्यसम्पूर्णे तृतीये तु क्रमे विभुः ॥ ६५।३४ ॥
समभ्येत्य बलिं प्राह ईषत् प्रस्फुरिताधरः ।
ऋमाद् भवति दैत्येन्द्र बन्धनं घोरदर्शनम् ।
त्वं पूरय पदं तन्मे नो चेद् बन्धं प्रतीच्छ भोः ॥ ६५।३५ ॥
तन्मुरारिवचः श्रुत्वा विहस्याथ बलेः सुतः ।
बाणः प्राहामरपतिं वचनं हेतुसंयुतम् ॥ ६५।३६ ॥
बाण उवाच ।
कृत्वा महीमल्पतरां जगत्पते स्वायम्भुवादिभुवनानि वै षट् ।
कथं बलिं प्रार्थयसे सुविस्तृतां यां प्राग्भवान् नो विपुलामथाकरोत् ॥ ६५।३७ ॥
विभो सही यावतीयं त्वयाद्य सृष्टचा समेता भुवनान्तरालैः ।
दत्ता च तातेन हि तावतीयं किं वाक्छलेनैष निबध्यते ऽद्य ॥ ६५।३८ ॥
या नैव शक्य भवता हि पूरितुं कथं वितन्याद् दितिजेश्वरो ऽसौ ।
शक्तस्तु सम्पूजयितुं मुरारे प्रसीद मा बन्धनमादिशस्व ॥ ६५।३९ ॥
प्रोक्तं श्रुतौ भवतापीश वाक्यं दानं पात्रे भवते सौख्यदायि ।
देशे सुपुण्ये वरदे यच्च काले तच्चाशेषं दृश्यते चक्रपाणे ॥ ६५।४० ॥
दानं भूमिः सर्वकामप्रदेयं भवान् पात्रं देवदेवो जितात्मा ।
कालो ज्येष्ठामूलयोगे मृगाङ्गः कुरुक्षेत्रं पुण्यदेशं प्रसिद्धम् ॥ ६५।४१ ॥
किं वा देवो ऽस्मद्विधैर्बुद्धिहीनैः शिक्षापनीयः साधु वासाधु चैव ।
स्वयं श्रुतीनामपि चादिकर्त्ता व्याप्य स्थितः सदसद् यो जगद् वै ॥ ६५।४२ ॥
कृत्वा प्रमाणं स्वयसेव हीनं पदत्रयं याचितवान् भुवश्च ।
किं त्वं न गृह्णासि जगत्त्रयं भो रूपेण लोकत्रयवन्दितेन ॥ ६५।४३ ॥
नात्राश्चर्यं यज्जगद् वै समग्रं क्रमत्रयं नैव पूर्णं तवाद्य ।
क्रमेण त्वं लङ्घयितुं समर्थो लीलामेतां कृतवान् लोकनाथ ॥ ६५।४४ ॥
प्रमाणहीनां स्वयमेव कृत्वा वसुन्धरां माधव पद्मनाभ ।
विष्णो न बध्नासि बलिं न दूरे प्रभुर्यदेवेच्छति तत्करोति ॥ ६५।४५ ॥
पुलस्त्य उवाच ।
इत्येवमुक्ते वचने बाणेन बलिसूनुना ।
प्रोवाच भगवान् वाक्यमादिकर्त्ता जनार्दनः ॥ ६५।४६ ॥
त्रिविक्रम उवाच ।
यान्युक्तानि वचांसीत्थं त्वया बालेय साम्प्रतम् ।
तेषां वैच हेतुसंयुक्तं शृणु प्रत्युत्तरं मम ॥ ६५।४७ ॥
पूर्वमुक्तस्तव पिता मया राजन् पदत्रयम् ।
देहि मह्यं प्रमाणेन तदेतत् समनुष्ठितम् ॥ ६५।४८ ॥
किं न वेत्ति प्रमाणं मे बलिस्तव पितासुर ।
प्रायच्छद् येन निःशङ्कं ममानन्तं क्रमत्रयम् ॥ ६५।४९ ॥
सत्यं क्रमेण चैकेन क्रमेयं भूर्भुवादिकम् ।
बलेरपि हितार्थाय कृतमेतत् क्रमत्रयम् ॥ ६५।५० ॥
तस्माद् यन्मम बालेय त्वत्पित्राम्बु करे महत् ।
दत्तं तेनायुरेतस्य कल्पं यावद् भविष्यति ॥ ६५।५१ ॥
