पुलस्त्य उवाच ।
गते ऽथ तीर्थयात्रायां प्रह्लादे दानवेश्वरे ।
कुरुक्षेत्रं समभ्यागाद् यष्टुं वैरोचनो वलिः ॥ ६२।१ ॥
तस्मिन् महाधर्मयुते तीर्थे ब्राह्मणपुङ्गवः ।
शुक्रो द्विजातिप्रवरानामन्त्रयत् भार्गवान् ॥ ६२।२ ॥
भृगूनामन्त्र्यमाणान् वै श्रुत्वात्रेयाः सगौतमाः ।
कौशिकाङ्गिरसश्चैव तत्यजुः कुरुजाङ्गलान् ॥ ६२।३ ॥
उत्तराशां प्रजग्मुस्ते नदीमनु शतद्रुकाम् ।
शातद्रवे जले स्नात्वा विपाशां प्रययुस्ततः ॥ ६२।४ ॥
विज्ञाय तत्राप्यरतिं स्नात्वार्ऽच्य पितृदेवताः ।
प्रजग्मुः किरणां पुण्यां दिनेशकिरणच्युताम् ॥ ६२।५ ॥
तस्यां स्नात्वार्ऽच्य देवेर्षे सर्व एव महर्षयः ।
ऐरावतीं सुपुण्योदां स्नात्वा जग्मुरथेश्वरीम् ॥ ६२।६ ॥
देविकाया जले स्नात्वा पयोष्ण्यां चैव तापसाः ।
अवतीर्णा मुने स्नातुमात्रेयाद्याः शुभां नदीम् ॥ ६२।७ ॥
ततो निमग्ना ददृशुः प्रतिबिम्बमथात्मनः ।
अन्तर्जले द्विजश्रेष्ठ महदाश्चर्यकारकम् ॥ ६२।८ ॥
उन्मज्जने च ददृशुः पुनर्विस्मितमानसाः ।
ततः स्नात्वा समुत्तीर्णा ऋषयः सर्व एव हि ॥ ६२।९ ॥
जगमुस्ततो ऽपि ते ब्रह्मन् कथयन्तः परस्परम् ।
चिन्तयन्तश्च सततं किमेतदिति विस्मिताः ॥ ६२।१० ॥
ततो दूरादपश्यन्त वनषण्डं सुविस्तृतम् ।
वनं हरगलश्यामं खगध्वनिनिनादितम् ॥ ६२।११ ॥
अतितुङ्गतया वयोम आवृण्वानं नगोत्तमम् ।
विस्तृताभिर्जटाभिस्तु अन्तर्भूमिञ्च नारद ॥ ६२।१२ ॥
काननं पुष्पितैर्वृक्षैरतिभाति समन्ततः ।
दशार्द्धवर्णैः सुखदैर्नभस्तारागणैरिव ॥ ६२।१३ ॥
तं दृष्ट्वा कमलैर्व्याप्तं पुण्डरीकैश्च शोभितम् ।
तद्वत् कोकनदैर्व्याप्तं वनं पद्मवनं यथा ॥ ६२।१४ ॥
प्रजग्मुस्तुष्टिमतुलां ते ह्लादं परमं ययः ।
विविशुः प्रीतमनसो हंसा इव महासरः ॥ ६२।१५ ॥
तन्मध्ये ददृशुः पुण्यमाश्रमं लोकपूजितम् ।
चतुर्णां लोकपालानां वर्गाणां मुनिसत्तम । ।
६२।१६ धर्माश्रमं प्राङ्मुखं तु पलाशविटपावृतम् ।
प्रतीच्यभिमुखं ब्रह्मन् अर्थस्येक्षुवनावृतम् ॥ ६२।१७ ॥
दक्षिणाभिमुखं काम्यं रम्भाशोकवनावृतम् ।
उदङ्मुखं च मोक्षस्य शुद्धस्फटिकवर्चसम् ॥ ६२।१८ ॥
कृतान्ते त्वाश्रमी मोक्षः कामस्त्रेतान्तरे श्रमी ।
आश्रम्यर्थो द्वापरान्ते तिष्यादौ धर्म आश्रमी ॥ ६२।१९ ॥
तान्याश्रमाणि मुनयो दृष्ट्वात्रेयादयो ऽव्ययाः ।
तत्रैव च रतिं चक्रुरखण्डे सलिलाप्लुते ॥ ६२।२० ॥
धर्माद्यैर्भगवान् विष्णुरखण्ड विश्रुतः ।
चतुर्मुर्तिर्जगन्नाथः पुर्वमेव प्रतिष्ठितः ॥ ६२।२१ ॥
