५९

पुलस्त्य उवाच ।
कश्चिदासीद् द्विजद्रोग्धा पिशुनः क्षत्रियाधमः ।
परपीडारुचिः क्षुद्रः स्वभावादपि निर्घृणः ॥ ५९।१ ॥
पर्यासिताः दा तेन पितृदेवद्विजातयः ।
स त्वायुषि परिक्षिणे जज्ञे घोरो निशाचरः ॥ ५९।२ ॥
तेनैव कर्मदोषेम स्वेन पापकृतां वरः ।
क्रुरैश्चक्रे ततो वृत्तिं राक्षसत्वाद् विशेषतः ॥ ५९।३ ॥
तस्य पापरतस्यैवं जग्मुर्वर्षशतानि तु ।
तेनैव कर्मदोषेण नान्यां वृत्तिमरोचयत् ॥ ५९।४ ॥
यं यं पश्यति सत्त्वं स तं तमादाय राक्षसः ।
चखाद रौद्रकर्मासौ बाहुगोचरमागतम् ॥ ५९।५ ॥
एवं तस्यातिदुष्टस्य कुर्वतः प्राणिनां वधम् ।
जगाम च महान् कालः परिणामं तथा वयः ॥ ५९।६ ॥
स कदाचित् तपस्यन्तं ददर्श सतरितस्तटे ।
महाभागमूर्ध्वभुजं यथावत्संयतेन्द्रियम् ॥ ५९।७ ॥
अनया रक्षया ब्रह्मन् कृतरक्षं तपोनिधिम् ।
योगाचार्यं शुचिं दक्षं वासुदेवपरायणम् ॥ ५९।८ ॥
विष्णुः प्राच्यां स्तितश्चक्री विषणुर्दक्षिणतो गदी ।
प्रतीच्यां शार्ङ्गधृग्विष्णुर्विष्णुः खड्गी ममोत्तरे ॥ ५९।९ ॥
हृषीकेशो विकोणेषु तच्छिद्रेषु जनार्दनः ।
क्रोडरूपी हरिर्भूमौ नारसिंहो ऽम्बरे मम ॥ ५९।१० ॥
श्रुरान्तममलं चक्रं भ्रमत्येतत् सुदर्शनम् ।
अस्यांशुमाला दुष्प्रेक्ष्या हन्तुं प्रेतनिशाचरान् ॥ ५९।११ ॥
गदा चेयं सहस्रार्चिरुद्वमन् पावको यथा ।
रक्षोभूतपिशाचानां डाकिनीनां च शातनी ॥ ५९।१२ ॥
शार्ङ्गं विस्फूर्जितं चैव वासुदेवस्य मद्रिपून् ।
तिर्यङ्मनुष्यकूष्माण्डप्रेतादीन् हन्त्वशेषतः ॥ ५९।१३ ॥
खड्गधाराज्वलज्ज्योत्स्नानिर्धूता ये ममाहिताः ।
ते यान्तु सौम्यतां सद्यो गरुडेनेव पन्नगाः ॥ ५९।१४ ॥
ये कूष्माण्डास्तथा यक्षा दैत्या ये च निशाचराः ।
प्रेता विनायकाः क्रूरा मनुष्या जृम्भकाः खगाः ॥ ५९।१५ ॥
सिंहादयो ये पशवो दन्दशूकाश्च पन्नगाः ।
सर्वे भवन्तु मे सौम्या विष्णुचक्ररवाहताः ॥ ५९।१६ ॥
चित्तवृत्तिहरा ये च ये जनाः स्मृतीहारकाः ।
बलौजसां च हर्तारश्छायाविध्वंसकाश्च ये ॥ ५९।१७ ॥
ये चोपभोगहर्तारो ये च लक्षणनाशकाः ।
कूष्माण्डास्ते प्रणश्यन्तु विष्णुचक्ररवाहताः ॥ ५९।१८ ॥
बुद्धिस्वास्थ्यं मनःस्वास्थ्यं स्वास्थमैन्द्रियकं तथा ।
ममास्तु देवदेवस्य वासुदेवस्य कीर्तनात् ॥ ५९।१९ ॥
पृष्ठे पुरस्तादथ दक्षिणोत्तरे विकोणतश्चास्तु नजार्दनो हरिः ।
तमीड्यमीशानमनन्तमच्युतं जनार्दनं प्रणिपतितो न सीदति ॥ ५९।२० ॥
