इन् रेए निच्ह्त् ज़ुल्Äस्सिगे ज़ेइच्हेन्:
-
#२
ॠ #१
Ṣ #१श्रीवामनपुराणं-६४ पुलस्त्य उवाच ।
ततः समागच्चति वासुदेवे मही चकम्पे गिरयच चेलुः ।
क्षुब्धाः समुद्रा श्रीवामनपुराणं-६४ पुलस्त्य उवाच ।
ततः समागच्चति वासुदेवे मही चकम्पे गिरयश्च चेलुः ।
क्षुब्धाः समुद्रा दिवि ऋक्षमण्डलो बभौ विपर्यस्तगतिर्महर्षे ॥ ६४।१ ॥
यज्ञः समागात् परमाकुलत्वं न वेद्मि किं मे मधुहा करिष्यति ।
यथा प्रदग्धो ऽस्मि महेश्वरेण किं मां न सन्धक्ष्ययति वासुदेवः ॥ ६४।२ ॥
ऋक्साममन्त्राहुतिभिर्हुताभिर्वितानकीयान् ज्वलनास्तु भागान् ।
भक्त्या द्विजेन्द्ररपि सम्प्रपादितान् नैव प्रतीच्चन्ति विभोर्भयेन ॥ ६४।३ ॥
तान् दृष्ट्वा घोररुपांस्तु उत्पातान् दानवेश्वरः ।
पप्रच्छोशनसं शुक्रं प्रणिपत्य कृताञ्जलिः ॥ ६४।४ ॥
किमर्थमाचार्य मही सशैला रम्भेव वाताभिहता चचाल ।
किमासुरीयान् सुहुतानपीह भागान् न गृह्णन्ति हुताशनाश्च ॥ ६४।५ ॥
क्षुब्धाः किमर्थं मकरालयाश्च भो ऋक्षा न खे किं प्रचरन्ति पूर्ववत् ।
दिशः किमर्थं तमसा परिप्लुता दोषेण कस्याद्य वदस्व मे गुरो ॥ ६४।६ ॥
पुल्स्त्य उवाच ।
शुक्रस्तद् वाक्यमाकर्ण्य विरोचनसुतेरितम् ।
अथ ज्ञात्वा कारणं च बलिं वचनमब्रवीत् ॥ ६४।७ ॥
शुक्र उवाच ।
शृणुष्व दैत्येश्वर येन भागान् नामी प्रतीच्छन्ति हि आसुरीयान् ।
हुताशना मन्त्रहुतानपीह नूनं समागच्छति वासुदेवः ॥ ६४।८ ॥
तदङ्घ्रिविक्षेपमपारयन्ती मही सशैला चलिता दितीश ।
तस्यां चलत्यां मकरालयामी उद्वृत्तवेला दितिजाद्य जाताः ॥ ६४।९ ॥
पुलस्त्य उवाच ।
शुक्रस्य वचनं श्रुत्वा बलिर्भार्गवमब्रवीत् ।
धर्मं सत्यं च पथ्यं च सर्वोत्साहसमीरितम् ॥ ६४।१० ॥
बलिरुवाच ।
आयाते वासुदेवे वद मम भगवन् धर्मकामर्थत्तत्त्वं किं कार्यं किं च देयं मणिकन्कमथो भूगजाश्वादिकं वा ।
किं वा वाच्यं मुरारेर्निजहितमथवा तद्धितं वा प्रयुढञ्जे तथ्यं पथ्यम्प्रियभोमम वदशुभदन्तत्करिष्ये न चान्यत् ॥ ६४।११ ॥
पुलस्त्य उवाच ।
तद् वाक्यं भार्गवं श्रुत्वा दैत्यनाथेरितं वरम् ।
विचिन्त्य नारद प्राह भूतभव्यविदीश्वरः ॥ ६४।१२ ॥
त्वाया कृता यज्ञभुजो ऽसुरेन्द्रा बहिष्कृता ये श्रुतिदृष्टमार्गे ।
श्रुतिप्रमाणं मखभोजिनो बहिः सुरास्तदर्थं हरिर् अभ्युपैति ॥ ६४।१३ ॥
तस्याध्वरं दैत्यसमागतस्य कार्यं हि किं मां परिपृच्छसे यत् ।
कार्यं न देयं हि विभो तृणाग्रं यदध्वरे भूकनकादिकं वा ॥ ६४।१४ ॥
