५७

पुलस्त्य उवाच ।
तस्मिंस्तीर्थवरे स्नात्वा दृष्ट्वा देवं त्रिलोचनम् ।
पूजयित्वा सुवर्णाक्षं नैमिषं प्रययौ ततः ॥ ५७।१ ॥
तत्र तीर्थसहस्राणि त्रिंशत्पापहराणि च ।
तोन्त्याः काञ्चनाक्ष्याश्च गुरुदायाश्च मध्यतः ॥ ५७।२ ॥
तेषु स्नात्वार्च्य देवेशं पीतवाससमच्युतम् ।
ऋषीनपि च सम्पूज्य नैमिषारण्यवासिनः ॥ ५७।३ ॥
देवदेवं तथेशानं सम्पूज्य विधिना ततः ।
गयायां गोपतिं द्रष्टुं जगाम स महासुरः ॥ ५७।४ ॥
तत्र ब्रह्मध्वजे स्नात्वा कृत्वा चास्य प्रदक्षिणाम् ।
पिण्डनिर्वपणं पुण्यं पिदृणां स चकार ह ॥ ५७।५ ॥
उदपाने तथा स्नात्वा तत्राभ्यर्च्य पितॄन् वशी ।
गदापाणिं समभ्यर्च्य गोपतिं चापि शङ्करम् ॥ ५७।६ ॥
इन्द्रतीर्थे तथा स्नात्वा सन्तर्प्य पितृदेवताः ।
महानदीजले स्नात्वा सरयूमाजगाम सः ॥ ५७।७ ॥
तस्यां स्नात्वा समभ्यर्च्य गोप्रतारे कुशेशयम् ।
उपोष्य रजनीमेकां विरजां नगरीं ययौ ॥ ५७।८ ॥
स्नात्वा विरजसे तीर्थे दत्त्वा पिण्डं पितॄंस् तथा ।
दर्शनार्थ ययौ श्रीमान् अजितं पुरुषोत्तमम् ॥ ५७।९ ॥
तं दृष्ट्वा पुण्डरीकाक्षमक्षरं परमं शुचिः ।
षड्रात्रमुष्य तत्रैव महेन्द्रं दक्षिणं ययौ ॥ ५७।१० ॥
तत्र देववरं शम्भुमर्द्धनारीश्वरं हरम् ।
दृष्ट्वार्च्य सम्पूज्य पितॄन् महेन्द्रं चोत्तरं गतः ॥ ५७।११ ॥
तत्र देववरं शम्भुं गोपालं सोमपायिनम्। दृष्ट्वा स्नात्वा सोमतीर्थे सह्याचलमुपागतः ॥ ५७।१२ ॥
तत्र स्नात्वा महोदक्यां वैकुण्ठं चार्च्यं भक्तितः ।
सुरान् पितृन् समभ्यर्च्य पारियात्रं गिरिं गतः ॥ ५७।१३ ॥
तत्र स्नात्वा लाह्गलिन्यां पूजयित्वापराजितम् ।
कशेरुदेशं चाभयेत्य विश्वरूपं ददर्श सः ॥ ५७।१४ ॥
यत्र देववरः शम्भुर्गणानां तु सुपूजितम् ।
विश्वरूपमथात्मानं दर्शयामास योगवित् ॥ ५७।१५ ॥
तत्र मङ्कुणिकातोये स्नात्वाभ्यर्य्य महेश्वरम् ।
जगामाद्रिं स सौगन्धि प्रह्लादो मलायाचलम् ॥ ५७।१६ ॥
महाह्रदे ततः स्नात्वा पूजयित्वा च शङ्करम् ।
ततो जगाम योगात्मा द्रष्टुं विन्ध्ये सदाशिवम् ॥ ५७।१७ ॥
ततो विपाशासलिले स्नात्वाभ्यर्च्य सदाशिवम् ।
त्रिरात्रं समुपोष्याथ अवन्तीं नगरीं ययो ॥ ५७।१८ ॥
तत्र शिप्राजले स्नात्वा विष्णुं सम्पूज्य भक्तिततः ।
श्मशानस्थं ददर्शाथ महाकालवपुर्धरम् ॥ ५७।१९ ॥
