पुलस्त्य उवाच ।
कालिन्दीसलिले स्नात्वा पूजयित्वा त्रिविक्रमम् ।
उपोष्य रजनीमेकां लिङ्गभेदं गिरिं ययौ ॥ ५३।१ ॥
तत्र स्नात्वा च विमले भवं दृष्ट्वा च भक्तितः ।
उपोष्य रजनीमेकां तीर्थं केदारमाव्रजत् ॥ ५३।२ ॥
तत्र स्नात्वार्ऽच्य चेशानं माधवं चाप्यभेदतः ।
उषित्वा वासरान् सप्त कुब्जाम्रं प्रजगाम ह ॥ ५३।३ ॥
ततः सुतीर्थे स्नात्वा च सोपवासी जितेन्द्रियः। हृषीकेशं समभ्यर्च्य ययौ बदरिकाश्रमम् ॥ ५३।४ ॥
तत्रोष्य नारायणमर्च्य भक्त्या स्नात्वाथ विद्वान् स सरस्वतीजले ।
वराहतीर्थे गरुडासनं स दृष्ट्वाथ सम्पूज्य सुभक्तिमांश्च ॥ ५३।५ ॥
भद्रकर्णे ततो गत्वा जयेशं शशिशेखरम् ।
दृष्ट्वा सम्पूज्य च शिवं विपाशामभितो ययौ ॥ ५३।६ ॥
तस्यां स्नात्वा समभ्यर्च्य देवदेवं द्विजप्रियम् ।
उपवासी इरावत्यां ददर्श परमेश्वरम् ॥ ५३।७ ॥
यमाराध्य द्विजश्रेष्ठ शाकले वै पुरूरवाः ।
समवाप परं रूपमैश्वर्य च सुदुर्लभम् ॥ ५३।८ ॥
कुष्ठरोगाभिभूतश्च यं समाराघ्य वै भृगुः ।
आरोग्यमतुलं प्राप सन्तानमपि चाक्षयम् ॥ ५३।९ ॥
नारद उवाच ।
कथं पुरूरवा विष्णुमाराघ्य द्विजसत्तम ।
विरूपत्वं समुत्सृज्य रूपं प्राप श्रिया सह ॥ ५३।१० ॥
पुलस्त्य उवाच ।
श्रूयतां कथयिष्यामि कथां पापुप्रणाशिनीम् ।
पूर्वं त्रेतायुगस्यादौ यथावृत्तं तपोधन ॥ ५३।११ ॥
मद्रदेश इति ख्यातो देशो वै ब्रह्मणः सुत ।
शाकलं नाम नगरं ख्यातं स्थानीयमुत्तमम् ॥ ५३।१२ ॥
तस्मिन् विपणिवृत्तिस्थः सुधर्माख्यो ऽभवद् वणिक् ।
धनाढ्यो गुणवान् भोगी नानासास्त्रविशारदः ॥ ५३।१३ ॥
स त्वेकदा निजाद् राष्ट्रात् सुराष्ट्रं गन्तुमद्यतः ।
सार्थेन महता युक्तो नानाविपणपण्यवान् ॥ ५३।१४ ॥
गच्छतः पथि तस्याथ मरुभूमौ कलिप्रिय ।
अभवद् दस्युतो रात्रौ अवस्कन्दो ऽतिदुःसहः ॥ ५३।१५ ॥
ततः स हृतसर्वस्वो वणिग् गुःखसमन्वितः ।
असहायो मरौ तस्मिंश् चचारोन्मत्तवद् वशी ॥ ५३।१६ ॥
चरता तदरण्यं वै दुःखाक्रान्तेन नारद ।
आत्मा इव शमीवृक्षो मरावासादितः शुभः ॥ ५३।१७ ॥
तं मृगौः पिक्षिक्षिश्चैव हीनं दृष्ट्वा शमीतरुम् । श्रान्तः क्षुत्तृट्परीतात्मा तस्याधः समुपाविशत् ॥ ५३।१८ ॥
सुप्तश्चापि सुविश्रान्तो मध्याह्ने पुनरुत्यितः ।
समपश्यदथायान्तं प्रेतं प्रेतशतैर्वृतम् ॥ ५३।१९ ॥
उद्वाह्यन्तमथान्येन प्रेतेन प्रेतनायकम् ।
पिण्डाशिभिश्च पुरतो धावद्भी रूक्षविग्रहैः ॥ ५३।२० ॥
अथाजगाम प्रेतो ऽसौ पर्यटित्वा वनानि च ।