वाच्यं तथा साम निरर्थकं विभो कस्ते वरं दातुमलं हि शक्नुयात् ।
यस्योदरे भूर्भुवनाकपालरसातलेशा निवसन्ति नित्यशः ॥ ६४।१५ ॥
बलिरुवाच ।
मया न चोक्तं वचनं हि भार्गव न चास्ति मह्यं न च दातुमुत्सहे ।
समागते ऽप्ययर्थिनि हीनवृत्ते जनार्दने लोकपतौ कथं तु ॥ ६४।१६ ॥
एवं च श्रुयते श्लोकः सतां कथयतां विभो ।
सद्भावो ब्राह्मणेष्वेव कर्त्तव्यो भूतिमिच्छता ।
दृश्यते हि तथा तच्च सत्यं ब्राह्मणसत्तम ॥ ६४।१७ ॥
पूर्वाभ्यासेन कर्माणि सम्भवन्ति नृणां स्फुटम् ।
वाक्कायमनसानीह योन्यन्तरगतान्यपि ॥ ६४।१८ ॥
किं वा त्वया द्विजश्रेष्ठ पौराणी न श्रुता कथा ।
या वृत्ता मलये पूर्वं कोशकारसुतस्य तु ॥ ६४।१९ ॥
शुक्र उवाच ।
कथयस्व महाबाहो कोशकारसुताश्रयाम् ।
कथां पौराणिकीं पुण्यां महाकौतूहलं हि मे ॥ ६४।२० ॥
बलिरुवाच ।
शृणुष्व कथयिष्यामि कथामेतां मखान्तरे ।
पूर्वाभ्यासनिबद्धां हि सत्यां भृगुकुलोद्वह ॥ ६४।२१ ॥
मुद्गलस्य मुनेः पुत्रो ज्ञानविज्ञानपारगः ।
कोशकार इति ख्यात आसीद् ब्रह्मंस्तपोरतः ॥ ६४।२२ ॥
तस्यासीद् दयिता साध्वी धर्मिष्ठा नामतः सुता ।
सती वात्स्यायनसुता धर्मशीला पतिव्रता ॥ ६४।२३ ॥
तस्यामस्य सुतो जातः प्रकृत्या वै जडाकृतिः ।
मूकवन्नालपति स न च पश्यति चान्धवत् ॥ ६४।२४ ॥
तं जातं ब्राह्मणी पुत्रं जडं मूकं त्वचक्षुषम् ।
मन्यमाना गृहद्वारि षष्ठे ऽहनि समुत्सृजत् ॥ ६४।२५ ॥
ततो ऽभ्यागाद् दुराचारा राक्षसी जातहारिणी ।
स्वं शिशुं कृशमादाय सूर्पाक्षी नाम नामतः ॥ ६४।२६ ॥
तत्रोत्सृज्य स्वपुत्रं सा जग्राह द्विजनन्दनम् ।
तमादाय जगामाथ भोक्तुं शालोदरे गिरौ ॥ ६४।२७ ॥
ततस्तामागतां वीक्ष्य तस्या भर्ता घटोदरः ।
नेत्रहीनः प्रत्युवाच किमानीतस्त्वया प्रिये ॥ ६४।२८ ॥
साब्रवीत् राक्षसपते मया स्थाप्य निजं शिशुम् ।
कोशकारद्विजगृहे तस्यानीतः प्रभो सुतः ॥ ६४।२९ ॥
स प्राह न त्वया भद्रे भद्रमाचरितं त्विति ।
महाज्ञानी द्विजेन्द्रो ऽसौ ततः शप्स्यति कोपितः ॥ ६४।३० ॥
तस्माच्छीघ्रमिमं त्यक्त्वा मनुजं घोररुपिणम् ।
अन्यस्य कस्यचित् पुत्रं शीघ्रमानय सुन्दरि ॥ ६४।३१ ॥
इत्येवमुक्ता सा रौद्रा राक्षसी कामचारिणी ।
समाजगाम त्वरिता समुत्पत्य विहायसम् ॥ ६४।३२ ॥
स चापि राक्षससुतो निसृष्टो गृहबाह्यतः ।
रुरोद सुस्वरं ब्रह्मन् प्रक्षिप्याङ्गुष्ठमानने ॥ ६४।३३ ॥
सा क्रन्दितं चिराच्छ्रुत्वा धर्मिष्ठा पतिमब्रवीत् ।
