५२

नारद उवाच ।
कानि तीर्थानि विप्रेन्द्र प्रह्लादो ऽनुजगाम ह ।
प्रह्लादतीर्थयात्रां मे सम्यगाख्यातुमर्हसि ॥ ५२।१ ॥
पुलस्त्य उवाच ।
शृणुष्व कथयिष्यामि पापपङ्कप्रणाशिनीम् ।
प्रह्लादतीर्थयात्रां ते शुद्धपुण्यप्रदायिनीम् ॥ ५२।२ ॥
सन्त्यज्य मेरुं कनकाचलेन्द्रं तीर्थं जगामामरसङ्घजुष्टम् ।
ख्यातं पृतिव्यां शुभदं हि मानसं यत्र स्थितो मत्स्यवपुः सुरेशः ॥ ५२।३ ॥
तस्मिंस्तीर्थवरे स्नात्वा सन्तर्प्य पितृदेवताः ।
सम्पूज्य च जगन्नाथमच्युतं श्रुतिभिर्युतम् ॥ ५२।४ ॥
उपोष्य भूयः सम्पूज्य देवर्षिपितृमानवान् ।
जगाम कच्छपं द्रष्टुं कौशिक्यां पापनाशनम् ॥ ५२।५ ॥
तस्यां स्नात्वा महानद्यां सम्पूज्य च जगत्पतिम् ।
समुपोष्य शुचिर्भूत्वा दत्वा विप्रेषु दक्षिणाम् ॥ ५२।६ ॥
नमस्कृत्य जगन्नाथमथो कूर्मवपुर्धरम् ।
ततो जगाम कृष्णाख्यं द्रष्टुं वाजिमुखं प्रभुम् ।
तत्र देवह्रदे स्नात्वा तर्पयित्वा पितॄन् सुरान् ॥ ५२।७ ॥
सम्पूज्य हयशीर्षं च जगाम गजसाह्वयम् ।
तत्र देवं जगन्नाथं गोविन्दं चक्रपाणिनम् ॥ ५२।८ ॥
स्नात्वा सम्पूज्य विधिवत् जगाम यमुनां नीम् ।
तस्यां स्नातः शुचिर्भूत्वा सन्तर्प्यार्षिसुरान् पितॄन् ।
ददर्श देवदेवेशं लोकनाथं त्रिविक्रमम् ॥ ५२।९ ॥
नारद उवाच ।
साम्प्रतं भगवान् विष्णुस्त्रैलोक्याक्रमणं वपुः ।
करिष्यति जगत्स्वामी बलेर्बन्धनमीश्वरः ॥ ५२।१० ॥
तत्कथं पूर्वकाले ऽपि विभुरासीत् त्रिविक्रमः ।
कस्य वा बन्धनं विष्णुः कृतवांस्तच्च मे वद ॥ ५२।११ ॥
पुलस्त्य उवाच ।
श्रूयतां कथियिष्यामि यो ऽयं प्रोक्तस्त्रिविक्रमः ।
यस्मिन् काले सम्बभूव यं च वञ्चितवानसौ ॥ ५२।१२ ॥
आसीद् धुन्धुरिति ख्यातः कश्यपस्यौरसः सुतः ।
दनुगर्भसमुद्भूतो माबलपराक्रमः ॥ ५२।१३ ॥
स समाराद्य वरदं ब्रह्माणं तपसासुरः ।
अवध्यत्वं सुरैः सेन्द्रैः प्रार्थयत् स तु नारद ॥ ५२।१४ ॥
तद् वरं तस्य च प्रादात् तपसा पङ्कजोद्भवः ।
परितुष्टः स च बली निर्जगाम त्रिविष्टपम् ॥ ५२।१५ ॥
चतुर्थस्य कलेरादौ जित्वा देवान् सवासवान् ।
धुन्धुः शक्रत्वमकरोद्धिरण्यकशिपौ सति ॥ ५२।१६ ॥
तस्मिन् काले स बलवान् हिरण्यकशिपुस्ततः ।
चचार मन्दरगिरौ दैत्यं धुन्धुं समाश्रितः ॥ ५२।१७ ॥
ततो ऽसुरा यथा कामं विहरन्ति त्रिविष्टपे ।
