६१

पुलस्त्य उवाच ।
द्वितीयं पापशमनं स्तवं वक्ष्यामि ते मुने ।
येन सम्यगधीतेन पापं नाशं तु गच्चति ॥ ६१।१ ॥
मत्स्यं नमस्ये देवेशं कूर्मं गोविन्दमेव च ।
हयशीर्षं नमस्ते ऽहं भवं विष्णुं त्रिविक्रमम् ॥ ६१।२ ॥
नमस्ये माधवेशानौ हृषीकशकुमारिणौ ।
नारायणं नमस्ये ऽहं नमस्ये गरुडासनम् ॥ ६१।३ ॥
ऊर्ध्वकेशं नृसिहं च रुपधारं कुरुध्वजम् ।
कामपालमखण्डं च नमस्ये ब्राह्मणप्रियम् ॥ ६१।४ ॥
अजितं विश्वकर्माणं पुण्डरीकं द्विजप्रियम् ।
हंसं शम्भुं नमस्ये च ब्रह्माणं सप्रजापतिम् ॥ ६१।५ ॥
नमस्ये शूलबाहुं च देवं चक्रधरं तथा ।
शिवं विष्णुं सुवर्णाक्षं गोपतिं पीतवाससम् ॥ ६१।६ ॥
नमस्ये च गदापाणिं नमस्ये च कुशोशयम् ।
अर्धनारीश्वरं देवं नमस्ये पापनाशनम् ॥ ६१।७ ॥
गोपालं च सैवकुण्ठं नमस्ये चापराजितम् ।
नमस्ये विश्वरूपं च सौगन्धिं सर्वदाशिवम् ॥ ६१।८ ॥
पाञ्चालिकं हयग्रीवं स्वयम्भुवममरेश्वरम् ।
नमस्ये पुष्कराक्षं च पयोगन्धिं च केशवम् ॥ ६१।९ ॥
अविमुक्तं च लोलं च ज्येष्ठेयं मध्यमं तथा ।
उपशान्तं तमस्ये ऽहं मार्कण्डेयं सजम्बुकम् ॥ ६१।१० ॥
नमस्ये पद्मकिरणं नमस्ये वडवामुखम् ।
कार्त्तिकेयं नमस्ये ऽहं बाह्लीकं शिखिनं तथा ॥ ६१।११ ॥
नमस्ये स्थाणुमनघं नमस्ये वनमालिनम् ।
नमस्ये लाङ्गलीशं च नमस्ये ऽहं श्रियः पतिम् ॥ ६१।१२ ॥
नमस्ये च त्रिनयनं नमस्ये हव्यवाहनम् ।
नमस्ये च त्रिसौवर्णं नमस्ये शशिभूषणम् ॥ ६१।१३ ॥
त्रिणाचिकेतं ब्रह्मेशं नमस्ये शशिभूषणम् ।
कपर्दिनं नमस्ये च सर्वामयविनाशनम् ॥ ६१।१४ ॥
नमस्ये शशिनं सूर्यं ध्रुवं रौद्रं महौजसम् ।
पद्मनाभं हिरण्याक्षं नमस्ये स्कन्दमव्ययम् ॥ ६१।१५ ॥
नमस्ये भीमहंसौ च नमस्ये हाटकेश्वरम् ।
सदा हंसं नमस्ये च नमस्ये प्रामतर्पणम् ॥ ६१।१६ ॥
नमस्ये रुक्मकवचं महायोगिनमीश्वरम् ।
नमस्ये श्रीनिवासं च नमस्ये पुरुषोत्तमम् ॥ ६१।१७ ॥
नमस्ये च चतुर्बाहुं नमस्ये वसुधाधिपम् ।
वनस्पतिं पशुपतिं नमस्ये प्रभुमव्ययाम् ॥ ६१।१८ ॥
श्रीकण्ठं वासुदेवं नीलकण्ठं सदण्डिनम् ।
नमस्ये सर्वमनघं गौरीशं नकुलीस्वरम् ॥ ६१।१९ ॥
मनोहरं कृष्णकेशं नमस्ये चक्रपाणिनम् ।
यशोधरं महाबाहुं नमस्ये च कुशप्रियम् ॥ ६१।२० ॥
भूधरं छादितगदं सुनेत्रं शूलशङ्खिनम् ।
भद्राक्षं वीरभद्रं च नमस्ये शङ्कुकर्णिकम् ॥ ६१।२१ ॥
वषध्वजं महेशं च विश्वामित्रं शशिप्रभम् ।
उपेन्द्र चैव गोविन्दं नमस्ते पङ्कजप्रियम् ॥ ६१।२२ ॥
सहस्रशिर्सं देवं नमस्ये कुन्दमालिनम् ।
कालाग्निं रुद्रदेवेशं नमस्ये कृत्तिवाससम् ॥ ६१।२३ ॥
नमस्ये छागलेशं च नमस्ये पङ्कजासनम् ।
सहस्राक्षं कोकनदं नमस्ये हरिशङ्करम् ॥ ६१।२४ ॥
अगस्तयं गरुडं विष्णुं कपिलं ब्रह्मवाङ्मयम् ।
सनातनं च ब्रह्माणं नमस्ये ब्रह्मतत्परम् ॥ ६१।२५ ॥
अप्रतर्क्यं चतुर्बाहुं सहस्रांशुं तपोमयम् ।
नमस्ये धर्मराजानं देवं गरुडवाहनम् ॥ ६१।२६ ॥
सर्वबूतगतं शान्तं निर्मलं सर्वलक्षणम् ।
महायोगिनमव्यक्तं नमस्ये पापनाशनम् ॥ ६१।२७ ॥
निरञ्जनं निराकारं निर्गुणं निर्मलं पदम् ।
नमस्ये पापहन्तारं शरण्यं शरणं व्रजे ॥ ६१।२८ ॥
एतत् पवित्रं परमं पुराणं प्रोक्तं त्वगस्तयेन महर्षिणा च ।
ध्न्यं यशस्यं बहुपापनाशनं सङ्कर्तनात् स्मारणात् संश्रवाच्च ॥ ६१।२९ ॥

इति श्रीवामनपुराणे एकषष्टितमो ऽध्यायः