पश्य स्वयं मुनिश्रेष्ठ सशब्दस्तनयस्तव ॥ ६४।३४ ॥
त्रस्ता सा निर्जगामाथ गृहमध्यात् तपस्विनी ।
स चापि ब्राह्मणश्रेष्ठः समपश्यत तं शिशुम् ॥ ६४।३५ ॥
वर्णरूपादिसंयुक्तं यथा स्वतनयं तथा ।
ततो विहस्य प्रोवाच कोशकारो निजां प्रियाम् ॥ ६४।३६ ॥
एतेनाविश्य धर्मिष्ठे भाव्यं भूतेन साम्प्रतम् ।
को ऽप्यटस्माकं छलयितुं सुरूपी भुवि संस्थितः ॥ ६४।३७ ॥
इत्युक्त्वा वचनं मन्त्री मन्त्रैस्तं राक्षसात्मजम् ।
बबन्धोल्लिख्य वसुधां सकुशेनाथ पाणिना ॥ ६४।३८ ॥
एतस्मिन्नन्तरे प्राप्ता सूर्पाक्षी विप्रबालकम् ।
अन्तर्धानगता भूमौ चिक्षेप गृहदूरतः ॥ ६४।३९ ॥
तं क्षिप्तमात्रं जग्राह कोशकारः स्वकं सुतम् ।
सा चाभ्येत्य ग्रहीतुं स्वं नाशकद् राक्षसी सुतम् ॥ ६४।४० ॥
इतश्चेतश्च विभ्रष्टा सा भर्तारमुपागमत् ।
कथयामासा यद् वृत्तं स्वद्विजात्मजहीरिणम् ॥ ६४।४१ ॥
एवं गतायं राक्षस्यां ब्राह्मणेन महात्मना ।
स राभसशिशुर्ब्रह्मन् भार्यायै विनिवेदितः ॥ ६४।४२ ॥
स चात्मतनयः पित्रा कपिलायाः सवत्सयाः ।
दध्ना संयोजितो ऽत्यर्थं क्षीरेणेक्षुरसेन च ॥ ६४।४३ ॥
द्वावेव वर्धितौ बालौ सञ्जातौ सप्तवार्षिकौ ।
पित्रा च कृतनामानौ निशाकरदिवाकरौ ॥ ६४।४४ ॥
नैशाचरिर्दिवाकीर्तिर्निशाकीर्तिः स्वपुत्रकः ।
तयोश्चकार विप्रो ऽसौ व्रतबन्धक्रियां क्रमात् ॥ ६४।४५ ॥
व्रतबन्धे कृते वेदं पपाठासौ दिवाकरः ।
निशाकरो जडतया न पपाठेति नः श्रुतम् ॥ ६४।४६ ॥
तं बान्धवाश्च पितरौ माता भ्राता गुरुस्तथा ।
पर्यनिन्दंस्तथा ये च जना मलयवासिनः ॥ ६४।४७ ॥
ततः स पित्रा क्रुद्धेन क्षिप्तः कूपे निरूदके ।
महाशिलां चोपरि वै पिधानमवरोपयत् ॥ ६४।४८ ॥
एवं क्षिप्तस्तदा कूपे समतीतेषु भार्गव ।
तस्य मातागमत् कूपं तमन्धं शिलयाचितम् ॥ ६४।४९ ॥
ततो दशसु वर्षेषु समतीतेषु भार्गव ।
तस्य मातागमत् कूपं तमन्धं शिलयाचितम् ॥ ६४।५० ॥
सा दृष्टावा निचितं कूपं शिलया गिरिकल्पया ।
उच्चैः प्रोवाच केनेयं कूपोपरि शिला कृता ॥ ६४।५१ ॥
कूपान्तस्थः स तां वाणीं श्रुत्वा मातुर्निशाकरः ।
प्राह प्रदत्ता पित्रा मे कूपोपरि शिला त्वियम् ॥ ६४।५२ ॥
सातिभीताब्रवीत् को ऽसि कूपान्तस्थो ऽद्भुतस्वरः ।
सो ऽप्याह तव पुत्रो ऽस्मि निशाकरेति विश्रुतः ॥ ६४।५३ ॥
साब्रवीत् तनयो मह्यं नाम्ना ख्यातो दिवाकरः ।
निशाकरेति नाम्नाहो न कश्चित् तनयो ऽस्ति मे ॥ ६४।५४ ॥
स चाह पूर्वचरितं मातुर्निरवशेषतः ।