यथा परं ब्रह्म हरिस्तथा परं जगत्स्वरूपश्च स एव केशवः ।
ऋतेन तेनाच्युतनामकीर्तनात्प्रणाशमेतु त्रिविधं ममासुभम् ॥ ५९।२१ ॥
इत्यसावात्मरक्षार्थं कृत्वा वै विष्णुपञ्जरम् ।
संस्थितो ऽसावपि बली राक्षसः समुपाद्रवत् ॥ ५९।२२ ॥
ततो द्विजनियुक्तायां रक्षायां रजनीचरः ।
निर्धूतवेगः सहसा तस्थौ मासचतुष्टयम् ॥ ५९।२३ ॥
यावद् द्विजस्य देवर्षे समाप्तिर्वै समाधितः ।
जाते जप्यावसाने ऽसौ त ददर्श निशाचरम् ॥ ५९।२४ ॥
दीनं हतबालोत्साहं कान्दिशीकं हतौजसम् ।
तं दृष्ट्वा कृपयाविष्टः समाश्वास्य निशाचरम् ॥ ५९।२५ ॥
पप्रच्छागमने हेतुं स चाचष्ट यथातथम् ।
स्वभावमात्मनो द्रष्टुं रक्षया तेजसः क्षितिम् ॥ ५९।२६ ॥
कथयित्वा च तद्रक्षः कारणं विविधं ततः ।
प्रसीदेत्यब्रवीद् विप्रं निर्विण्णाः स्वेन कर्मणा ॥ ५९।२७ ॥
बहूनि पापानि मोक्षमिच्छामि त्वत्प्रसादतः ।
कृताः स्त्रियो मया बह्व्यो विधवाः पुत्रवर्जिताः ।
अनागसां च सत्त्वानामल्पकानां क्षयः कृतः ॥ ५९।२८ ॥
तस्मात् पापादहं मोक्षमिच्छमि त्वत्प्रसादतः ।
पापप्रशमनायालं कुरु मे धर्मदेशनम् ॥ ५९।२९ ॥
पापस्यास्य क्षयरमुपदेशं प्रयच्छ मे ।
तस्य तद् वचनं श्रुत्वा राक्षसस्य द्विजोत्तमः ॥ ५९।३० ॥
वचनं प्राह धर्मात्मा हेतुमच्च सुभाषितम् ।
कथं क्रूरस्वभावस्य सतस्तव निशाचर ।
सहसैव समायाता जिज्ञासा धर्मवर्त्मनि ॥ ५९।३१ ॥
राक्षस उवाच ।
त्वां वै समागतो ऽस्म्यद्य क्षिप्तो ऽहं रक्षया बलात् ।
तव संसर्गतो ब्रह्मन् जातो निर्वेद उत्तमः ॥ ५९।३२ ॥
का सा रक्षा न तां वेद्मि वेद्मि नास्याः परायणम् ।
यस्याः संसर्गसासाद्य निर्वेदं प्रापितं परम् ॥ ५९।३३ ॥
त्वं कृपां कुरु धर्मज्ञ मय्यनुक्रोशमावह ।
यथा पापापनोदो मे भवत्यार्य तथा कुरु ॥ ५९।३४ ॥
पुलस्त्य उवाच। ।
इत्येवमुक्तः स मुनिस्तदा वै तेन रक्षसा ।
प्रत्युवाच महाभागो विमृश्य सुचिरं मुनिः ॥ ५९।३५ ॥
ऋषिरुवाच। ।
यन्ममाहोपदेशार्थं निर्विण्णाः स्वेन कर्मणा ।
युक्तमेतद्धि पापानां निवृत्तिरुपकारिका ॥ ५९।३६ ॥
करिष्ये यातुधानानां नत्वहं धर्मदेशनम् ।
तान् सम्पृच्छ द्विजान् सौम्य ये वै प्रवचने रताः ॥ ५९।३७ ॥
एवमुक्त्वा ययौ विप्रश्चिन्तामाप स राक्षसः ।
कथं पापापनोदः स्यादिति चिन्ताकुलेन्द्रियः ॥ ५९।३८ ॥
न चखाद स सत्त्वानि क्षुधा सम्बाधितो ऽपि सन् ।
षष्ठे षष्ठे तदा काले जन्तुमेकमभक्षयत् ॥ ५९।३९ ॥
