६०

पुलस्त्य उवाच ।
नमस्ते ऽस्तु जगन्नाथ देवदेवं नमो ऽस्तु ते ।
वासुदेव नमस्ते ऽस्तु बहुरूप नमो ऽस्तु ते ॥ ६०।१ ॥
एकशृङ्ग नमस्तुभ्यं नमस्तुभ्यं वृषाकपे ।
श्रीनिवास नमस्ते ऽस्तु नमस्ते भूतभावन ॥ ६०।२ ॥
विष्वक्सेन नमस्तुभ्यं नारायण नमो ऽस्तु ते ।
ध्रुवध्वज नमस्तो ऽस्तु सत्यध्वज नमो ऽस्तु ते ॥ ६०।३ ॥
यज्ञध्वज नमस्तुभ्यं धर्मध्वज नमो ऽस्तु ते ।
तालध्वज नमस्ते ऽस्तु नमस्ते गरुहध्वज ॥ ६०।४ ॥
वरेण्य विष्णो वैकुण्ठ नमस्ते पुरुषोत्तम ।
नमो जयन्त विजय जयानन्त पराजित ॥ ६०।५ ॥
कृतावर्तद महावर्त महादेव नमो ऽस्तु ते ।
अनाद्याद्यन्त मध्यान्त नमस्ते पद्मजप्रिय ॥ ६०।६ ॥
पुरञ्जय नमस्तुभ्यं शत्रुञ्जय नमो ऽस्तु ते ।
शुभञ्जय नमस्ते ऽस्तु नमस्ते ऽस्तु धनञ्जय ॥ ६०।७ ॥
सृष्टिगर्भ नमस्तुभ्यं शुचिश्रवः वृथुश्रवः ।
नमो हिरण्यगर्भाय पद्मगर्भाय ते नमः ॥ ६०।८ ॥
नमः कमलनेत्राय कालनेत्राय ते नमः ।
कालनाभ नमस्तुभ्यं महानाभ नमो नमः ॥ ६०।९ ॥
वृष्टिमूल महामूल मूलावास नमो ऽस्तु ते ।
धर्मावास जलावास श्रीनिवास नमो ऽस्तु ते ॥ ६०।१० ॥
धर्माध्यक्ष प्रजाध्यक्ष लोकाध्यक्ष नमो नमः ।
सेनाध्यक्ष नमस्तुभ्यं कालाध्यक्ष नमो नमः ॥ ६०।११ ॥
गदाधर श्रुतिधर चक्रधारिन् श्रियो धर ।
वनमालाधर हरे नमस्ते धरणीधर ॥ ६०।१२ ॥
आर्चिषेण महासेन नमस्ते ऽस्तु पुरुष्टुत ।
वहुकल्प महाकल्प नमस्ते कल्पनामुख ॥ ६०।१३ ॥
सर्वात्मन् सर्वग विभो विरिञ्चे श्वेत केशव ।
नील रक्त महानील अनिरुद्ध नमो ऽस्तु ते ॥ ६०।१४ ॥
द्वादशात्मक कालात्मन् सामात्मन् परमात्मक ।
व्योमकात्मक सुब्रह्मन् भूतात्मक नमो ऽस्तु ते ॥ ६०।१५ ॥
हरिकेश महाकेश गुडाकेश नमो ऽस्तु ते ।
मुञ्जकेश हृषीकेश सर्वनाथ मनो ऽस्तु ते ॥ ६०।१६ ॥
सुक्ष्म स्थूल महास्थूल महासूक्ष्म शुभङ्कर ।
श्वेतपीताम्बरधर नीलवास नमो ऽस्तु ते ॥ ६०।१७ ॥
कुशेशय नमस्ते ऽस्तु सीरध्वज नजार्धन ।
गोविन्द प्रीतिकर्ता च हम्स पीताम्बरप्रिय ॥ ६०।१८ ॥
अधोक्षज नमस्तुभ्यं सीरध्वज जनार्दन ।
वामनाय नमस्ते ऽस्तु नमस्ते मधुसूदन ॥ ६०।१९ ॥
सहस्रशीर्षाय नमो ब्रह्मशीर्षाय ते नमः ।
नमः सहस्रनेत्राय सोमसूर्यानलेक्षम ।
॥ ६०।२० ॥
नमश्चाथर्वशिरसे महाशीर्षाय ते नमः ।
नमस्ते धर्मनेत्राय महानेत्राय ते नमः ॥ ६०।२१ ॥
नमः सहस्रपादाय सहस्रभुजमन्यवे ।
नमो यज्ञवराहाय महारूपाय ते नमः ॥ ६०।२२ ॥
नमस्ते विश्वदेवाय विश्वात्मन् विश्वसम्भव ।
विश्वरूप नमस्ते ऽस्तु त्वत्तो विश्वमभूदिदम् ॥ ६०।२३ ॥
न्यग्रोधस्तवं महाशाखस्त्वं मूलकुसुमार्चितः ।
स्कन्धपत्राङ्कुरलतापल्लवाय नमो ऽस्तु ते ॥ ६०।२४ ॥
मूलं ते ब्राह्मणा ब्रह्मन् स्कन्धस्ते क्षत्रियोर्दिशः ।
नाभ्या ह्यभूदन्तरिक्षं शशाङ्को मनसस्तव ॥ ६०।२५ ॥
ब्राह्मणाः साग्नयो वक्त्राः देर्दण्डाः सायुधा नृपाः ।
पार्श्वाद् विशश्चेरुयुगाज्जाताः शूद्राश्च पादतः ॥ ६०।२६ ॥
नेत्राद् भानुरभूत् तुभ्यं पद्भ्यां भूः श्रोत्रयोर्दिशः ।