सा श्रुत्वा तां शिलांसुभ्रः समुत्क्षिप्यान्तयो ऽश्रिपत् ॥ ६४।५५ ॥
सोत्तीर्य कूपात् भगवन् मातुः पादाववन्दत ।
सा स्वानुरूपं तनयं दृष्ट्वा स्वसुतस्य च ॥ ६४।५६ ॥
ततस्तमादाय सुतं धर्मिष्ठा पतिमेत्य च ।
कथयामास तत्सर्वं चेष्टितं स्वसुतस्य च ॥ ६४।५७ ॥
ततो।न्वपृच्छद् विप्रो ऽसौ किमिदं तात कारणम् ।
नोक्तवान् यद्भवान् पूर्वं महत्कौतूहलं मम ॥ ६४।५८ ॥
तच्छ्रुत्वा वचनं धीमान् कोशकारं द्विजोत्तमम् ।
प्राह पुत्रो ऽद्भुतं वाक्यं मातरं पितरं तथा ॥ ६४।५९ ॥
श्रूयतां कारणं तात येन मूकत्वमाश्रितम् ।
मया जडत्वमनघ तथान्धत्वं स्वचक्षुषः ॥ ६४।६० ॥
पूर्वमासमहं विप्र कुले वृन्दारकस्य तु ।
वृषाकपेश्च तनयो मालागर्भसमुद्भवः ॥ ६४।६१ ॥
ततः पिता पाठयन्मां शास्त्रं धर्मार्थकामदम् ।
मोक्षशास्त्रं परं तात सेतिहासश्रुतिं तथा ॥ ६४।६२ ॥
सो ऽहं तात महाज्ञानी परावरविशारदः ।
जातो मदान्धस्तेनाहं दुष्कर्माभिरतो ऽभवम् ॥ ६४।६३ ॥
मदात् समभवल्लेभस्तेन नष्टा प्रगल्भता ।
विवेको नाशमगमत् मूर्खभावमुपागतः ॥ ६४।६४ ॥
मूढ भावतया चाथ जातः पापरतो ऽस्म्भहम् ।
परदारपरार्थेषु मतिर्मे च सदाभवत् ॥ ६४।६५ ॥
परदाराभिमर्शित्वात् परार्थहरणादपि ।
मृतो ऽस्म्युद्ब्न्धनेनाहं नरकं रौरवं गतः ॥ ६४।६६ ॥
तस्माद् वर्षसहस्रान्ते भुक्तशिष्टे तदागसि ।
अरण्ये मृगहा पापः सञ्जातो ऽहं मृगाधिपः ॥ ६४।६७ ॥
व्याघ्रत्वे संस्थितस्तात बद्धः पञ्जरगः कृतः ।
नराधिपेन विभुना नीतश्च नगरं निजम् ॥ ६४।६८ ॥
बद्धस्य पिञ्जरस्थस्य व्याघ्रत्वे ऽधिष्ठितस्य ह ।
धर्मार्थकामशास्त्राणि प्रत्यभासन्त सर्वशः ॥ ६४।६९ ॥
ततो नृपतिशार्दूलो गदापाणिः कदाचन ।
एकवस्त्रपरीधानो नगरान्निर्ययौ बहिः ॥ ६४।७० ॥
तस्य भार्या जिता नाम रूपेणाप्रतिमा भुवि ।
सा निर्गते तु रमणे ममान्तिकमुपागता ॥ ६४।७१ ॥
तां दृष्ट्वा ववृधे मह्यं पूर्वाभ्यासान्मनोभवः ।
यथैव धर्मशास्त्राणि तथाहमवदं च ताम् ॥ ६४।७२ ॥
राजपुत्रि सुकल्याणि नवयौवनशालिनि ।
चित्तं हरसि मे भीरु कोकिला ध्वनिना यथा ॥ ६४।७३ ॥
सा मद्वचनमाकर्ण्य प्रोवाच तनुमध्यमा ।
कथमेवावयोर्व्याघ्र रतियोगमुपेष्यति ॥ ६४।७४ ॥
ततो ऽहमब्रुवं तात राजपुत्रीं सुमध्यमाम् ।
द्वारमुद्घाटयस्वाद्य निर्गमिष्यामि सत्वरम् ॥ ६४।७५ ॥
साप्ययब्रवीद् दिवा व्याघ्र लोको ऽयं परिपश्यति ।
रात्रावुद्घाटयिष्याम ततो रंस्याव स्वेच्छया ॥ ६४।७६ ॥
तामेवाहमवोचं वै कालक्षेपे ऽहमक्षमः ।