स कदाचित्क्षुधाविष्टः पर्यटन् विपुले वने ।
ददर्शाथ फलाहारमागतं ब्रह्मचारिणम् ॥ ५९।४० ॥
गृहीतो रक्षसा तेन स तदा मुनिदारकः ।
निराशो जीविते प्राह सामपूर्वं निशाचरम् ॥ ५९।४१ ॥
ब्राह्मण उवाच ।
भो भद्र ब्रूहि यत् कार्यं गृहीतो येन हेतुना ।
तदनुब्रूहि भद्रं ते अयमस्म्यनुशाधि माम् ॥ ५९।४२ ॥
राक्षस उवाच ।
षष्ठे काले त्वमाहारः क्षुधितस्य समागतः ।
निःश्रीकस्यातिपापस्य निर्घृणस्य द्विजद्रुहः ॥ ५९।४३ ॥
ब्राह्मण उवाच ।
यद्यवश्यं त्वया चाहं भक्षितव्यो निशाचर ।
आयास्यामि तवाद्यैव निवेद्य गुरवे फलम् ॥ ५९।४४ ॥
गुर्वर्थमेतदागत्य यत्फलग्रहणं कृतम् ।
ममात्र निष्ठा प्राप्तस्य फलानि विनिवेदितुम् ॥ ५९।४५ ॥
स त्वं मुहूर्तमात्रं मामत्रैवं प्रतिपालय ।
निवेद्य गुरवे यावदिहागच्छाम्यहं फलम् ॥ ५९।४६ ॥
राक्षस उवाच। ।
षष्ठे काले न मे ब्रह्मन् कश्चिद् ग्रहणमागतः ।
प्रतिमुच्येत देवो ऽपि इति मे पापाजीविका ॥ ५९।४७ ॥
एक एवात्र मोक्षस्य तव हेतुः शृणुष्व तत् ।
मुञ्चाम्यहमसन्दिग्धं यदि तत्कुरुते भवान् ॥ ५९।४८ ॥
ब्राह्मण उवाच ।
गुरोर्यन्न विरोधाय यन्न धर्मोपरोधकम् ।
तत्करिष्याम्यहं रक्षो यन्न व्रतहरं मम ॥ ५९।४९ ॥
राक्षस उवाच ।
मया निसर्गतो ब्रह्मन् जातिदोषाद् विशेषतः ।
निर्विवेकेन चित्तेन पापकर्म सदा कृतम् ॥ ५९।५० ॥
आबाल्यान्मम पापेषु न धर्मेषु रतं मनः ।
तत्पापासङ्क्षयान्मोक्षं प्राप्नुयां येन तद् वद ॥ ५९।५१ ॥
यानि पापानि कर्माणि बालत्वाच्चरितानि च ।
दुष्टां योनिमिमां प्राप्य तन्मुक्तिं कथय द्विज ॥ ५९।५२ ॥
यद्येतद् द्विजपुत्र त्वं समाख्यास्यस्यशेषतः ।
ततः क्षुधार्तान्मत्तस्त्वं नियतं मोक्षमाप्स्यसि ॥ ५९।५३ ॥
न चेत् तत्पापशीलो ऽहमत्यर्थं क्षुत्पिपासितः ।
षष्ठे काले नृशंसात्मा भक्षयिष्यामि निर्घृणः ॥ ५९।५४ ॥
पुलस्त्य उवाच ।
एवमुक्तो मुनिसुतस्तेन घोरेम रक्षसा ।
चिन्तामवाप महतीमशक्तस्तदुदीरणे ॥ ५९।५५ ॥
स विमृश्य चिरं विप्रः शरणं जातवेदसम् ।
जगाम ज्ञानदानाय संशयं परमं गतः ॥ ५९।५६ ॥
यदि शुश्रुषितो वह्निर्गुरुशुश्रूषणादनु ।
व्रतानि वा सुचीर्णानि सप्तार्चिः पातु मां ततः ॥ ५९।५७ ॥
न मातरं न पितरं गौरवेण यथा गुरुम् ।
सर्वदैवावगच्छामि तथा मां पातु पावकः ॥ ५९।५८ ॥
यथा गुरुं न मनसा कर्मणा वचसापि वा ।
अवजानाम्यहं तेन पातु सत्येन पावकः ॥ ५९।५९ ॥
इत्येवं मनसा सत्यान् कुर्वतः शपथान् पुनः ।