ब्रह्मलोके च त्रिदशाः संस्थिता दुःखसंयुताः ॥ ५२।१८ ॥
ततो ऽमरान् ब्रह्मसदो निवासिनः श्रुत्वाथ धुन्धुर्दितिजानुवाच ।
ब्रजाम दैत्य वयमग्रजस्य सदो विजेतुं त्रिदशान् सशक्रान् ॥ ५२।१९ ॥
ते धुन्धुवाक्यं तु निशम्य दैत्याः प्रोचुर्न नो विद्यति लोकपाल ।
गतिर्यया याम पितामहाजिरं सुदुर्गमो ऽयं परतो हि मार्गः ॥ ५२।२० ॥
इतः सहस्रैर्बहुयोजनाख्यैर्लोको महर्नाम महर्षिजुष्टः ।
येषां हि दृष्ट्यार्ऽपणचोदितेन दह्यन्ति दैत्याः सहसेक्षितेन ॥ ५२।२१ ॥
ततो ऽपरो योजनकोटिना वै लोको जनो नाम वस्न्ति यत्र ।
गोमातरो ऽस्मासु विनाशकारि यासां रजो ऽपीह महासुरेन्द्र ॥ ५२।२२ ॥
ततो ऽपरो योजनकोटिभिस्तु षड्भिस्तपो नाम तपस्विजुष्टः ।
तिष्ठन्ति यत्रासुर साध्यवर्या येषां हि नश्वासमरुत् त्वसह्यः ॥ ५२।२३ ॥
ततो ऽपरो योजनकोटिभिस्तु त्रिंशद्भिरादित्यसहस्रदीप्तिः ।
सत्याभिधानो भगवन्निवासो वरप्रदो ऽभुद् भवतो हि यो ऽसौ ॥ ५२।२४ ॥
यस्य वेदध्वनिं श्रुत्वा विकसन्ति सु रादयः ।
सङ्कोचमसुरा यान्ति ये च तेषां सधर्मिणः ॥ ५२।२५ ॥
तस्मान्मा त्वं महाबाहो मतिमेतां समादधः ।
वैराजभुवनं धुन्धो दुरारोहं सदा नृभिः ॥ ५२।२६ ॥
तेषां वचनमाकर्ण्य धुन्धुः प्रोवाच दानवान् ।
गन्तुकामः स सदनं ब्रह्मणो जेतुमीश्वरान् ॥ ५२।२७ ॥
कथं तु कर्मणा केन गम्यते दानवर्षभाः ।
कथं तत्र सहस्राक्षः सम्प्राप्तः सह दैवतैः ॥ ५२।२८ ॥
ते धुन्धुना दानवेन्द्राः पृष्टाः प्रोचुर्वचो ऽधिपम् ।
कर्म तन्न वयं विद्मः शुक्रस्तद् वेत्त्यसंशयम् ॥ ५२।२९ ॥
दैत्यानां वचनं श्रुत्वा धुनधुर्दैत्यपुरोहितम् ।
पप्रच्छ शुक्रं किं कर्म कृत्वा ब्रह्मसदोगतिः ॥ ५२।३० ॥
ततो ऽस्मै कथयामास दैत्यचार्यः कलिप्रिय ।
शक्रस्य चरितं श्रीमान् पुरा वृत्ररिपोः किल ॥ ५२।३१ ॥
शक्रः शतं तु पुण्यानां क्रोतूनामजयत् पुरा ।
दैत्येन्द्र वाजिमेधानां तेन ब्रह्मसदो गतः ॥ ५२।३२ ॥
तद्वाक्यं दानवपतिः श्रुत्वा शुक्रस्य वीर्यवान् ।
यष्टुं तुरगमेधानां चकार मतिमुत्तमाम् ।
अथामन्त्र्यासुरगुरुं दानवांश्चाप्यनुत्तमान् ॥ ५२।३३ ॥
प्रोवाच यक्ष्ये ऽहं यज्ञैरश्वमेधैः सदक्षिमैः ।
तदागच्छध्वमवनीं गच्छामो वसुधाधिपान् ॥ ५२।३४ ॥
विजित्य हयमेधान् वै यथाकामगुणन्विनतान् ।
आहूयन्तां च निधयस्त्वाज्ञाप्यनातां च गुह्यकाः ॥ ५२।३५ ॥
