नारद उवाच ।
भगवंल्लोकनाथाय विष्णवे विषमेक्षणः ।
किमर्थमायुधं चक्रं दत्तवांल्लोकपूजितम् ॥ ५६।१ ॥
पुलस्त्य उवाच। ।
शृणुष्वावहितो भूत्वा कथामेतां पुरातनीम् ।
चक्रप्रदानसम्बद्धां शिवमाहात्मयवर्धिनीम् ॥ ५६।२ ॥
आसीद् द्विजातिप्रवरो वेदवेदाङ्ङ्गपारगः ।
गृहाश्रमी महाभागो वीतमन्युरिति स्मृतः ॥ ५६।३ ॥
तस्यात्रेयी महाभागो भार्यासीच्छीलसम्मता ।
पतिव्रता पतिप्राणा धर्मशीलेति विश्रुता ॥ ५६।४ ॥
तस्यामस्य महर्षेस्तु ऋतुकालाभिगामिनः ।
सम्बभूव सुतः श्रीमान् उपमन्युरिति समृतः ॥ ५६।५ ॥
तं माता मुनिशार्दूल शालिपिष्टरसेन वै ।
पोषयामास वदती क्षीरमेतत् सुदुर्गता ॥ ५६।६ ॥
सो ऽजानानो ऽथ क्षीरस्य स्वादुतां पय इत्यथ ।
सम्भावनामप्यकरोच्छालिपिष्टरसे ऽपि हि ॥ ५६।७ ॥
स त्वेकदा समं पित्रा कुत्रचिद् द्विजमेश्मनि ।
क्षीरौदनं च बुभुजे सुस्वादु प्राणपुष्टिदम् ॥ ५६।८ ॥
स लब्ध्वानुपमं स्वादं क्षीरस्य ऋषिदारकः ।
मात्रा दत्तं द्वितीये ऽह्नि नादत्ते पिष्टवारि तत् ॥ ५६।९ ॥
रुरोदाथ ततो बाल्यात् पोयऽर्थि चातको यथा ।
तं माता रुदती प्राह बाष्पगद्गदया गिरा ॥ ५६।१० ॥
उमापतौ पशुपतौ शूलधारिणि सङ्करे ।
अप्रसन्ने विरुपाक्षे कुतः क्षीरेण भोजनम् ॥ ५६।११ ॥
यदीच्छसि पयो भोक्तुं सद्यः पुष्टिकरं सुत ।
तदाराधय देवेशं विरूपाक्षं त्रिशूलिनम् ॥ ५६।१२ ॥
तस्मिस्तुष्टे जगद्धाम्नि सर्वकल्याणदायिनि ।
प्राप्यते ऽमृतपायित्वं किं पुनः क्षीरभोजनम् ॥ ५६।१३ ॥
तन्मातुर्वचनं श्रुत्वा वीतमन्युसुतो ऽब्रवीत् ।
को ऽयं विरूपाक्ष इति त्वयाराध्यस्तु कीर्तितः ॥ ५६।१४ ॥
ततः सुतं धर्मशीला धर्माढ्यं वाक्यमब्रवीत् ।
यो ऽयं विरुपाक्ष इति श्रूयतां कथयामि ते ॥ ५६।१५ ॥
आसीन्महासुरपतिः श्रीदाम इति विश्रुतः ।
तेनाक्रम्य जगत्सर्वं श्रीर्नीता स्ववशं पुरा ॥ ५६।१६ ॥
निःश्रीकास्तु त्रयो लोकाः कृतास्तेन दुरात्माना ।
श्रीवत्सं वासुदेवस्य हर्तुमैच्छन्महाबलः ॥ ५६।१७ ॥
तम्स्य दुष्टं भगवानभिप्रायं जनार्दनः ।
ज्ञात्वा तस्य वधाकाङ्क्षी महेश्वरमुपागमत् ॥ ५६।१८ ॥
एतस्मिन्नन्तरे शम्भुर्योगमूर्तिधरो ऽप्ययः ।
तस्थौ हिमाचलप्रस्थमाश्रित्य श्लुक्ष्णभूतलम् ॥ ५६।१९ ॥
अथाभ्येत्य जगन्नाथं सहस्रशिरसं विभुम् ।
आराधयामास हरिः स्वयमात्मानमात्मना ॥ ५६।२० ॥
साग्रं वर्षसहस्रं तु पादाङ्गुष्ठेन तस्तिवान् ।
गृणंस्तत्परमं ब्रह्म योगिज्ञेयमलक्षणम् ॥ ५६।२१ ॥
ततः प्रीतः प्रभुः प्रादाद् विष्णवे परमं वरम् ।
प्रत्यक्षं तैजसं श्रीमान् दिव्यं चक्रं सुदर्शनम् ॥ ५६।२२ ॥
तद् दत्त्वा देवदेवाय सर्वभूतभयप्रदम् ।
कालचक्रनिभं चक्रं शङ्करो विष्णुमब्रवीत् ॥ ५६।२३ ॥
वरायुधो ऽयं देवेश सर्वायुधनिबर्हणः ।
सुदर्शनो द्वादशारः षण्णाभिर्द्वियुगो जवी ॥ ५६।२४ ॥