सप्तर्चिषा समादिष्टा प्रादुरासीत् सरस्वती ॥ ५९।६० ॥
सा प्रोवाच द्विजसुतं राक्षसग्रहणाकुलम् ।
मा भैर्द्विजसुताहं त्वां मोक्षयिष्यामि सङ्कटात् ॥ ५९।६१ ॥
यदस्य रक्षसः श्रेयो जिह्वाग्रे संस्थिता तव ।
तत् सर्वं कथयिष्यामि ततो मोक्षमवाप्स्यसि ॥ ५९।६२ ॥
अदृश्या रक्षसा तेन प्रोक्त्वेत्थं सा सरस्वती ।
अदर्शानं गता सो ऽपि द्विजः प्राह निशाचरम् ॥ ५९।६३ ॥
ब्राह्मण उवाच ।
श्रुयतां तव यच्छ्रेयस्तथान्येषां च पापिनाम् ।
समस्तपापशुद्ध्यर्थं पुण्योपचयदं च यत् ॥ ५९।६४ ॥
प्रातरुत्थाय जप्तव्यं मध्याह्ने ऽह्नक्षये ऽपि वा ।
असंशयं सदा जप्यो जपतां पुष्टिशान्तिदः ॥ ५९।६५ ॥
ॐ हरिं कुष्णं हृषीकेशं वासुदेवं जनार्दनम् ।
प्रणतो ऽस्मि जगन्नाथं स मे पापं व्यपोहतु ॥ ५९।६६ ॥
चराचरसुरुं नाथं गोविन्दं शेषशायिनम् ।
प्रणतो ऽस्मि परं देवं स मे पापं व्यपोहतु ॥ ५९।६७ ॥
शङ्खिनं चक्रिणं शार्ङ्गधारिणं स्रग्धरं परम् ।
प्रणतो ऽस्मि पतिं लक्ष्म्याः स मे पापं व्यपोहतु ॥ ५९।६८ ॥
दामोदरमुदाराक्षं पुण्डरीकाक्षमच्युतम् ।
प्रणतो ऽस्मि स्तुतं स्तुत्यैः स मे पापं व्यपोहतु ॥ ५९।६९ ॥
नारायणं नरं शौरिं माधवं मधुसूदनम् ।
प्रणतो ऽस्मि धराधारं स मे पापं व्यपोहतु ॥ ५९।७० ॥
केशवं चन्द्रसूर्याक्षं कंसकेशिनिषूदनम् ।
प्रणतो ऽस्मि महाबाहुं स मे पापं व्यपोहतु ॥ ५९।७१ ॥
श्रीवत्सवक्षसं श्रीशं श्रीधरं श्रीनिकेतनम् ।
प्रणतो ऽस्मि श्रियः कान्तं स मे पापं व्यपोहतु ॥ ५९।७२ ॥
यमीशं सर्वभूतानां ध्यायन्ति यतयो ऽक्षरम् ।
वासुदेवमनिर्देश्यं तमस्मि शरणं गतः ॥ ५९।७३ ॥
समस्तालम्बनेभ्यो यं व्यावृत्त्य मनसो गतिम् ।
ध्यायन्ति वासुदेवाख्यं तमस्मि शरणं गतः ॥ ५९।७४ ॥
सर्वगं सर्वभूतं च सर्वस्याधारमीश्वरम् ।
वासुदेवं परं ब्रह्म तमस्मि शरणं गतः ॥ ५९।७५ ॥
परमात्मानमव्यक्तं यं प्रयान्ति सुमेधसः ।
कर्मक्षये ऽक्षयं देवं तमस्मि शरणं गतः ॥ ५९।७६ ॥
पुण्यपापविनिर्मुक्ता यं प्रविश्य पुनर्भवम् ।
न योगिनः प्राप्नुवन्ति तमस्मि शरणं गतः ॥ ५९।७७ ॥
ब्रह्म भूत्वा जगत् सर्वं सदेवासुरमानुषम् ।
यः सृजत्यच्युतो देवस्तमस्मि शरणं गतः ॥ ५९।७८ ॥
ब्रह्मत्वे यस्य वक्त्रेभ्यश्चतुर्वेदमयं वपुः ।
प्रभुः पुरातनो जज्ञे तमस्मि शरणं गतः ॥ ५९।७९ ॥
ब्रह्मरूपधरं देवं जगद्योनि जनार्दनम् ।
स्रष्टृत्वे संस्थितं सृष्टौ प्रणतो ऽस्मि सनातनम् ॥ ५९।८० ॥