आमन्त्र्यन्तां च ऋषयः प्रयामो देविकाटतम् ।
सा हि पुण्या सरिच्छ्रेष्ठ सर्वसिद्धिकरी शुभा ।
स्थानं प्राचीनमासाद्य वाजिसेधान् यजामहे ॥ ५२।३६ ॥
इत्थं सुरारेर्वचनं निशम्यासुरयाजकः ।
बाढमित्यब्रवीद् हृष्टो निधयः सन्दिदेश सः ॥ ५२।३७ ॥
ततो धुन्धुर्देविकायाः प्राचीने पापनाशने ।
भार्गवेन्द्रेण शुक्रेण वाजिमेधाय दीक्षितः ॥ ५२।३८ ॥
सदस्या ऋत्विजश्चापि तत्रासन् भार्गवा द्विजाः ।
शुक्रस्यानुमते ब्रह्मन् शुक्रशिष्याश्च पण्यिताः ॥ ५२।३९ ॥
यज्ञभागभुजस्तत्र स्वर्भानुप्रमुखा मुने ।
कृताश्चासुरनाथेन शुक्रस्यानुमते ऽसुराः ॥ ५२।४० ॥
ततः प्रवृत्तो यज्ञस्तु समुत्सृष्टस्तथा हयः ।
हयस्यानु ययौ श्रीमानसिलोमा महासुरः ॥ ५२।४१ ॥
ततो ऽग्निधूमेन मही सशैला व्याप्ता दिशः खं विदिशश्च पूर्णाः ।
तेनोग्रगन्धेन दिवस्पृसेन मरुद् ववौ ब्रह्मलोके महर्षे ॥ ५२।४२ ॥
तं गन्धमाघ्राय सुरा विषण्णा जानन्त धुन्धुं हयमेधदीक्षितम् ।
ततः शरण्यं शरणं जनार्धनं जग्मुः सशक्रा जगातः परयणम् ॥ ५२।४३ ॥
प्रणम्य वरदं देवं पद्मनाभं जनार्दनम् ।
प्रोचुः सर्वे सुरगणा भयगद्गदया गिरा ॥ ५२।४४ ॥
भगवन् देवदेवेश चराचरपरायण ।
विज्ञप्तिः श्रूयतां विष्णो सुराणामार्तिनाशन ॥ ५२।४५ ॥
धुन्धुर्नामासुरपतिर्बलवान् वरबृंहितः ।
सर्वान् सुरान् विनिर्जित्य त्रैलोक्यमहारद् बलिः ॥ ५२।४६ ॥
ऋते पिनाकिनो देवात् त्रात्ऽस्मान् न यतो हरे ।
अतो विवृद्धिमगमद् यथा व्याधिरुपेक्षितः ॥ ५२।४७ ॥
साम्प्रतं ब्रह्मलोकस्थानपि जेतुं समुद्यतः ।
शुक्रस्य मतमास्ताय सो ऽश्वमेधाय दीक्षितः ॥ ५२।४८ ॥
शतं क्रतूनामिष्ट्वासौ ब्रह्मलोकं महासुरः ।
अरोढुमिच्छति वशी विजेतुं त्रिदशानपि ॥ ५२।४९ ॥
तस्मादकालहीनं तु चिन्तयस्व जगद्गुरो ।
उवायं मखविध्वंसे येन स्याम सुनिर्वृताः ॥ ५२।५० ॥
श्रुत्वा सुराणां वचनं भगवान् मधुसूदनः ।
दत्त्वाभयं महाबाहुः प्रेषयामास साम्प्रतम् ।
विसृज्य देवताः सर्वा ज्ञात्वाजेयं महासुरम् ॥ ५२।५१ ॥
बन्धनाय मतिं चक्रे धुन्धोर्धर्मध्वजस्य वै ।
ततः कृत्वा स भगवान् वामनं रूपमीश्वरः ॥ ५२।५२ ॥
देहं त्यक्त्वा निरालम्बं काष्टवद् देविकाजले ।
क्षणान्मज्जंस्तथोन्मज्जन्मुक्तकेशो यदृच्छया ॥ ५२।५३ ॥
दृष्टो ऽथ दैत्यपतिना दैत्यैश्चान्यैस्तथर्षिभिः ।