उपागम्य शमीमूले वणिक्पुत्रं ददर्श सः ॥ ५३।२१ ॥
स्वागतेनाभिवाद्यैनं समाभाष्य परस्परम् ।
सुखोपविष्टश्छायायां पृष्ट्वा कुशलमाप्तवान् ॥ ५३।२२ ॥
ततः प्रेताधिपतिना पृष्टः स तु वणिक्सखः ।
कुत आगम्यते ब्रूहि क्व साधो वा गमिष्यसि ॥ ५३।२३ ॥
कथं चेदं महारण्यं मृगपक्षिविवर्जितम् ।
समापन्नो ऽसि भद्रं ते सर्वमाख्यातुमर्हसि ॥ ५३।२४ ॥
एवं प्रेताधिपतिना वणिक् पृष्टः समासतः ।
सर्वमाख्यातवान् ब्रह्मन् स्वदेशधनविच्युतिम् ॥ ५३।२५ ॥
तस्य श्रुत्वा स वृत्तान्तं तस्य दुःखेन दुःखितः ।
वमिक्पुत्रं ततः प्राह प्रेतपालः स्वबन्धुवत् ॥ ५३।२६ ॥
एवं गते ऽपि मा शोकं कर्तुमर्हसि सुव्रत ।
भूयो ऽप्यर्थाः भविष्यन्ति यदि भाग्यबलं तव ॥ ५३।२७ ॥
भाग्यक्षयेर्ऽथाः क्षीयन्ते भवन्त्यभ्युदये पुनः ।
क्षीणस्यास्य शरीरस्य चिन्तया नोदयो भवेत् ॥ ५३।२८ ॥
इत्युच्चार्य समाहूय स्वान् भृत्यान् वाक्यमब्रवीत् ।
अद्यातिथिरयं पूज्यः सदैव स्वजनो मम ॥ ५३।२९ ॥
अस्मिन् समागते प्रेताः प्रीतिर्जाता ममातुला ॥ ५३।३० ॥
एवं हि वदतस्तस्य मृत्पात्रं सुदृढं नवम् ।
दध्योदनेन सम्पूर्णमाजगाम यथेप्सितम् ॥ ५३।३१ ॥
तथा नवा च सुदृढा सम्पूर्णा परमाम्भसा ।
वारिधानी च सम्प्राप्ता प्रेतानामग्रतः स्थिता ॥ ५३।३२ ॥
तमागतं ससलिलमन्नं वीक्ष्य महामतिः ।
प्राहोत्तिष्ठ वणिक्पुत्र त्वमाह्निकमुपाचर ॥ ५३।३३ ॥
ततस्तु वारिधान्यास्तौ सलिलेन विधानतः ।
कृताह्निकावुभौ जातौ वणिक् प्रेतपतिस्तथा ॥ ५३।३४ ॥
ततो वणिक्सुतायादौ दध्योदनमथेच्छया ।
दत्त्वा तेभ्यश्च सर्वेभ्यः प्रेतेभ्यो व्यददात् ततः ॥ ५३।३५ ॥
भुक्तवत्सु च सर्वेषु कामतो ऽम्भसि सेविते ।
अनन्तरं सबुभुजे प्रेतपालो बराशनम् ॥ ५३।३६ ॥
प्रकामतृप्ते प्रेत च वारिधान्योदनं तथा ।
अन्तर्धानमगाद् ब्रह्मन् वणिक्पुत्रस्य पश्यतः ॥ ५३।३७ ॥
ततस्तदद्भुततमं दृष्ट्वा स मतिमान् वणिक् ।
पप्रच्छ तं प्रेतपालं कौतूहलमना वशी ॥ ५३।३८ ॥
अरण्ये निर्जने साधो कुतो ऽन्नस्य समुद्भवः ।
कुतश्च वारिधानीयं सम्पूर्णा परमाम्भसा ॥ ५३।३९ ॥
तथामी तव ये भृत्यास्त्वत्तस्ते वर्मतः कृशाः ।
भवानपि च तेजस्वी किञ्चित्पुष्टवपुः शुभः ॥ ५३।४० ॥
शुक्लवस्त्रपरीधानो बहूनां परिपालकः ।
सर्वमेतन्ममाचक्ष्व को भवान् का शमी त्वियम् ॥ ५३।४१ ॥
इत्थं वणिक्सुतवचः श्रुत्वासौ प्रेतनायकः ।
शशम्स सर्वमस्याद्यं यथावृत्तं पुरातनम् ॥ ५३।४२ ॥