नाभ्या ह्यभूदन्तरिक्षं शशाङ्को मनसस्तव ॥ ६०।२७ ॥
प्राणाद् वायुः समभवत् कामाद् ब्रह्मा पितामहः ।
क्रोधात् त्रिनयनो रुद्रः शीर्ष्णोः द्यौः समवर्तत ॥ ६०।२८ ॥
इन्द्राग्नी वदनात् तुभ्यं पशवो मलसम्भवाः ।
ओषध्यो रोमसम्भूता विराजस्त्वं नमो ऽस्तु ते ॥ ६०।२९ ॥
पुष्पहास नमस्ते ऽस्तु महाहास नमो ऽस्तु ते ।
ओङ्कारस्त्वं वषट्कारो वौषट् त्वं च स्वधा सुधा ॥ ६०।३० ॥
स्वाहाकार नमस्तुभ्यं हन्तकार नमो ऽस्तु ते ।
सर्वाकार निराकार वेदाकार नमो ऽस्तु ते ॥ ६०।३१ ॥
त्वं हि वेदमयो देवः सर्वदेवमयस्तथा ।
सर्वतीर्थमयश्चैव सर्वयज्ञमयस्तथा ॥ ६०।३२ ॥
नमस्ते यज्ञपुरुष यज्ञभागभुजे नमः ।
नमः सहस्रधाराय शतधाराय ते नमः ॥ ६०।३३ ॥
भीर्भुवःस्वःस्वरूपाय गोदायामृतदायिने ।
सुवर्णब्रह्मदात्रे च सर्वदात्रे च ते नमः ॥ ६०।३४ ॥
ब्रह्मेशाय नमस्तुभ्यं ब्रह्मादे ब्रह्मरूपधृक् ।
परब्रह्म नमस्ते ऽस्तु शब्दब्रह्म नमो ऽस्तु ते ॥ ६०।३५ ॥
विद्यास्त्वं वेद्यरूपस्त्वं वेदनीयस्त्वमेव च ।
बुद्धिस्त्वमपि बोध्यश्च बोधस्त्वं च नमो ऽस्तु ते ॥ ६०।३६ ॥
होता होमश्च हव्यं च हूयमानश्चहव्यावाट् ।
पाता पोता च पुतश्च पावनीयश्च ॐ नमः ॥ ६०।३७ ॥
हन्ता च हन्यमानश् च ह्रिमाणस्त्वमेव च ।
हर्त्ता नेता च नीतिश्च पूज्यो ऽग्र्यो विश्वधार्यसि ॥ ६०।३८ ॥
स्रुक्स्रुवौ परधामासि कपालोलूखलो ऽरणिः ।
यज्ञपात्राणेयस्त्वमेकधा बहुधा त्रिधा ॥ ६०।३९ ॥
यज्ञस्त्वं यजमानस्त्वमीड्यस्त्वमसि याजकः ।
ज्ञाता ज्ञेयस्तथा ज्ञानं ध्येयो ध्यातासि चेश्वर ॥ ६०।४० ॥
ध्यानयोगश्च योगी च गतिर्मोक्षो धृतिः सुखम् ।
योगाङ्गानि त्वमीशानः सर्वगस्त्वं नमो ऽस्तु ते ॥ ६०।४१ ॥
ब्रह्म होता तथोद्गाता साम यूपो ऽत दक्षिणा ।
दीक्षा त्वं त्वं पुरोडाशस्त्वं पशुः पशुवाह्यसि ॥ ६०।४२ ॥
गुह्यो धाता च परमः शिवो नारायणस्तथा ।
महाजनो निरयनः सहस्रार्केन्दुरूपवान् ॥ ६०।४३ ॥
द्वादशारो ऽथ षण्णाभिस्त्रिव्यूहो द्वियुगस्तथा ।
कालचक्रो भवानीशो नमस्ते पुरुषोत्तमः ॥ ६०।४४ ॥
पराक्रमो विक्रमस्त्वं हयग्रीवो हरीश्वरः ।
नरेश्वरो ऽथ ब्रह्मेशः सूर्येशस्त्वं नमो ऽस्तु ते ॥ ६०।४५ ॥
अश्ववक्त्रो महामेधाः शम्भुः शक्रः प्रभञ्जनः ।
मित्रावरुणमूर्तिस्त्वममूर्तिरनघः परः ॥ ६०।४६ ॥
प्राग्वंशकायो भूतादिर्महाभूतो ऽच्युतो द्विजः ।
त्वमूर्ध्वकर्त्ता ऊर्ध्वश् च ऊर्ध्वरेता नमो ऽस्तु ते ॥ ६०।४७ ॥
महापातकहा त्वं च उपपातकहा तथा ।
अनीशः सर्वपापेभ्यस्त्वामहं शरणं गतः ॥ ६०।४८ ॥
इत्येतत् परमं स्तोत्रं सर्वपापप्रमोचनम् ।
महेश्वरेण कथितं वाराणस्यां पुरा मुने ॥ ६०।४९ ॥
केशवस्याग्रतो गत्वा स्नात्वा तीर्थे सितोदके ।
उपशान्तस्तथा जातो रुद्रः पापवशात् ततः ॥ ६०।५० ॥
एतत् पवित्रं त्रिपुरध्नभाषितं पठन् नरो विष्णुपरो महर्षे ।
विमुक्तपापो ह्युपशान्तमूर्ति सम्पूज्यते देववरैः प्रसिद्धैः ॥ ६०।५१ ॥

इति श्रीवामनपुराणे षष्ठितमो ऽध्यायः