तस्मिन् हि सर्वसत्त्वानां तेन रूपेण शङ्करः ।
तामसं रूपमास्थाय संहारं कुरुते वशी ॥ ५७।२० ॥
तत्रस्थेन सुरेशेन श्वेतकिर्नाम भूपतिः ।
रक्षितस्त्वन्तकं दग्ध्वा सर्वबूतापहारिणम् ॥ ५७।२१ ॥
तत्रातिहृष्टो वसति नित्यं शर्वः सहोमया ।
वृतः प्रमथकोटीभिर्बहुभिस्त्रिदशार्चितः ॥ ५७।२२ ॥
तं दृष्ट्वाथ महाकालं कालकालान्तकान्तकम् ।
यमसंयमनं मृत्योर्मृत्युं चित्रविचित्रकम् ॥ ५७।२३ ॥
श्मसाननिलयं शम्भुं भूतनाथं जगत्पतिम् ।
पूजयित्वा शूलधरं जगाम निषधान् प्रति ॥ ५७।२४ ॥
तत्रामरेश्वरं देवं दृष्ट्वा सम्पूज्य भक्तितः ।
महोदयं समभ्येत्य हयग्रीवं ददर्श सः ॥ ५७।२५ ॥
अश्वतीर्थे ततः स्नात्वा दृष्ट्वा च तुरगाननम् ।
श्रीधरं चैव सम्पूज्य पञ्चालविषयं ययौ ॥ ५७।२६ ॥
तत्रेश्वरगुणैर्युक्तं पुत्रमर्थपतेरथ ।
पाञ्चालिकं वशी दृष्ट्वा प्रयागं परतो ययौ ॥ ५७।२७ ॥
स्नात्वा सन्निहिते तीर्थे यामुने लोकविश्रुते ।
दृष्ट्वा वटेश्वरं रुद्रं माधवं योगशायिनम् ॥ ५७।२८ ॥
द्वावेव भक्तितः पूज्यौ पूजयित्वा महासुरः ।
माघमासमथोपोष्य ततो वाराणसीं गतः ॥ ५७।२९ ॥
ततो ऽस्यां वरणायं च तीर्थेषु च पृथक् पृथक् ।
सर्वपापहराद्येषु स्नात्वार्ऽच्य पितृदेवताः ॥ ५७।३० ॥
प्रदक्षिमीकृत्य पुरीं पूज्याविमुक्तकेशवौ ।
लोलं दिवाकरं दृष्ट्वा ततो मधुवनं ययौ ॥ ५७।३१ ॥
तत्र स्वयम्भुवं देवं ददर्शासुरसत्तमः ।
तमभ्यर्च्य महातेजाः पुष्करारण्यमागमत् ॥ ५७।३२ ॥
तेषु त्रिष्वपि तीर्थेषु स्नात्वार्ऽच्य पितृदेवताः ।
पुष्कराक्षमयोगन्धि ब्रह्माणं चाप्यपूजयत् ॥ ५७।३३ ॥
ततो भूयः सरस्वत्यास्तीर्थे त्रैलोक्यविश्रुते ।
कोटितीर्थे रुद्रकोटिं ददर्श वृषभध्वजम् ॥ ५७।३४ ॥
नैमिषेया द्विजवरा मागधेयाः ससैन्धवाः ।
धर्मारण्याः पौष्करेया दण्डकारण्यकास्तथा ॥ ५७।३५ ॥
चाम्पेया भारुकच्छेया देविकातीरगाश्च ये ।
ते तत्र शङ्करं द्रष्टुं समायाता द्विजातयः ॥ ५७।३६ ॥
कोटिसङ्ख्यास्तपः सिद्धा हरदर्शलालसाः ।
अहं पूर्वमहं पूर्वमित्येवं वादिनो मुन् ॥ ५७।३७ ॥
तान् सङ्क्षुब्धान् हरो दृष्ट्वा महर्षीन् दग्धकिल्बिषान् ।
तेषामेवानुकम्पार्थं कोटिमूर्त्तिरभूद् भवः ॥ ५७।३८ ॥
ततस्ते मुनयः प्रीताः सर्व एव महेश्वरम् ।
