नारद उवाच ।
पुरूरवा द्विजश्रेष्ठ यथा देवं श्रियः पतिम् ।
नक्षत्रपुरुषाख्येन आराधयत तद् वद ॥ ५४।१ ॥
पुलस्त्य उवाच ।
श्रूयतां कथयिष्यामि नक्षत्रपुरुषव्रतम् ।
नक्षत्राङ्गनि देवस्य यानि यानीह नारद ॥ ५४।२ ॥
मूलर्क्षं चरणौ विष्णोर्जङ्घे द्वे रोहिणी स्मृते ।
द्वे जानुनी तथाश्विन्यौ संस्तिते रूपधारिमः ॥ ५४।३ ॥
आषाढं द्वे द्वयं चोर्वोर्गुह्यस्थं फाल्गुनीद्वयम् ।
कटिस्थाः कृत्तिकाश्चैव वासुदेवस्य संस्थिताः ॥ ५४।४ ॥
प्रौष्ठपद्याद्वयं पार्श्वे कुक्षिभ्यां रेवती स्थिता ।
उरःसंस्था त्वनुराधा श्रविष्ठा पृष्ठसंस्थिता ॥ ५४।५ ॥
विशाखा भुजयोर्हस्तः करद्वयमुदाहृतम् ।
पुनर्वसुरथाङ्गुल्यो नखाः सार्पं तथोच्यते ॥ ५४।६ ॥
ग्रीवास्थैता तथा ज्येष्ठा श्रवणं कर्णयोः स्थितम् ।
मुखसंस्थस्तथा पुष्यः स्वातिर्दन्ताः प्रकीर्तिताः ॥ ५४।७ ॥
हनू द्वे वारुणश्चोक्तो नासा पैत्र उदाहृतः ।
मृगशीर्षं नयनयो रूपधारिणि तिष्ठति ॥ ५४।८ ॥
चित्रा चैव ललाटे तु भरणी तु तथा शिरः ।
शिरोरुहस्था चैवार्द्रा नक्षत्राङ्गमिदं हरेः ॥ ५४।९ ॥
विधानं सम्प्रवक्ष्यामि यथायोगेन नारद ।
सम्पूजितो हरिः कामान् विदधाति यथेप्सितान् ॥ ५४।१० ॥
चैत्रमासे सिताष्टम्यां यदा मूलगतः शशी ।
तदा तु भगवत्पादौ पूजयेत् तु विधानतः ।
नक्षत्रसन्निधौ दद्याद् विप्रेन्द्राय च भोजनम् ॥ ५४।११ ॥
जानुनी चाश्विनीयोगे पूजयेदथ भक्तितः ।
दोहदे च हविष्यान्नं पूर्ववद् द्विजभोजनम् ॥ ५४।१२ ॥
आषाढाभ्यां तथा द्वाभ्यां द्वावूरू पूजयेद् बुधः ।
सलिलं शिशिरं तत्र दोहदे च प्रकीर्तितम् ॥ ५४।१३ ॥
फाल्गुनीद्वितये गुह्यं पूजनीयं विचक्षणैः ।
दोदहे च पयो गव्यं देयं च द्विजभोजनम् ॥ ५४।१४ ॥
कृत्तिकासु कटिः पूज्या सोपवासो जितेन्द्रियः ।
देयञ्च दोहदं विष्णोः सुगन्धकुसुमोदकम् ॥ ५४।१५ ॥
पार्श्वे भाद्रपदायुग्मे पूजयित्वा विधानतः ।
गुडं सलेहकं दद्याद् दोहदे देवकीर्तितम् ॥ ५४।१६ ॥
द्वे कुक्षी रेवतीयोगे दोहदे मुद्गमोदकाः ।
अनुराधासु जठरं षष्ठिकान्नं च दोहदे ॥ ५४।१७ ॥
श्रविष्ठायां तथा पृष्ठं सालिभक्तं च दोहदे ।
भुजयुग्मं विशाखासु दोहदे परमोदनम् ॥ ५४।१८ ॥
हस्ते हस्तौ तथा पूज्यौ यावकं दोहदे स्मृतम् ।
पुनर्वसावङ्गुलीश्च पटोलस्तत्र दोहदे ॥ ५४।१९ ॥
आश्लेषासु नखान् पूज्य दोहदे तित्तिरामिषम् ।
