५८

नारद उवाच ।
यान् जप्यान् भगवद्भ भक्त्या प्रह्लादो दानवो ऽजपत् ।
गजेन्द्रमोक्षणादींस्तु चतुरस्तान् वदस्व मे ॥ ५८।१ ॥
पुलस्त्य उवाच ।
शृणुष्व कथयिष्यामि जप्यानेतांस्तपोधन ।
दुःस्वप्ननाशो भवति यैरुक्तैः संश्रुतैः स्मृतैः ॥ ५८।२ ॥
गजेन्द्रमोक्षणं त्वादौ शृणुष्व तदनन्तरम् ।
सारस्वतं ततः पुण्यौ पापप्रशमनौ स्तवौ ॥ ५८।३ ॥
सर्वरत्नमयः श्रीमांस्त्रिकूटो नाम पर्वतः ।
सुतः पर्वतराजस्य सुमेरोर्भास्करद्युतेः ॥ ५८।४ ॥
क्षीरोदजलवीच्यग्रैर्धैतामलशिलातलः ।
उत्थितः सागरं भित्त्वा देवर्षिगणसेवितः ॥ ५८।५ ॥
अपसरोभिः परिवृतः श्रीमान् प्रस्वणाकुलः ।
गन्धर्वैः किन्नरैर्यक्षैः सिद्धचारणपन्नगैः ॥ ५८।६ ॥
विद्याधरैः सपत्नीकैः संयतैश्च तपस्विभिः ।
वृकद्वीपिगजेन्द्रश्च वृगात्रो विराजते ॥ ५८।७ ॥
पुन्नागैः कर्णिकारैश्च बिल्वामलकपाटलैः ।
चूतनीपकदम्बैश्च चन्दनागुरुचम्पकैः ॥ ५८।८ ॥
शालैस्तालैस्तमालैश्च सरलार्जुनपर्पटैः ।
तथान्यैर्विविधैर्वृक्षैः सर्वतः समलङ्कृतः ॥ ५८।९ ॥
नानाधात्वङ्कितैः शृङ्गैः प्रस्रवद्भिः समन्ततः ।
शोभितो रुचिरप्रख्यैस्त्रिभिर्विस्तीर्णसानुभिः ॥ ५८।१० ॥
मृगैः शाखामृगैः सिन्दैर्मातङ्गैश्च सदामदैः ।
जीवञ्जीवकसङ्घुष्टैश्चकोरशिखिनादितैः ॥ ५८।११ ॥
तस्यैकं काञ्चनं शृङ्गं सेवते यं दिवाकरः ।
नानापुष्पसमाकीर्णं नानागन्धाधिवासितम् ॥ ५८।१२ ॥
द्वितीयं राजतं शृङ्गं सेवते यं निशाकरः ।
पाण्डुराम्बुदसङ्काशं तुषारचयसन्निभम् ॥ ५८।१३ ॥
वज्रेन्द्रनीलवैडूर्यतेजोभिर्भासयन् दिशः ।
तृतीयं ब्रह्मसदनं प्रकृष्टं शृङ्गमुत्तमम् ॥ ५८।१४ ॥
न तत्कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः ।
नातप्ततपसो लोके ये च पापकृतो जनाः ॥ ५८।१५ ॥
तस्य सानुमतः पृष्ठे सरः काञ्चनपङ्कजम् ।
कारण्डवसमाकीर्णं राजहंसोपशोभितम् ॥ ५८।१६ ॥
कुमुदोत्पलकह्लारैः पुण्डरीकैश्च मण्डितम् ।
कमलैः शतपत्रैश्च काञ्चनैः समलङ्कृतम् ॥ ५८।१७ ॥
पत्रैर्मरकतप्रख्यैः पुष्पैः काञ्चनसन्निभैः ।
गुल्मैः कीचकवेणूनां समन्तात् परिवेष्टितम् ॥ ५८।१८ ॥
तस्मिन् सरसि दुष्टात्मा विरूपो ऽन्तर्जलेशयः ।
आसीद् ग्राहो गजेन्द्राणां रिपुराकेकरेक्षमः ॥ ५८।१९ ॥
अथ दन्तोज्ज्वलमुखः कदाचिद् गजयूथपः ।
मदस्रावी जलाकाङ्क्षी पादचारीव पर्वतः ॥ ५८।२० ॥
वासयन्मदगन्धेन गिरिमैरावतोपमः ।
गजो ह्यञ्जनसङ्काशो मदाच्चलितलोचनः ॥ ५८।२१ ॥
तृषितः पातुकामो ऽसौ अवतीर्णश्च तज्जलम् ।
सलीलः पङ्कजवने यूथमध्यगतश्चरन् ॥ ५८।२२ ॥
गृहीतस्तेन रौद्रेण ग्राहेणाव्यक्तमूर्तिना ।
