पुलस्त्य उवाच ।
इरावतीमनुप्राप्य पुण्यां तामृषिकन्यकाम् ।
स्त्रात्वा सम्पूजयामास चैत्राष्टम्यां जनार्दनम् ॥ ५५।१ ॥
नक्षत्रपुरुषं चीर्त्वा व्रतं पुण्यप्रदं शुचिः ।
जगाम स कुरुक्षेत्रं प्रह्लादो दानवेश्वरः ॥ ५५।२ ॥
ऐरावतेन मन्त्रेण चक्रतीर्थं सुदर्शनम् ।
उपामन्त्र्य ततः सस्नौ वेदोक्तविधिना मुने ॥ ५५।३ ॥
उपोष्य क्षणदां भक्त्या पूजियत्वा कुरुध्वजम् ।
कृतशौचौ जगामाथ द्रष्टुं पुरुषकेसरिम् ॥ ५५।४ ॥
स्नात्वा तु देविकायां च नृसिंहं प्रतिपूज्य च ।
तत्रेष्य रजनोमेकां गोकर्णं दानवो ययौ ॥ ५५।५ ॥
तस्मिन् स्नात्वा तथा प्राचीं पूज्येशं विश्वकर्मिणम् ।
प्राचीने चापरे दैत्यो द्रष्टुं कामेश्वरं ययौ ॥ ५५।६ ॥
तत्र स्नात्वा च दृष्ट्वा च पूजयित्वा च शङ्करम् ।
द्रष्टुं ययौ च प्रह्लादः पुण्डरीकं महाम्भसि ॥ ५५।७ ॥
तत्र स्नात्वा च दृष्ट्वा च सन्तर्प्य पितृदेवताः ।
पुण्डरीकं च सम्पूज्य उवास दिवसत्रयम् ॥ ५५।८ ॥
विशाखयूपे तदनु दृष्ट्वा देवं तथाजितम् ।
स्नात्वा तथा कृष्णतीर्थे त्रिरात्रं न्यवसच्छुचिः ॥ ५५।९ ॥
ततो हंसपदे हंसं दृष्ट्वा सम्पूज्य चेश्वरम् ।
जगामासौ पयोष्णायामखण्डं द्रष्टुमीश्वरम् ॥ ५५।१० ॥
स्नात्वा पयोष्ण्याः सलिले पूज्याखण्डं जगत्पतिम् ।
द्रष्टुं जगाम मतिमान् वितस्तायां कुमारिलम् ॥ ५५।११ ॥
तत्र स्नात्वार्ऽच्य देवेशं बालखिल्यैर्मरीचिषैः ।
आराध्यामानं यद्यत्र कृतं पापप्रणाशनम् ॥ ५५।१२ ॥
यत्र सा सुरभिर्देवी स्वसुतां कपिलां शुभाम् ।
देवप्रियार्थमसृजद्धितार्थं जगतस्तथा ॥ ५५।१३ ॥
तत्र देवह्रदे स्नात्वा शम्भुं सम्पूज्य भक्तितः ।
विधिवद्दधि च प्राश्य मणिमन्तं ततो ययौ ॥ ५५।१४ ॥
तत्र तीर्थवरे स्नात्वा प्राजापत्ये महामतिःऽ ददर्श शम्भु ब्रह्माणं देवेशं च प्रजापतिम् ॥ ५५।१५ ॥
विधानतस्तु तान् देवान् पूजयित्वा तपोधन ।
षड्रात्रं तत्र च स्थित्वा जगाम मधुनन्दिनीम् ॥ ५५।१६ ॥
मधुमत्सलिले स्नात्वा देवं चक्रधरं हरम् ।
शूलबाहुं च गोविन्दं ददर्श दनुपुङ्गवः ॥ ५५।१७ ॥
नारद उवाच। ।
किमर्थं भगवान् शम्भुर्दधाराथ सुदर्शनम् ।
शूलं तथा वासुदेवो ममैतद् ब्रूहि पृच्छतः ॥ ५५।१८ ॥
पुलस्त्य उवाच ।
श्रूयतां कथयिष्यामि कथामेतां पुरातनीम् ।