अहमासं पुरा विप्रः शाकले नगरोत्तमे ।
सोमशर्मेति विख्यातो बहुलागर्भसम्भवः ॥ ५३।४३ ॥
ममास्ति च वणिक् श्रीमान् प्राति वेश्यो महाधनः ।
स तु सोमश्रवा नाम विष्णुभक्तो महायशाः ॥ ५३।४४ ॥
सो ऽहं कदर्यो मूढात्मा धने ऽपि सति दुर्मतिः ।
न ददामि द्विजातिभ्यो न चाश्नाम्यन्नमुत्तमम् ॥ ५३।४५ ॥
प्रमादाद् यदि भुञ्जामि दधिक्षीरघृतान्वितम् ।
ततो रात्रौ नृभिर् घोरैस्ताड्यते मम विग्रहः ॥ ५३।४६ ॥
प्रातर्भवति मे घोरा मृत्युतुल्या विषूचिका ।
न च कश्चिन्माभ्यासे तत्र तिष्ठति बान्धवः ॥ ५३।४७ ॥
कथं कथमपि प्राणा मया सम्प्रतिधारिताः ।
एवमेतादृशः पापी निवसाम्यतिनिर्घृणः ॥ ५३।४८ ॥
सौवीरतिलपिण्याकसक्तुशाकादिभोनैः ।
क्षपयामि कदन्नाद्यैरात्मानं कालयापनैः ॥ ५३।४९ ॥
एवं तत्रासतो मह्यं महान् कालो ऽभ्यगादथ ।
श्रवणद्वादशी नाम मासि भाद्रपदे ऽभवत् ॥ ५३।५० ॥
ततो नागरिको लोको गतः स्नातुं हि सङ्गमम् ।
इरावत्या नड्वलाया ब्रह्मक्षत्रपुरस्सरः ॥ ५३।५१ ॥
प्रातिवेश्यप्रसङ्गेन तत्राप्यनुगतो ऽस्म्यहम् ।
कृतोपवासः शुचिमानेकादश्यां यतव्रतः ॥ ५३।५२ ॥
ततः सङ्गमतोयेन वारिधानीं दृढां नवाम् ।
सम्पूर्णां वस्तुसंवीतां छत्रोपानहसंयुताम् ॥ ५३।५३ ॥
सृत्पात्रमपि मिष्टस्य पूर्णं दध्योदनस्य ह ।
प्रदत्तं ब्राह्मणेन्द्राय शुचये ज्ञानधर्मिणे ॥ ५३।५४ ॥
तदेव जीवता दत्तं मया दानं वणिक्सुत ।
वर्षाणां सप्ततीनां वै नान्यद् दत्तं हि किञ्चन ॥ ५३।५५ ॥
मृतः प्रेतत्वमापन्नो दत्त्वा प्रेतान्नमेव हि ।
अमी चादत्तदानास्तु मदन्नेनोपजीविनः ॥ ५३।५६ ॥
एतते कारणं प्रोक्तं यत्तदन्नं मयाम्भसा ।
दत्तं तदिदमायाति मध्याह्ने ऽपि दिने दिने ॥ ५३।५७ ॥
यावन्नाहं च भुञ्जामि न तावत् क्षयमेति वै ।
मयि भुक्ते च पीते च सर्वमन्तर्हितं भवेत् ॥ ५३।५८ ॥
यच्चातपत्रमददं सो ऽयं जातः शमीतरुः ।
उवानद्युगले दत्ते प्रेतो मे वाहनो ऽभवत् ॥ ५३।५९ ॥
इयं तोवक्ता धर्मज्ञ मया कीनाशतात्मनः ।
श्रवणद्वादशीपुण्यं तवोक्यं पुणयवर्धरम् ॥ ५३।६० ॥
इत्येवमुक्ते वचने वणिक्पुत्रो ऽब्रवीद् वचः ।
यन्मया तात कर्त्तव्यं तदनुज्ञातुमर्हसि ॥ ५३।६१ ॥
तत् तस्य वचनं श्रुत्वा वणिक्पुत्रस्य नारद ।
प्रेतपालो वचः प्राह स्वार्थसिद्धिकरं ततः ॥ ५३।६२ ॥
यत् त्वया तात कर्त्तव्यं मद्धितार्थं महामते ।
कथयिष्यामि तत् सम्यक् तव श्रेयस्करं मम ॥ ५३।६३ ॥