स्रष्टा भूत्वा स्थितो योगी स्थितावसुरसूदनः ।
तमादिपुरुषं विष्णुं प्रमतो ऽस्मि जनार्दनम् ॥ ५९।८१ ॥
धृता मही हता दैत्याः परित्रातास्तथा सुराः ।
येन तं विष्णुमाद्येशं प्रणतो ऽस्मि जनार्दनम् ॥ ५९।८२ ॥
यज्ञैर्यजन्ति यं विप्रा यज्ञेशं यज्ञभावनम् ।
तं यज्ञपुरुषं विष्णुं प्रणतो ऽस्मि सनातनम् ॥ ५९।८३ ॥
पातालवीथीभूतानु तथा लोकान् निहन्ति यः ।
तमन्तपुरुषं रुद्रं प्रणतो ऽस्मि सनातनम् ॥ ५९।८४ ॥
सम्भक्षयित्वा सकलं यथासृष्टमिदं जगत् ।
यो वै नृत्यति रुद्रात्मा प्रणतो ऽस्मि जनार्दनम् ॥ ५९।८५ ॥
सुरासुराः पितृगणाः यक्षगन्धर्वराक्षसाः ।
सम्भूता यस्य देवस्य सर्वगं तं नमाम्यहम् ॥ ५९।८६ ॥
समस्तदेवाः सकला मनुष्याणां च जातयः ।
यस्यांशभूता देवस्य सर्वगं तं नतो ऽस्मयहम् ॥ ५९।८७ ॥
वृक्षगुल्मादयो यस्य तथा पशुमृगादयः ।
एकांशभूता देवस्य सर्वगं तं नमाम्यहम् ॥ ५९।८८ ॥
यस्मान्नान्यत् परं किञ्चिद् यस्मिन् सर्वं महात्मनि ।
यः सर्वमध्यगो ऽनन्तः सर्वगं तं नमाम्यहम् ॥ ५९।८९ ॥
यथा सर्वेषु भूतेषु गूढो ऽग्निरिव दारुषु ।
विष्णुरेवं तथा पापं ममाशेषं प्रणश्यतु ॥ ५९।९० ॥
यथा विष्णुमयं सर्वं ब्रह्मदि सचराचरम् ।
यच्च ज्ञानपरिच्छेद्यं पापं नश्यतु मे तथा ॥ ५९।९१ ॥
शुभशुभानि कर्माणि रजःसत्त्वतमांसि च ।
अनेकजन्मकर्मोत्थं पापं नश्यतु मे तथा ॥ ५९।९२ ॥
यन्निशायां च यत्प्रातर्यन्मध्याह्नापराह्णयोः ।
सन्ध्ययोश्च कृतं पापं कर्मणा मनसा गिरा ॥ ५९।९३ ॥
यत् तिष्ठता यद् व्रजता यच्च शय्यागतेन मे ।
कृतं यदशुभं कर्म कायेन मनसा गिरा ॥ ५९।९४ ॥
अज्ञानतो ज्ञानतो वा मदाच्चलितमानसैः ।
तत् क्षिप्रं विलयं यातु वासुदेवस्य कीर्तनात् ॥ ५९।९५ ॥
परदारपरद्रव्यवाञ्छाद्रोहोद्भवं च यत् ।
परपीडोद्भवां निन्दां कुर्वता यन्महात्मनाम् ॥ ५९।९६ ॥
यच्च भोज्ये तथा पेये भक्ष्ये चोष्ये विलेहने ।
तद् यातु विलयं तोये यथा लवणभाजनम् ॥ ५९।९७ ॥
यद् बाल्ये यच्च कौमारे यत् पापं यौवने मम ।
वयःपरिणतौ यच्च यच्च जन्मातरे कृतम् ॥ ५९।९८ ॥
तन्नारायण गोविन्द हरिकृष्णेश कीर्तनात् ।
प्रयातु विलयं तोये यथा लवणभाजनम् ॥ ५९।९९ ॥
विष्णवे वासुदेवाय हरये केशवाय च ।
जनार्दनाय कृष्णाय नमो भूयो नमो नमः ॥ ५९।१०० ॥
भविष्यन्नरकघ्नाय नमः कंसविघातिने ।
अरिष्टकेशिचणूरदेवारिक्षयिणे नमः ॥ ५९।१०१ ॥
को ऽन्यो बलेर्वञ्चयिता त्वामृते वै भविष्यति ।