ततः कर्म परित्यज्य यज्ञियं ब्राह्मणोत्तमाः ॥ ५२।५४ ॥
समुत्तारयितुं विप्रमाद्रवन्त समाकुलाः ।
सदस्या यजमानश्च ऋत्विजो ऽथ महौजसः ॥ ५२।५५ ॥
निमज्जमानमुज्जह्रुः सर्वे ते वामनं द्विजम् ।
समुत्तार्य प्रसन्नास्ते पप्रच्छुः सर्व एव हि ।
किमर्थं पतितो ऽसीह केनाक्षिप्तो ऽसि नो वद ॥ ५२।५६ ॥
तेषामाकर्ण्य वचनं कम्पमानो मुहुर्मुहुः ।
प्राह धुन्धुपुरोगांस्ताञ् छ्रूयतामत्र कारणम् ॥ ५२।५७ ॥
ब्राह्मणो गुणवानासीत् प्रभास इति विश्रुतः ।
सर्वसास्त्रार्थवित् प्राज्ञो गोत्रतश् चापि वारुणः ॥ ५२।५८ ॥
तस्य पुत्रद्वयं जातं मन्दप्रज्ञं सुदुःखितम् ।
तत्र ज्येष्ठो मम भ्राता कनीयानपरस्त्वहम् ॥ ५२।५९ ॥
नेत्रभास इति ख्यातो ज्येष्ठो भ्राता ममासुर ।
मम नाम पिता चक्रे गतिभासेति कौतुकात् ॥ ५२।६० ॥
रम्यश्चावसथो बन्धो शुभश्चासीत् पितुर्मम ।
त्रिविष्टपगुणैर्युक्तश्चारुरूपो महासुर ॥ ५२।६१ ॥
ततः कालेन महता आवयोः स पिता मृतः ।
तस्योर्ध्वदेहिकं कृत्वा गृहमावां समागतौ ॥ ५२।६२ ॥
ततो मयोक्तः स भ्राता विभजाम गृहं वयम् ।
तेनोक्तो नैव भवतो विद्यते भागा इत्यहम् ॥ ५२।६३ ॥
कुब्जवामनखञ्जानां क्लीबानां श्वित्रिणामपि ।
उन्मत्तानां तथान्धानां धनभागो न विद्यते ॥ ५२।६४ ॥
शय्यासनस्थानमात्रं स्वेच्छयान्नभुजक्रिया ।
एतावद् दीयते तेभ्यो नार्थभागहरा हि ते ॥ ५२।६५ ॥
एवमुक्ते मया सोक्तः किमर्थं पैतृकाद् गृहात् ।
धनार्थभागमर्हामि नाहं न्यायेन केन वै ॥ ५२।६६ ॥
इत्युक्तावति वाक्ये ऽसौ भ्राता मे कोपसंयुतः ।
समुत्क्षिप्याक्षिपन्नद्यामस्यां मामिति कारणात् ॥ ५२।६७ ॥
ममास्यां निम्नगायां तु मध्येन प्लवतो गतः ।
कालः संवत्सराख्यस्तु युष्माभिरिह चोद्धृतः ॥ ५२।६८ ॥
के भवन्तो ऽत्र सम्प्राप्ताः सस्नेहा बान्धवा इव ।
को ऽयं च शक्रप्रतिमो दीक्षितो यो महाभुजः ॥ ५२।६९ ॥
तन्मे सर्वं समाख्याता याथातथ्यं तपोधनाः ।
महर्द्धिसंयुता यूयं सानुकम्पाश्च मे भृशम् ॥ ५२।७० ॥
तद् वामनवचः श्रुत्वा भार्गवा द्विजसत्तमाः ।
प्रोचुर्वं द्विजा ब्रह्मन् गोत्रश्चापि भार्गवाः ॥ ५२।७१ ॥
असावपि महातेजा धुन्धुर्नाम महासुरः ।
दाता भोक्ता विभक्ता च दीक्षितो यज्ञकर्मणि ॥ ५२।७२ ॥
इत्येवमुक्त्वा देवेशं वामनं भार्गवास्ततः ।