सम्पूजयन्तस्तस्थुर्वै तीर्थं कृत्वा पृथक् पृथक् ।
इत्येवं रुद्रकोटीति नाम्ना शम्भुरजायत ॥ ५७।३९ ॥
तं ददर्श महातेजाः प्रह्लादो भक्तिमान् वशी ।
कोटितीर्थे ततः स्नात्वा तर्पयित्वा वसुन् पितॄन् ।
रुद्रकोटिं समभ्यर्च्य जगाम कुरुजाङ्गलम् ॥ ५७।४० ॥
त६ देववरं स्थाणुं शङ्करं पार्वतीप्रियम् ।
सरस्वतीजले मग्नं ददर्श सुरपूजितम् ॥ ५७।४१ ॥
सारस्वते ऽम्भसि स्नात्वा स्थाणुं सम्पूज्य भक्तितः ।
स्नात्वा दसाश्वमेधे च सम्पूज्य च सुरान् पितृन् ॥ ५७।४२ ॥
सहस्रलिङ्गं सम्पूज्य स्नात्वा कन्याह्रदे शुचिः ।
अभिवाद्य गुरुं शुक्रं सोमतीर्थं जगाम ह ॥ ५७।४३ ॥
तत्र स्नात्वार्ऽच्य च पितृन् सोमं सम्पूज्य भक्तिततः ।
क्षीरिकावासमभ्येत्य स्नानं चक्रे महायशाः ॥ ५७।४४ ॥
प्रदक्षिणीकृत्य तरुं वरुणं चार्च्य बुद्धिमान् ।
भूयः कुरुध्वजं दृष्ट्वा पद्माख्यां नगरी गतः ॥ ५७।४५ ॥
तत्रार्च्य मित्रावरुणौ भास्करौ लोकपूजितौ ।
कुमारधारामभ्येत्य ददर्श स्वामिनं वशी ॥ ५७।४६ ॥
स्नात्वा कपिलधारायां सन्तर्प्यार्च्य पितृन् सुरान् ।
दृष्ट्वा स्कन्दं समभ्यर्च्य नर्मदायां जगाम ह ॥ ५७।४७ ॥
तस्यां स्नात्वा समभ्यर्च्य वासुदेवं श्रियः पतिम् ।
जगाम भूधरं द्रष्टुं वाराहं चक्रधारिणम् ॥ ५७।४८ ॥
स्नात्वा कोकामुके तीर्थे सम्पूज्य धरणीधरम् ।
त्रिसौवर्णं महादेवमर्बुदेशं जगाम ह ॥ ५७।४९ ॥
तत्र नारीह्रदे स्नात्वा पूजयित्वा च शङ्करम् ।
कालिञ्जरं समभ्येत्य नीलकण्ठं ददर्श सः ॥ ५७।५० ॥
नीलतीर्थजले स्नात्वा पूजयित्वा ततः शिवम् ।
जगाम सागरानूपे प्रभासे द्रष्टुमीश्वरम् ॥ ५७।५१ ॥
स्नात्वा च सङ्गमे नद्याः सरस्वत्यार्णंवस्य च ।
सोमेश्वरं लोकपतिं ददर्श स कपर्दिनम् ॥ ५७।५२ ॥
यो दक्षशापनिर्दग्धः क्षयी ताराधिपः शशी ।
आप्यायितः शङ्करेण विष्णुना सकपर्दिना ॥ ५७।५३ ॥
तावर्च्य देवप्रवरौ प्रजगाम महालयम् ।
तत्र रुद्रं समभ्यर्च्य प्रजगामोत्तरान् कुरून् ॥ ५७।५४ ॥
पद्मनाभं स तत्रर्च्य सप्तगोदावरं ययौ ।
तत्र स्नात्वार्ऽच्य विश्वेशं भीमं त्रैलोक्यवन्दितम् ॥ ५७।५५ ॥
गत्वा दारुवने श्रीमान् लिङ्गं स ददर्श ह ।
तमर्च्य ब्राह्मणीं गत्वा स्नात्वार्ऽच्य त्रिदशेश्वरम् ॥ ५७।५६ ॥
प्लक्षावतरणं गत्वा श्रीनिवासमपूजयत् ।