पश्यन्तीनां करेणूनां क्रोशन्तीनां च दारुणम् ॥ ५८।२३ ॥
ह्रियते पङ्कजवने ग्राहेणातिबलीयसा ।
वारुणैः संयतः पाशैर्निष्प्रयत्नगतिः कृतः ॥ ५८।२४ ॥
वेष्ट्यमानः सुघोरैस्तु पाशैर्नागो दृढैस्तथा ।
विस्फूर्य च यथाशक्ति विक्रोसंश्च महारवान् ॥ ५८।२५ ॥
व्यथितः स निरुत्साहो गृहीतो घोरकर्मणा ।
परमापदमापन्नो मनसाचिन्तयद्धरिम् ॥ ५८।२६ ॥
स तु नागवरः श्रीमन् नारायणपरायणः ।
तमेव शरणं देवं गतः सर्वात्मना तदा ॥ ५८।२७ ॥
एकात्मा निगृहीतात्मा विशुद्धेनान्तरात्मना ।
जन्मजन्मान्तराभ्यासात् भक्तिमान् गरुडध्वजे ॥ ५८।२८ ॥
नान्यं देवं महादेवात् पूजयामास केशवात् ।
मथितामृतफेनाभं शङ्खचक्रगदाधरम् ॥ ५८।२९ ॥
सहस्रशुभनामानमादिदेवमजं विभुम् ।
प्रगृह्य पुष्कराग्रेण काञ्चनं कमलोत्तमम् ।
आपद्विमोक्षमन्विच्छन् गजः स्तोत्रमुदीरयत् ॥ ५८।३० ॥
गजेन्द्र उवाच ।
ॐ नमो मूलप्रकृतये अजिताय महात्मने ।
अनाश्रिताय देवाय निःस्पृहाय नमो ऽस्तु ते ॥ ५८।३१ ॥
नम आद्याय बीजाय आर्षेयाय प्रवर्तिने ।
अन्तराय चैकाय अव्यक्ताय नमो नमः ॥ ५८।३२ ॥
नमो गुह्याय गूढाय गुणाय गुणवर्तिने ।
अप्रर्क्याप्रमेयाय अतुलाय नमो नमः ॥ ५८।३३ ॥
नमः शिवाय शान्ताय निश्चिन्ताय यशस्विने ।
सनातनाय पूर्वाय पुराणाय नमो नमः ॥ ५८।३४ ॥
नमो देवाधिदेवाय स्वभावाय नमो नमः ।
नमो जगत्प्रतिष्ठाय गोविन्दाय नमो नमः ॥ ५८।३५ ॥
नमो ऽस्तु पदमनाभाय नमो योगोद्भवाय च ।
विश्वेश्वराय देवाय शिवाय हरये नमः ॥ ५८।३६ ॥
नमो ऽस्तु तस्मै देवाय निर्गुणाय गुणात्मने ।
नारायणाय विश्वाय देवानां परमात्मने ॥ ५८।३७ ॥
नमो नमः कारणवामनाय नारायणायामितविक्रमाय ।
श्रीशार्ङ्गचक्रासिगदाधराय नमो ऽस्तु तस्मै पुरुषोत्तमाय ॥ ५८।३८ ॥
गुह्याय वेदनिलयाय महोदराय सिंहाय दैत्यनिधनाय चतुर्भुजाय ।
ब्रह्मेन्द्ररुद्रमुनिचारणसंस्तुताय देवोत्तमाय वरदाय नमो ऽच्युताय ॥ ५८।३९ ॥
नागेन्द्रदेहशयनासनसुप्रियाय गोक्षीरहेमशुकनीलघनोपमाय ।
पीताम्बराय मधुकैटभनाशनाय विश्वाय चारुमुकुटाय नमो ऽजराय ॥ ५८।४० ॥
नाभिप्रजातक्रमलस्थचतुर्मखाय श्रीरोदकार्णवनिकेतयशोधराय ।
नानाविचित्रमुकुटाङ्गदभूषणाय सर्वेश्वराय वरदाय नमो वराय ॥ ५८।४१ ॥
भक्तिप्रियाय वरदीप्तसुदर्शनाय फुलालारविन्दविपुलायतलोचनाय ।
देवेन्द्रविघ्नशमनोद्यतपौरुषाय योगेश्वराय विरजाय नमो वराय ॥ ५८।४२ ॥
ब्रह्मायनाय त्रिदशायनाय लोकाधिनाथाय भवापनाय ।
नारायणायात्महितायनाय महावराहाय नमस्करोमि ॥ ५८।४३ ॥
कूटस्थमव्यक्तमचिन्त्यरूपं नारायणं कारणमादिदेवम् ।