तस्मादुद्घाटय द्वारं मां बन्धाच्च विमोचय ॥ ६४।७७ ॥
ततः सा पीवरश्रेणी द्वारमुद्घाटयन्मुने ।
उद्घाटिते ततो द्वारे निर्गतो ऽहं बहिः श्रणात् ॥ ६४।७८ ॥
पाशानि निगडादीनि छिन्नानि हि बलान्मया ।
सा गृहीता च नृपतेर्भार्या रमितुमिच्छता ॥ ६४।७९ ॥
ततो दृष्टो ऽस्मि नृपतेर्भृत्यैरतुलविक्रमैः ।
शस्त्रहस्तैः सर्वतश्च तैरहं परिवेष्टितः ॥ ६४।८० ॥
महापाशैः शृङ्खलाभिः समाहत्य च मुद्गरैः ।
वध्यमानो ऽब्रुवमहं मा मा हिंसध्वमाकुलाः ॥ ६४।८१ ॥
ते मद्वचनमाकर्ण्य मत्वैव रजनीचरम् ।
दृढं वृक्षे समुद्ब्ध्य घातयन्त तपोधन ॥ ६४।८२ ॥
भयो गतश्च नरकं परदारनिषेवणात् ।
मुक्तो वर्षसहस्रान्ते जातो ऽहं श्वेतगर्दभः ॥ ६४।८३ ॥
ब्राह्मणस्याग्निवेश्यस्य गेहे बहुकलत्रिणः ।
तत्रापि सर्वविज्ञानं प्रत्यभासत् ततो मम ॥ ६४।८४ ॥
उपवनाह्यः कृतश्चास्मि द्विजयोषिद्भिरादरात् ।
एकदा नवराष्ट्रीया भार्या तस्याग्रजन्मनः ॥ ६४।८५ ॥
विमतिर्नामतः ख्याता गन्तुमैच्छद् गृहं पितुः ।
तामुवाच पतिर्गच्छ आरुह्यं श्वेतगर्दभम् ॥ ६४।८६ ॥
मासेनागमनं कार्यं न स्थेयं परतस्ततः ।
इत्येवमुक्ता सा भर्त्रा तन्वी मामधिरुह्य च ॥ ६४।८७ ॥
बन्धनादवमुच्याथ जगाम त्वरिता मुने ।
ततोर्ऽधपथि सा तन्वी मत्पृष्ठादवरुह्य वै ॥ ६४।८८ ॥
अवतीर्णा नदीं स्नातुं स्वरूपा चार्द्रवाससा ।
साङ्गोपाङ्गां रूपवतीं दृष्ट्वा तामहमाद्रवम् ॥ ६४।८९ ॥
मया चाभिद्रुता तूर्णं पतिता पृथिवीतले ।
तस्यामुपरि भो तात पतितो ऽहं भृशातुरः ॥ ६४।९० ॥
हृष्टो भर्त्रानुसृष्टेन नृणा तदनुसारिणा ।
प्रोत्क्षिप्य यष्टिं मां ब्रह्मन् समाधावत् त्वरान्वितः ॥ ६४।९१ ॥
तद् भयात् तां परित्यज्य प्रद्रुतो दक्षिणामुखः ।
ततो ऽभिद्रवतस्तूर्ण खलीनरसना मुने ॥ ६४।९२ ॥
ममासक्ता वंशगुल्मे दुर्मोक्षे प्राणनाशने ।
तत्रासक्तस्य षड्रात्रान्ममाभूज्जीवितक्षयः ॥ ६४।९३ ॥
गतो ऽस्मि नरकं भूयस्तस्मान्मुक्तो ऽभवं शुकः ।
महारण्ये तथा बद्धः शबरेण दुरात्मना ॥ ६४।९४ ॥
पञ्जरे क्षिप्य विक्रीतो वणिक्पुत्राय शालिने ।
तेनाप्यन्तः पुरवरे युवतीनां समीपतः ॥ ६४।९५ ॥
शब्दशास्त्रविदित्येव दोषघ्नश्चेत्यवस्थितः ।
तत्रासतस्तरुण्यस्ता ओदनाम्बुफलादिभिः ॥ ६४।९६ ॥
भक्ष्यैश्च दाडिमफलैः पुष्णन्त्यहरहः पितः ।
कदाचित् पद्मपत्राक्षी श्यामा पीनपयोधरा ॥ ६४।९७ ॥
सुश्रोणी तनुमध्या च वणिक्पुत्रप्रिया शुभा ।