को ऽन्यो नाशयति बलाद् दर्पं हैहयभूपतेः ॥ ५९।१०२ ॥
कः करिष्यत्यथान्यो वै सागरे सेतुबन्धनम् ।
वधिष्यति दशग्रीवं कः सामात्यपुरःसरम् ॥ ५९।१०३ ॥
कस्त्वामृते ऽन्यो नन्दस्य गोकुले रतिमेष्यति ।
प्रलम्बपूतनादीनां त्वामृते मधुसूदन ।
निहन्ताप्यथबा शास्ता देवदेव भविष्यति ॥ ५९।१०४ ॥
जपन्नेवं नरः पुण्यं वैष्णवं धर्ममुत्तमम् ।
इष्टानिष्टप्रसङ्गेभ्यो ज्ञानतो ऽज्ञानतो ऽपि वा ॥ ५९।१०५ ॥
कृतं तेन तु यत् पापं सप्तजन्मान्तराणि वै ।
महापातकसञ्ज्ञं वा तथा चैवोपपातकम् ॥ ५९।१०६ ॥
जज्ञादीनि च पुण्यानि जपहोमव्रतानि च ।
नाशयेद् योगिनां सर्वमामपात्रमिवाम्भसि ॥ ५९।१०७ ॥
नरः संवत्सरं पूर्णं तिलपात्राणि षोडश ।
अहन्यहनि यो दद्यात् पठत्येतच्च तत्समम् ॥ ५९।१०८ ॥
अविलुप्तब्रह्मचर्यं सम्प्राप्य स्मरणं हरेः ।
विष्णुलोकमवाप्नोति सत्यमेतन्मयोदितम् ॥ ५९।१०९ ॥
यथैतत् स्तयमुक्तं मे न ह्यल्पमपि मे मृषा ।
राक्षसस्त्रस्तसर्वाङ्गं तथा मामेष मुञ्चतु ॥ ५९।११० ॥
पुलस्त्य उवाच ।
एवमुच्चारिते तेन मुक्तो विप्रस्तु रक्षसा ।
अकामेन द्विजो भूयस्तमाह रजनीचरम् ॥ ५९।१११ ॥
ब्रह्मण उवाच ।
एतद् भद्र मया ख्यातं तव पातकनाशनम् ।
विष्णोः सारस्वतं स्तोत्रं यज्जगाद सरस्वती ॥ ५९।११२ ॥
हुताशनेन प्रहिता मम जिह्वाग्रसंस्थिता ।
जगादैनं स्तवं विष्णोः सर्वेषां चोपशान्तिदम् ॥ ५९।११३ ॥
अनेनैव जगन्नाथं त्वमाराधय केसवम् ।
ततः शापापनोदं तु स्तुते लप्स्यसि केशवे ॥ ५९।११४ ॥
अहर्निशं हृषीकेशं स्तवेनानेन राक्षस ।
स्तुहि भक्तिं दृढां कृत्वा ततः पापाद् विमोक्ष्यसे ॥ ५९।११५ ॥
स्तुतो हि सर्वपापानि नाशयिष्यत्यसंशयम् ।
स्तुतो हि भक्त्या नॄणां वै सर्वपापहरो हरिः ॥ ५९।११६ ॥
पुलस्त्य उवाच ।
ततः प्रणम्य तं विप्रं प्रसाद्य स निशाचरः ।
तदैव तपसे श्रीमान् शालग्राममगाद् वशी ॥ ५९।११७ ॥
अहर्निशं स एवैनं जपन् सारस्वतं स्तवम् ।
देवक्रियारतिर्भूत्वा तपस्तेपे निशाचरः ॥ ५९।११८ ॥
समाराध्य जगन्नाथं स तत्र पुरषोत्तमम् ।
सर्वपापविनिर्मुक्तो विष्णुलोकमवाप्तवान् ॥ ५९।११९ ॥
एतत् ते कथितं ब्रह्मन् विष्णोः सारस्वतं स्तवम् ।
विप्रवक्त्रस्थया सम्यक्सरस्वत्या समीरितम् ॥ ५९।१२० ॥
य एतत् परमं स्तोत्रं वासुदेवस्य मानवः ।
पठष्यति स सर्वेभ्यः पापेभ्यो मोक्षमाप्स्यति ॥ ५९।१२१ ॥

इति श्रीवामनपुराणे एकोनषष्टितमो ऽध्यायः