गयायां तीर्थजुष्टायां स्नात्वा शौचसमन्वितः ।
मम नाम समुद्दिश्य पिण्डनिर्वपणं कुरु ॥ ५३।६४ ॥
तत्र पिण्डप्रदानेन प्रेतभावादहं सखे ।
मुक्तस्तु सर्वदातृणां यास्यामि सहलोकताम् ॥ ५३।६५ ॥
यथेयं द्वादशी पुण्या मासि प्रौष्ठपदे सिता ।
बुधश्रवणसंयुक्ता सातिश्रेयस्करी स्मृता ॥ ५३।६६ ॥
इत्येवमुक्त्वा वणिजं प्रेतराजो ऽनुगैः सह ।
स्वनामानि यथान्यायं सम्यगाख्यातवाञ्छुचिः ॥ ५३।६७ ॥
प्रेतस्कन्धे समारोप्य त्याजितो मरुमण्डलम् ।
रम्ये ऽथ शूरसेनाख्ये देशे प्राप्तः स वै वणिक् ॥ ५३।६८ ॥
स्वकर्मधर्मयोगेन धनमुच्चावचं बहु ।
उवार्जयित्वा प्रययौ गयाशीर्षमनुत्तमम् ॥ ५३।६९ ॥
पिण्डनिर्वपणं तत्र प्रेतानामनुपूर्वशः ।
चकार स्वपितॄणां च दायादानामनन्तरम् ॥ ५३।७० ॥
आत्मनश्च महाबुद्धिर्महाबोध्यं तिलैर्विना ।
पिण्डनिर्वपणं चक्रे तथान्यानपि गोत्रजान् ॥ ५३।७१ ॥
एवं प्रदत्तेष्वथ वै पिण्डेषु प्रेतभावतः ।
विमुक्तास्ते द्विज प्रेता ब्रह्मलोकं ततो गताः ॥ ५३।७२ ॥
स चापि हि वणिक्पुत्रो निजमालयमाव्रजत् ।
श्रवणद्वादशीं कृत्वा कालधर्ममुपेयिवान् ॥ ५३।७३ ॥
गन्धर्वलोके सुचिरं भोगान् भुक्त्वा सुदुर्लभान् ।
मानुष्यं जन्ममासाद्य स बभौ शाकले विराट् ॥ ५३।७४ ॥
स्वधर्मकर्मवृत्तिस्थः श्रवणद्वादशीरतः ।
कालधर्ममवाप्यासौ गुह्यकावासमाश्रयत् ॥ ५३।७५ ॥
तत्रोष्य सुचिरं कालं भोगान् भुक्त्वाथ कामतः ।
मर्त्यलोकमनुप्राप्य राजन्यतनयो ऽभवत् ॥ ५३।७६ ॥
तत्रापि क्षत्रवृत्तिस्थो दानभोगरतो वशी ।
गोग्रहे ऽरिगणाञ्जित्वा कालधर्ममुपेयिवान् ।
शक्रलोकं स सम्प्राप्य देवैः सर्वैः सुपूजितः ॥ ५३।७७ ॥
पुण्यक्षयात् परिभ्रष्टः शाकले सो ऽभवद् द्विजः ।
ततो विकटरूपो ऽसौ सर्वशास्त्रार्थपारगः ॥ ५३।७८ ॥
विवाहयद् द्विजसुतां रूपेणानुपमां द्विज ।
सावमेने च भर्त्तारं सुशीलमपि भामिनी ॥ ५३।७९ ॥
विरूपमिति मन्वाना ततस्सोभूत् सुदुःखितः ।
ततो निर्वेदसंयुक्तो गत्वाश्रमपदं महत् ॥ ५३।८० ॥
इरावत्यास्तटे श्रीमान् रूपधारिणमासदत् ।
तमाराध्य जगन्नाथं नक्षत्रपुरुषेण हि ॥ ५३।८१ ॥
सुरूपतामवाप्याग्र्यां तस्मिन्नेव च जन्मनि ।
ततः प्रियो ऽभूद् भार्याया भोगवांश्चाभवद् वशी ।
श्रवणद्वादशीभक्तः पूर्वाभ्यासादजायत ॥ ५३।८२ ॥
एवं पुरासौ द्विजपुङ्गवस्तु कुरूपरूपो भगवत्प्रसादात् ।
अनङ्गरूपप्रतिमो बभूव मृश्च राजा स पुरूरवाभूत् ॥ ५३।८३ ॥
इति श्रीवामनपुराणे त्रिपञ्चाशो ऽध्यायः