ज्येष्ठायां पूजयेद् ग्रीवां दोहदे तिलमोदकम् ॥ ५४।२० ॥
श्रवणे श्रवणौ पूज्यौ दधिभक्तं च दोहदे ।
पुष्ये मुखं पूजयेत दोहदे घृतपायसम् ॥ ५४।२१ ॥
स्वातियोगे च दशना दोहदे तिलशष्कुली ।
दातव्या केशवप्रीत्यै ब्रह्मणस्य च भोजनम् ॥ ५४।२२ ॥
हनू शतभिषायोगे पूजयेच्च प्रयत्नतः ।
प्रियङ्गुरक्तशाल्यन्नं दोहदं मधुविद्विषः ॥ ५४।२३ ॥
मघासु नासिका पूज्या मधु दद्याच्च दोहदे ।
मृगोत्तमाङ्गे नयने मृगमांसं च दोहदे ॥ ५४।२४ ॥
चित्रायोगे ललाटं च दोहदे चारुभोजनम् ।
भरणीषु शिरः पूज्यं चारु भक्तं च दोहदे ॥ ५४।२५ ॥
सम्पूजनीया विद्वद्भिरार्द्रायोगे शिरोरुहाः ।
विप्रांश्च भोजयेद् भक्तया दोहदे च गुडार्द्रकम् ॥ ५४।२६ ॥
नक्षेत्रयोगेष्वेतेषु सम्पूज्य जगतः पतिम् ।
पारिते दक्षिणान्दद्यात् स्त्रीपुंसोश्चारुवाससी ॥ ५४।२७ ॥
छत्रोपानत्श्वेतयुगं सप्त धान्यानि काञ्चनम् ।
घृतपात्रं च मतिमन् ब्राह्मणाय निवेदयेत् ॥ ५४।२८ ॥
प्रतिनक्षत्रयोगेन पूजनीया द्विजातयः ।
नक्षत्रमय एवैष पुरुषः शाश्वतो मतः ॥ ५४।२९ ॥
नक्षत्रपुरुषाख्यं हि व्रतानामुत्तमं व्रतम् ।
पूर्वं कृतं हि भृगुणा सर्वपातकनाशनम् ॥ ५४।३० ॥
अङ्गोपाङ्गानि देवर्षे पूजयित्वा जगद्गुरोः ।
सुरूपाम्यभिजायन्ते प्रत्यङ्गङ्गानि चैव हि ॥ ५४।३१ ॥
सप्तजन्मकृतं पापं कुलसङ्गागतं च यत् ।
पितृमातृसमुत्थं च तत्सर्वं हन्ति केशवः ॥ ५४।३२ ॥
सर्वाणि भद्राण्याप्नोति शरीरारोग्यमुत्तमम् ।
अनन्तां मनसः प्रीतिं रूपं चातीव शोभनम् ॥ ५४।३३ ॥
वाङ्माधुर्यं तथा कान्ति यच्चान्यदभिवाञ्छितम् ।
ददाति नक्षत्रपुमान् पूजितस्तु जनार्दनः ॥ ५४।३४ ॥
उपोष्य सम्यगेतेषु क्रमेणर्क्षेषु नारद ।
अरुन्धती महाभागा ख्यातिमग्र्यां जगाम ह ॥ ५४।३५ ॥
आदित्यस्तनयार्थाय नक्षत्राङ्गं जनार्दनम् ।
सम्पूजयित्वा गोविन्दं रेवन्तं पुत्रमाप्तवान् ॥ ५४।३६ ॥
रम्भा रूपमवापाग्र्यं वाङ्माधुर्यं च मेनका ।
कान्ति विधुरवापाग्र्यां राज्यं राजा पूरूवाः ॥ ५४।३७ ॥
एवं विधानतो ब्रह्मन्नक्षत्राङ्गो जनार्दनः ।
पूजितो रूपधारी यैस्तैः प्राप्ता तु सुकामिता ॥ ५४।३८ ॥
एतत् तवोक्तं परमं पवित्रं धन्यं यशस्यं शुभरूपदायि ।
नक्षत्रपुंसः परमं विधानं शृणुष्व पुण्यामिह तीर्थयात्राम ॥ ५४।३९ ॥
इति श्रीवामनपुराणे चतुष्पञ्चाशो ऽध्यायः