कथयामास यां विष्णुर्भविष्यमनवे पुरा ॥ ५५।१९ ॥
जलोद्भवो नाम महासुरेन्द्रो घोरं स तप्त्वा तप उग्रवीर्यः ।
आराधयामास विरञ्चिमारात् स तस्य तुष्टो वरदो बभूव ॥ ५५।२० ॥
देवासुराणामजयो महाहवे निजैश्च शस्त्रैरमरैरवध्यः ।
ब्रह्मर्षिशापैश्च निरीप्सितार्थो जले च वह्नौ स्वगुणोपहर्त्ता ॥ ५५।२१ ॥
एवम्प्रभावो दनुपुङ्गवो ऽसौ देवान् महर्षीन् नृपतीन् समग्रान् ।
आबाधमानो विचचार भूम्यां सर्वाः क्रिया नाशयदुग्रमूर्तिः ॥ ५५।२२ ॥
ततो ऽमरा भूमिभवाः सभूपाः जग्मुः शरण्यं हरिमीशितारम् ।
तैश्चापि सार्द्ध भगवाञ्जगाम हिमालयं यत्र हरस्त्रिनेत्रः ॥ ५५।२३ ॥
सम्मन्त्र्य देवर्षिहितं च कार्यं मतिं च कृत्वा निधनाय शत्रोः ।
निजायुधानां च विपर्ययं तौ देवाधिपौ चक्रतुरुग्रकर्मिणौ ॥ ५५।२४ ॥
ततश् चासौ दानवो विष्णुशर्वौ समायातौ तज्जिघांसू सुरेशौ ।
मत्वाजेयौ शत्रुभिर्घोररुपौ भयास्तोये निम्नगायां विवेश ॥ ५५।२५ ॥
ज्ञात्वा प्रनष्टं त्रिदिवेन्द्रशत्रुं नदीं विशालां मधुमत्सुपुण्याम् ।
द्वयोः सशस्त्रौ तटयोर्हरीशौ प्रच्छन्नमूर्ती सहसा बभूवतुः ॥ ५५।२६ ॥
जलोद्भवश्चापि जलं विमुच्य ज्ञात्वा गतौ शङ्करवासुदेवौ ।
दिशस्समीक्ष्य भयकातराक्षो दुर्गं हिमाद्रिं च तदारुरोह ॥ ५५।२७ ॥
महीध्रशृङ्गोपरि विष्णुशम्भू चञ्चूर्यमाणं स्वरिपुं च दृष्ट्वा ।
वेगादुभौ दुदुवतुः सशस्त्रौ विष्णुस्त्रिशूली गिरिशश्च चक्री ॥ ५५।२८ ॥
ताभ्यां स दृष्टस्त्रिदशोत्तमाभ्यां चक्रेण शूलेन च बिन्नदेहः ।
पपात शैलात् तपनीयवर्णो यथान्तरिक्षाद् विमला च तारा ॥ ५५।२९ ॥
एवं त्रिशुलं च दधार विष्णुश्चक्रं त्रिनेत्रो ऽप्यरिसूदनार्थम् ।
यत्राघहन्त्री ह्यभवद् वितस्ता हराङ्घ्रिपाताच्छिशिराचलात्तु ॥ ५५।३० ॥
तत्प्राप्य तीर्थं त्रिदशाधिपाभ्यां पूजां च कृत्वा हरिशङ्कराभ्याम् ।
उपोष्य भक्त्या हिमवन्तमागाद् द्रष्टुं गिरीशं शिवविष्णुगुप्तम् ॥ ५५।३१ ॥
तं समभ्यर्च्च विधिवद् दत्त्वा दानं द्विजातिषु ।
विस्तुते हिमवत्पादे भृगुतुङ्गं जगाम सः ॥ ५५।३२ ॥
यत्रेश्वरो देववरस्य विष्णोः प्रादाद्रथाङ्गप्रवरायुधं वै ।
येन प्रचिच्छेद त्रिधैव शङ्करं जिज्ञासमानो ऽस्त्रबलं महात्मा ॥ ५५।३३ ॥
इति श्रीवामनपुराणे पञ्चपञ्चाशो ऽध्यायः