गते मन्वन्तरे बाण श्राद्धदेवस्य साम्प्रतम् ।
सावर्णिके च सम्प्राप्ते बलिरिन्द्रो भविष्यति ॥ ६५।५२ ॥
इत्थं प्रोक्त्वा बलिसुतं बाणं देवस्त्रिविक्रमः ।
प्रोवाच बलिमभ्येत्य वचनं मधुराक्षरम् ॥ ६५।५३ ॥
श्रीभगवानुवाच ।
आपूरणाद् दक्षिणाया गच्छ राजन् महाफलम् ।
सुतलं नाम पातालं वस तत्र निरामयः ॥ ६५।५४ ॥
बलिरुवाच ।
सुतले वसतो नाथ मम भोगाः कुतो ऽव्ययाः ।
भविष्यन्ति तु येनाहं निवत्स्यामि निरामयः ॥ ६५।५५ ॥
त्रिविक्रम उवाच ।
सुतलस्थस्य दैत्येन्द्र यानि भोगानि ते ऽधुना ।
भिवष्यन्ति महार्हाणि तानि वक्ष्यामि सर्वशः ॥ ६५।५६ ॥
दानान्यविधित्तानि श्राद्धान्यश्रोत्रियाणि च ।
तथाधीतान्यव्रतिभिर्दास्यन्ति भवतः फलम् ॥ ६५।५७ ॥
तथान्यमुत्सवं पुण्यं वृत्ते शक्रमहोत्सवे ।
द्वारप्रतिपदा नाम तव भावी महोत्सवः ॥ ६५।५८ ॥
तत्र त्वां नरशार्दूला हृष्टाः पुष्टाः स्वलङ्कृताः ।
पुष्पदीपप्रदानेन अर्जयिष्यन्ति यत्नतः ॥ ६५।५९ ॥
तत्रोत्सवो सुख्यतमो भविष्यति दिवानिशं हृष्टजनाभिरामम् ।
यथैव राज्ये भवतस्तु साम्प्रतं तथैव सा भाव्यथ कौमुदी च ॥ ६५।६० ॥
इत्येवमुक्त्वा मधुहा दितीश्वरं विसर्जयित्वा सुतलं सभार्यम् ।
यज्ञं समादाय जगाम तूर्णं स शक्रसद्भामरसङ्घजुष्टम् ॥ ६५।६१ ॥
दत्त्वा मघोने च विभुस्त्रिविष्टपं कृत्वा च देवान् मखभागभोक्तॄन् ।
अन्तर्दधे विश्वपतिर्महर्षे सम्पश्यतामेव मुराधिपानाम् ॥ ६५।६२ ॥
स्वर्गं गते धातरि वासुदेवे शाल्वो ऽसुराणां महता बलेन ।
कृत्वा पुरं सौभमिति प्रसिद्धं तदान्तरिक्षे विचचार कामात् ॥ ६५।६३ ॥
मयस्तु कृत्वा त्रिपुरं महात्मा सुवर्णताम्रायसमग्र्यसौख्यम् ।
सतारकाक्षः सह वैद्युतेन सन्तिष्ठते भृत्यकलत्रवान् सः ॥ ६५।६४ ॥
बणो ऽपि देवेन हृते त्रिविष्टपे बद्धे बलौ चापि रसातलस्थे ।
कृत्वा सुगुप्तं भुवि शोणिताख्यं पुरं स चास्ते सह दानवेन्द्रैः ॥ ६५।६५ ॥
एवं पुरा चक्रधरेण विष्णुना बद्धो बलिर्वामनरूपधारिणा ।
शक्रप्रियार्थ सुरकार्यसिद्धये हिताय विप्रर्षभगोद्विजानाम् ॥ ६५।६६ ॥
प्रादुर्भवस्ते कथितो महर्षे पुण्यः शुचिर्वामनस्याघहारी ।
श्रुते यस्मिन् संस्मृते कीर्तिते च पापं याति प्रक्षयं पुण्यमेति ॥ ६५।६७ ॥
एतत् प्रोक्तं भवतः पुण्यकीर्त्तेः प्रादुर्भावो बलिबन्धो ऽव्ययस्य ।
यच्चाप्यन्यन् श्रोतुकामो ऽसि विप्र तत्प्रोच्यतां कथयिष्याम्यशेषम् ॥ ६५।६८ ॥
इति श्रीवामनपुराणे पञ्चषष्टितमो ऽध्यः