तमर्चयन्ति ऋषयो योगात्मानो बहुश्रुताः ।
शुश्रूषयाथ तपसा ब्रह्मचर्येण नारद ॥ ६२।२२ ॥
एवं ते न्यवसंस्तत्र समेता मुनयो वने ।
असुरेभ्यस्तदा भीताः स्वाश्रित्याखण्डपर्वतम् ॥ ६२।२३ ॥
तथान्ये ब्राह्मणा ब्रह्मन् अश्मकुट्टा मरीचिपाः ।
स्नात्वा जले हि कालिन्द्याः प्रजग्मुर्दक्षिणामुखाः ॥ ६२।२४ ॥
अवन्तिविषयं प्राप्य विष्णुमासाद्य संस्थिताः ।
विष्णोरपि प्रसादेन दुष्प्रवेशं महासुरैः ॥ ६२।२५ ॥
बालखिल्यादयो जग्मुरवशा दानवाद् भयात् ।
रुद्रकोटिं समाश्रित्य स्थितास्ते ब्रह्मचारिणः ॥ ६२।२६ ॥
एवं गतेषु विप्रेषु गौतमाङ्गिरसादिषु ।
शुक्रस्तु भार्गवान् सर्वान् निन्ये यज्ञविधौ मुने ॥ ६२।२७ ॥
अधिष्ठिते भार्गवैस्तु महायज्ञे ऽमितद्युते ।
यज्ञदीक्षां बलेः शुक्रश्चाकार विधिना स्वयम् ॥ ६२।२८ ॥
श्वेताम्बरधरो दैत्यः श्वेतमाल्यानुलेपनः ।
मृगाजिनावृतः पृष्ठे बर्हिपत्रविचित्रितः ॥ ६२।२९ ॥
समास्ते वितते यज्ञे सदस्यैरभिसंवृतः ।
हयग्रीवप्रलम्बाद्यैर्मयबाणपुरोगमैः ॥ ६२।३० ॥
पत्नी विन्ध्यावली चास्य दीक्षिता यज्ञकर्मणि ।
ललनानां सहस्रस्य प्रधाना ऋषिकन्यका ॥ ६२।३१ ॥
शुक्रेणाश्वः श्वेतवर्णो मधुमासे सुलक्णः ।
महीं विहर्तुमुत्सृष्टस्तारकाक्षो ऽन्वगाच्च तम् ॥ ६२।३२ ॥
एवमश्वे समुत्सृष्टे वितते यज्ञकर्मणि ।
गते च मासत्रितये हूयमाने च पावके ॥ ६२।३३ ॥
पूज्यमानेषु दैत्येषु मिषुनस्थे दिवाकरे ।
सुषुवे देवजननी माधवं वामनाकृतिम् ॥ ६२।३४ ॥
तं जातमात्रं भगवन्तमीशं नारायणं लोकपतिं पुराणम् ।
ब्रह्मा समभ्येत्य समं महर्षिभिः स्तोत्रं जगादाथ विभोर्महर्षे ॥ ६२।३५ ॥
नमो ऽस्तु ते माधव सत्त्वमूर्त्ते नमो ऽस्तु ते शाश्वत विश्वरूप ।
नमो ऽस्तु ते शत्रुवनेन्धनाग्ने नमो ऽस्तु वै पापमहादवाग्ने ॥ ६२।३६ ॥
नमस्ते पुण्डरीकाक्ष नमस्ते विश्वभावन ।
नमस्ते जगादाधार नमस्ते पुरुषोत्तम ॥ ६२।३७ ॥
नारायण जगन्मूर्ते जगन्नाथ गदाधर ।
पीतवासः श्रियःकान्त जनार्दन नमो ऽस्तु ते ॥ ६२।३८ ॥
भवांस्त्राता च गोप्ता च विश्वात्मा सर्वगो ऽव्ययः ।
सर्वधारी धराधारी रूपधारी नमो ऽस्तु ते ॥ ६२।३९ ॥
वर्धस्व वर्धिताशेषत्रैलोक्य सुरपूजित ।
कुरुष्व दैवतपते मघोनो ऽश्रुप्रमार्जनम् ॥ ६२।४० ॥
त्वं धाता च विधाता च संहर्ता त्वं महेश्वरः ।
महालय महायोगिन् योगशायिन् नमो ऽस्तु ते । ।
६२।४१ इत्थं स्तुतो जगन्नाथं सर्वात्मा सर्वगो हरिः ।