प्रोचुर्दैत्यपतिं सर्वे वामनार्थकरं वचः ॥ ५२।७३ ॥
दीयतामस्य दैत्येन्द्र सर्वोपस्करसंयुतम् ।
श्रीमदावसथं दास्यो रत्नानि विविधानि च ॥ ५२।७४ ॥
इति द्विजानां वचनं श्रुत्वा दैत्यपतिर्वचः ।
प्राह द्विजेन्द्र ते दद्मि यावदिच्छसि वै धनम् ॥ ५२।७५ ॥
दास्ते गृहं हिरण्यं च वाजिनः स्यन्दनान् गजान् ।
प्रयच्छाम्यद्य भवतो व्रियतामीप्सितं विभो ॥ ५२।७६ ॥
तद्वाक्यं दानवपतेः श्रुत्वा देवो ऽथ वामनः ।
प्राहासुरपतिं धुन्धुं स्वार्थसिद्धिकरं वचः ॥ ५२।७७ ॥
सोदरेणापि हि भ्रात्रा ह्रियन्ते यस्य सम्पदः ।
तस्याक्षमस्य यद्दत्तं किमन्यो न हरिष्यति ॥ ५२।७८ ॥
दासीदासांश्च भृत्यांश्च गृहं रत्नं परिच्छदम् ।
समर्थेषु द्विजेन्द्रेषु प्रयच्छस्व महाभुज ॥ ५२।७९ ॥
मम प्रमाणमालोक्य मामकं च पदत्रयम् ।
सम्प्रयच्छस्व दैत्येन्द्र नाधिकं रक्षितुं क्षमः ॥ ५२।८० ॥
इत्येवमुक्ते वचने महात्मना विहस्य दैत्याधिपतिः सऋत्विजः ।
प्रादाद् द्विजेन्द्राय पदत्रयं तदा यदा स नान्यं प्रगृहाण किञ्चित् ॥ ५२।८१ ॥
क्रमत्रयं तावदवेक्ष्य दत्तं महासुरेन्द्रेण विभुर्यशस्वी ।
चक्रे ततो लङ्घयितुं त्रिविक्रमं रूपमनन्तशक्तिः ॥ ५२।८२ ॥
कृत्वा च रूपं दितिजांश्च हत्वा प्रणम्य चर्षिन् प्रथमक्रमेण ।
महीं महीध्रैः सहितां सहार्मवां जहार रत्नाकरपत्तनैर्युताम् ॥ ५२।८३ ॥
भुवं सनाकं त्रिदसाधिवासं सोमार्कऋक्षैर् अभिमण्डितं नभः ।
देवो द्वितीयेन जहार वेगात् क्रमेण देवप्रियमीप्सुरीश्वरः ॥ ५२।८४ ॥
क्रमं तृतीयं न यदास्य पूरितं तदातिकोपाद् दनुपुङ्गवस्य ।
पपात पृष्ठे भगवांस्त्रिविक्रमो मेरुप्रमाणेन तु विग्रहेण ॥ ५२।८५ ॥
पतता वासुदेवेन दानवोपरि नारद ।
त्रिंशद्योजनसाहस्री भूमेर्गर्ता दृढीकृता ॥ ५२।८६ ॥
ततो दैत्यं समुत्पाट्य तस्यां प्रक्षिप्य वेगतः ।
अवर्षत् सिकतावृष्ट्या तां गर्तामपूरयत ॥ ५२।८७ ॥
ततः स्वर्गं सहस्राक्षो वासुदेवप्रसादतः ।
सुराश्च सर्वे त्रैलोक्यमवापुर्निरुपद्रवाः ॥ ५२।८८ ॥
भगवानपि दैत्येन्द्रं प३क्षिप्य सिकतार्णवे ।
कालिन्द्य रूपमाधाय तत्रैवान्तरधीयत ॥ ५२।८९ ॥
एवं पुरा विष्णुरभूच्च वामनो धुन्धुं विजेतुं च त्रिविक्रमो ऽभूत् ।
यस्मिन् स दैत्येन्द्रसुतो जगाम महाश्रमे पुण्ययुतो महर्षे ॥ ५२।९० ॥

इति श्रीवामनपुराणे द्विपञ्चाशो ऽध्यायः