ततश्च कुण्डिनं गत्वा सम्पूज्य प्रामतृप्तिदम् ॥ ५७।५७ ॥
शूर्पारके चतुर्बाहुं पूजयित्वा विधानतः ।
मागधारण्यमासाद्य ददर्श वसुधाधिपम् ॥ ५७।५८ ॥
तमर्चयित्वा विश्वेशं स जगाम प्रजामुखम् ।
महातीर्थे ततः स्नात्वा वासुदेवं प्रणम्य च ॥ ५७।५९ ॥
शोणं शम्प्राप्य सम्पूज्य स्कमवर्माणमीश्वरम् ।
महाकोश्यां महादेवं हंसाख्यं भक्तिमानथ ॥ ५७।६० ॥
पूजयित्वा जगामाथ सैन्धवारण्यमुत्तमम् ।
तत्रेश्वरं सुनेत्राख्यं शङ्खशूलधरं गुरुम् ।
पूजयित्वा महाबाहुः प्रजागाम त्रिविष्टपम् ॥ ५७।६१ ॥
तत्र देवं महेशानं जटाधरमिति श्रुतम् ।
तं दृष्ट्वार्ऽच्य हरिं चासौ तीर्थं कनखलं ययौ ॥ ५७।६२ ॥
तत्रार्च्य भद्रकालीशं वीरभद्रं च दानवः ।
धनाधिपं च मेघङ्कं ययावथ गिरिव्रजम् ॥ ५७।६३ ॥
तत्र देवं पशुपतिं लोकनाथं महेश्वरम् ।
सम्पूजयित्वा पिधिवत्कामरूपं जगाम ह ॥ ५७।६४ ॥
शशिप्रभं देववरं त्रिनेत्रं सम्पूजयित्वा सह वै मृडान्या ।
जगाम तीर्थप्रवरं महाख्यं तस्मिन् महादेवमपूजयत् ॥ ५७।६५ ॥
ततस्त्रिकूटं गिरिमत्रिपुत्रं जगाम द्रष्टुं स हि चक्रपाणिनम् ।
तमीड्य भक्त्या तु गजेन्द्रसोक्षणं जजाप जप्यं परमं पवित्रम् ॥ ५७।६६ ॥
तत्रोष्य दैत्येश्वरसूनुरादरान्मासत्रयं मूलफलाम्बुभक्षी ।
निवेद्य विप्रप्रवरेषु काञ्चनं जगाम घोरं स हि दण्डकं वनम् ॥ ५७।६७ ॥
तत्र दिव्यं महाशाखं वनस्पतिवपुर्धरम् ।
ददर्श पुण्डरीकाक्षं महाश्वापदवारणम् ॥ ५७।६८ ॥
तस्याधस्थात् त्रिरात्रं स महाभागवतो ऽसुरः ।
स्थितः स्थिण्डिलशायी तु पठन् सारस्वतं स्तवम् ॥ ५७।६९ ॥
तस्मात् तीर्थवरं विद्वान् सर्वपापप्रमोचनम् ।
जगाम दानवो द्रष्टुं सर्वपापहरं हरिम् ॥ ५७।७० ॥
तस्याग्रतो जजापासौ स्तवौ पापप्रणाशनौ ।
यौ पुरा भगवान् प्राह क्रोडरूपी जनार्दनः ॥ ५७।७१ ॥
तस्मादथागाद् दैत्येन्द्रः शालग्रामं महाफलम् ।
यत्र सन्निहितो विष्णुश्चरेषु स्थावरेषु च । ।
५७।७२ तत्र सर्वगतं विष्णुं मत्वा चक्रे रतिं बली ।
पूजयन् भगवत्पादौ महाभागवतो मुने ॥ ५७।७३ ॥
इयं तवोक्ता मुनिसङ्घजुष्टा प्रह्लादतीर्थानुगतिः सुपुण्या ।
यत्कीर्त्तनाच्छ्रवणात् स्पर्शनाच्च विमुक्तपापा मनुजा भवन्ति ॥ ५७।७४ ॥

इति श्रीवामनपुराणे सप्तपञ्चाशो ऽध्यायः