प्रोवाच भगवान् मह्यं कुरूपनयनं विभो ॥ ६२।४२ ॥
ततश्चकार देवस्य जातकर्मादिकाः क्रियाः ।
भरद्वाजो महातेजा बार्हस्पत्यस्तपोधनः ॥ ६२।४३ ॥
व्रतबन्धं तथेशस्त कृतवान् सर्वसास्त्रवित् ।
ततो ददुः प्रीतियुताः सर्व एव वरान् क्रमात् ॥ ६२।४४ ॥
यज्ञोपवीतं पुलहस्त्वहं च सितवाससी ।
मृगाजिनं कुम्भयोनिर्भरद्वाजस्तु मेखलाम् ॥ ६२।४५ ॥
पालाशमददद् दण्डं मरीचिर्ब्रह्मणाः सुतः ।
अक्षसूत्रं वारुणिस्तु कौश्यं वेदमथाङ्गिराः ॥ ६२।४६ ॥
छत्रं प्रादाद् रघू राजा उपानद्युगलं नृगः ।
कम्ण्डलुं बृहत्तेजाः प्रादाद्विष्णोर्बृहस्पतिः ॥ ६२।४७ ॥
एवं कृतोपनयनो भगवान् भूतभावनः ।
संस्तूयमानो ऋषिभिः साङ्गं वेदमधीयत ॥ ६२।४८ ॥
भरद्वाजादाङ्गिरसात् सामवेदं महाध्वनिम् ।
महदाख्यानसंयुक्तं गन्धर्वसहितं मुने ॥ ६२।४९ ॥
मासेनैकेन बगवान् ज्ञानश्रुतिमहार्णवः ।
लोकचारप्रवृत्त्यर्थमभूच्छ्रुतिविशारदः ॥ ६२।५० ॥
सर्वशास्त्रेषु नैपुण्यं गत्वा देवो ऽक्षयो ऽव्ययः ।
प्रोवाच ब्राह्मणश्रेष्ठं भरद्वाजमिदं वचः ॥ ६२।५१ ॥
श्रीवामन उवाच ।
ब्रह्मन् व्रजामि देह्याज्ञां कुरुक्षेत्रं महोदयम् ।
तत्र दैत्यपतेः पुण्यो हयमेधः प्रवर्तते ॥ ६२।५२ ॥
समाविष्टानि पश्यस्व तेजांसि पृथिवीतले ।
ये सन्निधानाः सततं मदंशाः पुण्यवर्धनाः ।
तेनाहं प्रतिजानामि कुरुक्षेत्रं गतो बलिः ॥ ६२।५३ ॥
भरद्वाज उवाच ।
स्वेच्छया तिष्ठ वा गच्छ नाहमाज्ञापयामि ते ।
गमिष्यामो वयं विष्णो बलेरध्वरं मा खिद ॥ ६२।५४ ॥
यद् भवन्तमहं देव परिपृच्छामि तद् वद ।
केषु केषु विभो नित्यं स्थानेषु पुरुषोत्तम ।
सान्निध्यं भवतो ब्रूहि ज्ञातुमिच्छामि तत्त्वतः ॥ ६२।५५ ॥
वामन उवाच ।
श्रूयतां कथयिष्यामि येषु येषु गुरो अहम् ।
निवासामि सुपुण्येषु स्थानेषु बहुरूपवान् ॥ ६२।५६ ॥
ममावतारैर्वसुधा नभस्तलं पातालमम्भोनिधयो दिवञ्च ।
दिशः समस्ता गिरयो ऽम्बुदाश्च व्याप्ता भरद्वाज ममानुरूपैः ॥ ६२।५७ ॥
ये दिव्या ये च भौमा जलगगनचराः स्थावरा जङ्गमाश्च सेन्द्राः सार्काः सचन्द्रा यमवसुवरुणा ह्यग्नयः सर्वपालाः ।
ब्रह्माद्याः स्थावरान्ता द्विजखगमहिता मूर्तिमन्तो ह्यमूर्ताः ते सर्वे मत्प्रसूता बहु विविधगुणाः पूरणार्थं पृथिव्याः ॥ ६२।५८ ॥
एते हि मुख्याः सुरसिद्धदानवैः पुज्यास्तथा सन्निहिता महीतले ।
यैर्दृष्टमात्रैः सहसैव नाशं प्रयाति पापं द्विजवर्य कीर्तनैः ॥ ६२।५९ ॥
इति श्रीवामनपुराणे द्विषष्टितमो ऽध्यायः