आरासंस्थास्त्वमी चास्य देवा मासाश्च राशयः ।
शिष्टानां रक्षणार्थाय संस्थिता ऋथवश्च षट् ॥ ५६।२५ ॥
अग्निः सोमस्तथा मित्रो वरुणो ऽथ शचीपतिः ।
इन्द्राग्नी चाप्यथो विश्वे प्रजापतय एव च ॥ ५६।२६ ॥
हनूमांश् चाथ बलावान् देवो धन्वन्तरिस्तथा ।
तपश्चैव तपस्यश्च द्वादशैते प्रतिष्ठिताः ।
चैत्राद्याः फाल्गुनान्ताश्च मासास्तत्र प्रतिष्ठताः ॥ ५६।२७ ॥
त्वमेवमाधाय विभो वरायुधं शत्रुं सुराणां जहि मा विशङ्किथाः ।
अमोघ एषो ऽमरराजडपूजितो धृतो मया नेत्रगतस्तपोबलात् ॥ ५६।२८ ॥
इत्युक्तः शम्भूना विष्णुः भवं वचनमब्रवीत् ।
कथं शम्भो विजानीयाममोघो मोघ एव वा ॥ ५६।२९ ॥
यद्यमोघो विभो चक्रः सर्वत्राप्रतिघस्तव ।
जिज्ञासार्थं तवैवेह प्रक्षेप्स्यामि प्रतीच्छ भोः ॥ ५६।३० ॥
तद्वाक्यं वासुदेवस्य निशम्याह विनाकधृक् ।
यद्येवं प्रक्षिपस्वेति निर्विशङ्केन चेतसा ॥ ५६।३१ ॥
तन्महेशानवचनं श्रुत्वा विष्णुः सुदर्शनम् ।
मुमोच तेजोजिज्ञासुः शङ्करं प्रति वेगवान् ॥ ५६।३२ ॥
मुरारिकरविभ्रष्टं चक्रमभ्येत्य शूलिनम् ।
त्रिधा चकार विश्वेशं यज्ञेशं यज्ञयाजकम् ॥ ५६।३३ ॥
हरं हरिस्त्रिधाभूतं दृष्टवा कृत्तं महाभुजः ।
व्रीडोपप्लुतदेहस्तु प्रणिपातपरो ऽभवत् ॥ ५६।३४ ॥
पादप्रणामावनतं वीक्ष्य दामोदरं भवः ।
प्राह प्रीतिपरः श्रीमानुत्तिष्ठति पुनः पुनः । ।
५६।३५ प्राकृतो ऽयं महाबाहो विकारश्चक्रनेमिना ।
निकृत्तो न स्वरभावो मे सो ऽच्छेद्यो ऽदाह्य एव च ॥ ५६।३६ ॥
तद्यदेतानि चक्रेण त्रीणि भागानि केशव ।
कृतानि तानि पुण्यनि भविष्यन्ति न सशयः ॥ ५६।३७ ॥
हिरण्याक्षः स्मृतो ह्येकः सुवर्णाक्षस्तथा परः ।
तृतीयश्च विरूपाक्षस्त्रयो ऽमी पुण्यदा नृणाम् ॥ ५६।३८ ॥
उत्तिष्ठ गच्छस्व विभो निहन्तुममरार्दनम् ।
श्रीदाम्नि निहते विष्णो नन्दयिष्यन्ति देवताः ॥ ५६।३९ ॥
इत्येवमुक्तो भगवान् हरेम गरुडध्वजः ।
गत्वा सुरगिरिप्रस्थं श्रीदामानं ददर्श ह ॥ ५६।४० ॥
तं दृष्ट्वा देवदर्पघ्नं दैत्यं देववरो हरिः ।
मुमोच चक्रं वेगाढ्यं हतो ऽसीति ब्रुवन्मुहुः ॥ ५६।४१ ॥
ततस्तु तेनाप्रतिपौरुषेण चक्रेण दैत्यस्य शिरो निकृत्तम् ।
सञ्छिन्नसीर्षो निपपात शैलाद् वज्राहतं शैलशिरो यथैव ॥ ५६।४२ ॥
तसमिन् हते देवरिपौ मुरारिरीशं समाराध्य विरूपनेत्रम् ।
लब्ध्वा च चक्रं प्रवरं महायुधं जगाम देवो निलयं पयोनिधिम् ॥ ५६।४३ ॥
सो ऽयं पुत्र निरूपाक्षो देवदेवो महेश्वरः ।
तमाराधय चेत् साधो क्षीरेणोच्छसि भोजनम् ॥ ५६।४४ ॥
तन्मातुर्वचनं श्रुत्वा वीतमन्युसुतो बली ।
तमाराध्य विरूपाक्षं प्राप्तः क्षीरेण भोजनम् ॥ ५६।४५ ॥
एवं तवोक्तं परमं पवित्रं सञ्छेदनं शर्वतनोः पुरा वै ।
तत्तीर्थवर्यं स महासुरो वै समाससादाथ सुपुण्यहेतोः ॥ ५६।४६ ॥
इति श्रीवामनपुराणो ष्ट्पञ्चाशो ऽध्यायः