नाम्ना चन्द्रावली नाम समुद्घाट्याथ पञ्जरम् ॥ ६४।९८ ॥
मां जग्राह सुचार्वङ्गी कराभ्यां चारुहासिनी ।
चकारोपरि पीनाभ्यां कराभ्यां चारुहासिनी ।
चकारोपरि पीनाभ्यां स्तनाभ्यां सा हि मां ततः ॥ ६४।९९ ॥
ततो ऽहं कृतवान् भावं तस्यां विलसितुं प्लवन् ।
ततो ऽनुप्लपतस्तत्र हारे मर्कटबन्धनम् ॥ ६४।१०० ॥
बद्धो ऽहं पापसंयुक्तो मृश्च तदनन्तरम् ।
भूयो ऽपि नरकं घोरं प्रपन्नो ऽस्मि सुदुर्मतिः ॥ ६४।१०१ ॥
तस्माच्चाहं वृषत्वं वै गतश्चाण्डालपक्वणे ।
स चैकदा मां शकटे नियोज्य स्वां विलासिनीम् ॥ ६४।१०२ ॥
समारोप्य महातेजा गन्तुं कृतमतिर्वनम् ।
ततो ऽग्रतः स चण्डालो गतस्त्वेवास्य पृष्ठतः ॥ ६४।१०३ ॥
गायन्ती याति तच्छ्रुत्वा जातो ऽहं व्यथितेन्द्रियः ।
पृष्ठस्तु समालोक्य विपर्यस्तस्तथोत्प्लुतः ॥ ६४।१०४ ॥
पतितो भूमिमगमम् तदक्षे क्षणविक्रमात् ।
योक्त्रे सुबद्ध एवास्मि पञ्चत्वमगमं ततः ॥ ६४।१०५ ॥
भूयो निमग्नो नरके दशवर्षशतान्यपि ।
अतस्तव गृहे जातस्त्वहं जातिमनुस्मरन् ॥ ६४।१०६ ॥
तावन्त्येवाद्य जन्मानि स्मरामि चानुपूर्वशः ।
पूर्वाभ्यासाच्च शास्त्राणि बन्धनं चागतं मम ॥ ६४।१०७ ॥
तदहं जातविज्ञानो नाचरिष्ये कथञ्चन ।
पापानि घोररूपाणि मनसा कर्मणा गिरा ॥ ६४।१०८ ॥
शुभं वाप्यशुभं वापि स्वाध्यायं शास्त्रजीविका ।
बन्धनं वा वधो वापि पूर्वाभ्यासेन जायते ॥ ६४।१०९ ॥
जातिं यदा पौर्विकीं तु स्मरते तात मानवः ।
तदा स तेभ्यः पापेभ्यो शुभवर्धनाय पापक्षयायाथ मुने ह्यरण्यम् ।
भवान् दिवाकीर्तिमिमं सुपुत्रं गार्हस्थ्यधर्मे विनियोजयस्व ॥ ६४।११० ॥
तस्माद् गमिष्ये शुभवर्धनाय पापक्षयायाथ मुने ह्यरण्यम् ।
भवान् दिवाकीर्तिमिमं सुपुत्रं गार्हस्थ्यधर्मे विनियोजयस्व ॥ ६४।१११ ॥
बलिरुवाच ।
इत्येवमुक्त्वा स निशाकरस्तदा प्रणम्य मातापितरौ महर्षे ।
जगाम पुण्यं सदनं मुरारेः ख्यातं बदर्याश्रममाद्यमीड्यम् ॥ ६४।११२ ॥
एवं पुराभ्यासरतस्य पुंसो भवन्ति दानाध्ययनादिकानि ।
तस्माच्च पूर्वं द्विजवर्य वै मया अभ्यस्तमासीन्ननु ते ब्रवीमि ॥ ६४।११३ ॥
दानं तपो वाध्ययनं महर्षे स्तेयं महापातकमग्निदाहम् ।
ज्ञानानि चैवाब्यसन्तां हि पूर्वं भवन्ति धर्मार्थशांसि नाथ ॥ ६४।११४ ॥
पुलस्त्य उवाच ।
इत्येवमुक्त्वा बलवान् स शुक्रं दैत्येश्वरः स्वः गुरुमीशितारम् ।
ध्यायंस्तदास्ते मधुकैटभघ्नं नारायणं चक्रगदासिपाणिम् ॥ ६४।११५ ॥
इति श्रीवामनपुराणे चतुःषष्टितमो ऽध्यायः