युगान्तशेषं पुरुषं पुराणं तं देवदेवं शरणं प्रपद्ये ॥ ५८।४४ ॥
योगेश्वरं चारुविचित्रमौलिम् अज्ञेयम् अग्र्यं प्रकृतेः परस्थम् ।
क्षेत्रज्ञमात्मप्रभवं वरेण्यं तं वासुदेवं शरणं प्रपद्य ॥ ५८।४५ ॥
अदृश्यमव्यक्तमचिन्त्यमव्ययं महर्षयो ब्रह्मयं सनातनम् ।
वदन्ति यं वै पुरुषं सनातनं तं देवगुह्यं शरणं प्रपद्ये ॥ ५८।४६ ॥
यदक्षरं ब्रह्म वदन्ति सर्वगं निशम्य यं मृत्युमुखात् प्रमुच्यते ।
तमीश्वरं तृप्तमनुत्तमैर्गुणैः परायणं विष्णुमुपैमि साश्वतम् ॥ ५८।४७ ॥
कार्यं क्रिया कारणमप्रमेयं हिरण्यबाहुं वरपद्मनाभम् ।
महाबलं वेदनिधिं सुरेशं व३जामि विष्णुं शरणं जनार्दनम् ॥ ५८।४८ ॥
किरीटकेयूरमहार्हनिष्कैर्मण्युत्तमालङ्कृतसर्वगात्रम् ।
पीताम्बरं काञ्चनभक्तिचित्रं मालाधरं केशवमभ्युपैमि ॥ ५८।४९ ॥
भवोद्भवं वेदविदां परिष्ठं योगात्मनां साङ्ख्यविदां वरिष्ठम् ।
आदित्यरुद्राश्विवसुप्रभावं प्रभुं प्रपद्ये ऽच्युतमात्मवन्तम् ॥ ५८।५० ॥
श्रीवत्साङ्कं महादेवं देवगुह्यमनौपमम् ।
प्रपद्ये सूक्ष्ममचलं वरेण्यमभयप्रदम् ॥ ५८।५१ ॥
प्रभवं सर्वभूतानां निर्गुणं परमेश्वरम् ।
प्रपद्ये मुक्तसङ्गानां यतीनां परमां गतिम् ॥ ५८।५२ ॥
भगवन्तं गुणाध्यक्षमक्षरं पुष्करेक्षणम् ।
शरण्यं शरणं भक्त्या प्रपद्ये भक्तवत्सलम् ॥ ५८।५३ ॥
त्रिविक्रमं त्रिलोकेशं सर्वेषां प्रपितामहम् ।
योगात्मानं महात्मानं प्रपद्ये ऽहं जनार्दनम् ॥ ५८।५४ ॥
आदिदेवमजं शम्भुं व्यक्ताव्यक्तं सनातनम् ।
नारायणमणीयांसं प्रपद्ये ब्राह्मणप्रियम् ॥ ५८।५५ ॥
नमो वराय देवाय नमः सर्वसहाय च ।
प्रपद्ये देवदेवेशमणीयांसमणोः सदा ॥ ५८।५६ ॥
एकाय लोकत्त्वाय परतः परमात्मने ।
नमः सहस्रशिरसे अनन्ताय महात्मने ॥ ५८।५७ ॥
त्वामेव परमं देवमृषयो वेदपारगाः ।
कीर्तयन्ति च यं सर्वे ब्रह्मादीनां परायणम् ॥ ५८।५८ ॥
नमस्ते पुण्डरीकाक्ष भक्तानामभयप्रद ।
सुब्रह्मण्य नमस्ते ऽस्तु त्राहि मां शरणागतम् ॥ ५८।५९ ॥
पुलस्त्य उवाच ।
भक्तिं तस्यानुसञ्चिन्त्य नागस्यमोघसम्भवः ।
प्रीतिमानभवद् विष्णुः शङ्खचक्रगदाधरः ॥ ५८।६० ॥
सान्निध्यं कल्पयामास तस्मिन् सरसि केशवः ।
गरुडस्थो जगत्स्वामी लोकाधारस्तपोधनः ॥ ५८।६१ ॥
ग्राहग्रस्तं गजेन्द्रं तं तं च ग्राहं जलाशयात् ।
उज्जहाराप्रमेयात्मा तरसा मधुसूदनः ॥ ५८।६२ ॥
स्थलस्थं दारयामास ग्राहं चक्रेण माधवः ।
मोक्षयामास नागेन्द्रं पाशेभ्यः शरणागतम् ॥ ५८।६३ ॥
स हि देवलशापेन हूहूर्गन्धर्वसत्तमः ।
ग्राहत्वमगमत् कृष्णाद् वधं प्राप्य दिवं गतः ॥ ५८।६४ ॥
गजो ऽपि विष्णुना स्पृष्टो जातो दिव्यवपुः पुमान् ।
आपद्विक्तौ युगपद् गजगन्धर्वसत्तमौ ॥ ५८।६५ ॥
प्रीतीमान् पुण्डरीकाक्षः शरणागतवत्सलः ।
अभवत् त्वथ देवेशस्ताभ्यां चैव प्रपूजितः ॥ ५८।६६ ॥
इदं च भगवान् योगी गजेन्द्रं शरणागतम् ।
प्रोवाच मुनिशार्दूल मधुरं मधुसूदनः ॥ ५८। ६७ ॥
श्रीभगवानुवाच ।
यो मां त्वाञ्च सरश्चैव ग्राहस्य च विदारणम् ।
गुल्मकीचकरेणूनां रूपं मेरोः सुतस्य च । ।
५८।६८ अश्वत्थं भास्करं गङ्गं नैमिषारण्यमेव च ।
संस्मरिष्यन्ति मनुजाः प्रयताः स्थिरबुद्धयः ॥ ५८।६९ ॥
कीर्तयिष्यन्ति भक्त्या च श्रोष्यन्ति च शुचिव्रतः ।
दुःस्वप्नो नश्यते तेषां सुस्वप्नश्च भविष्यति ॥ ५८।७० ॥
मात्स्यं कौर्मञ्च वाराहं वामनं तार्क्ष्यमेव च ।
नारसिंहं च नागेन्द्रं सृष्टिप्रलयकारकम् ॥ ५८।७१ ॥
एतानि प्रातरुत्थाय संस्मरिष्यनति ये नराः ।
सर्वपापैः प्रमुच्यन्ते पुण्यं लोकमवाप्नुयुः ॥ ५८।७२ ॥
पुलस्त्य उवाच ।
एवमुक्त्वा हृषीकेशो गजेन्द्रं गरुडध्वजः ।
स्पर्शयामास हस्तेन गजं गन्धर्वमेव च ॥ ५८।७३ ॥
ततो दिव्यवपुर्भत्वा गजेन्द्रो मधुसूदनम् ।
जगाम शरणं विप्र नारायणपरायमः ॥ ५८।७४ ॥
ततो नारायणः श्रीमान् मोक्षयित्वा गजोत्तमम् ।
पापबनधाच्च शापाच्च ग्राहं चाद्भुतकर्मकृत् ॥ ५८।७५ ॥
ऋषिभिः स्तूयमानश्च देवगुह्यपरायणैः ।
गतः स भगवान् विष्णुर्दुर्विज्ञेयगतिः प्रभुः ॥ ५८।७६ ॥
गजेन्द्रमोक्षणं दृष्ट्वा देवाः शक्रपुरोगमाः ।
ववन्दिरे महात्मानं प्रभुं नारायणं हरिम् ॥ ५८।७७ ॥
महर्षयश्चारणाश्च दृष्ट्वा गजविमोक्षणम् ।
विस्मयोत्फूल्लनयनाः संस्तुवन्ति जनार्दनम् ॥ ५८।७८ ॥
प्रजापतिपतिर्ब्रह्मा चक्रपाणिविचेष्टितम् ।
गजेन्द्रमोक्षणं दृष्ट्वा इदं वचनमब्रवीत् ॥ ५८।७९ ॥
य इदं शृणुयान्तित्यं प्रातरुत्थाय मानवः ।
प्राप्नुयात् परमां सिद्धिं दुःस्वप्नस्तस्य नश्यति ॥ ५८।८० ॥
गजेन्द्र मोक्षणं पुण्यं सर्वपापप्रणाशनम् ।
कथितेन स्मृतेनाथ श्रुतेन च तपोधनः ।
गजेन्द्रमोक्षणेनेह सद्यः पापात् प्रमुच्यते ॥ ५८।८१ ॥
एतत्पवित्रं परमं सुपुण्यं सङ्कीर्तनीयं चरितं मुरारेः ।
यस्मिन् किलोक्ते बहुपापबन्धनात् लभ्येत मोक्षो द्विरदेन यद्वत् ॥ ५८।८२ ॥
अजं वरेण्यं वरपद्मनाभं नारायणं ब्रह्मनिधिं सुरेशम् ।
तं देवगुह्यं पुरुषं पुराणं वन्दाम्यहं लोकपतिं वरेण्यम् ॥ ५८।८३ ॥
पुलस्त्य उवाच ।
एतत् तवोक्तं प्रवरं स्तवानां स्तवं मुरारेर्वरनागकीर्तनम् ।
यं कीर्त्य संश्रुत्य तथा विचिन्त्य पापापनोदं पुरुषो लभेत ॥ ५८।८४ ॥

इति श्रीवामनपुराणे अष्टपञ्चाशो ऽध्यायः