५१

पुलस्त्य उवाच ।
देवमातुः स्थिते उदरे वामनाकृतौ ।
निस्तेजसो ऽसुरा जाता यथोक्तं विश्वयोनिना ॥ ५१।१ ॥
निस्तेजसो ऽसुरान् दृष्ट्वा प्रह्लादं दानवेश्वरम् ।
बलिर्दानवशार्दूल इदं वचनमब्रवीत् ॥ ५१।२ ॥
बलिरुवाच ।
तात निस्तेजसो दैत्याः केन जातास्तु हेतुना ।
कथ्यतां परमज्ञो ऽसि शुभाशुभविशारद ॥ ५१।३ ॥
पुलस्त्य उवाच ।
तत्पौत्रवचनं श्रुत्वा मुहूर्तं ध्यानमास्तितः ।
किमर्थं तेजसो हानिरिति कस्मादतीव च ॥ ५१।४ ॥
स ज्ञात्वा वासुदेवोत्थं भयं दैत्येष्वनुत्तमम् ।
चिन्तयामास योगात्मा क्व विष्णुः साम्प्रतं स्थितः ॥ ५१।५ ॥
अधो नाभेः स पातालान् सप्त सञ्चिन्त्य नारद ।
नाबेरुपरि भूरादिल्लोकांश्चर्तुमियाद् वशी ॥ ५१।६ ॥
भूमिं स पङ्कजाकारां तन्मध्ये पङ्कजाकृतिम् ।
मेरुं ददर्श शैलेन्द्रं शातकौम्भं महर्द्धिमत् ॥ ५१।७ ॥
तस्योपरि महापुर्यस्त्वष्टौ लोकपतीस्तथा ।
तेषामातुः स ददृशे मृगपक्षिगणैर्वृतम् ॥ ५१।८ ॥
तदधस्तान्महापुण्यमाश्रमं सुरपूजितम् ।
देवमातुः स ददृशे मृगपक्षिगणैर्वृतम् ॥ ५१।९ ॥
तां दृष्ट्वा देवजननीं सर्वतेजोधिकां मुने ।
विवेश दानवपतिरन्वेष्टुं मधुसूदनम् ॥ ५१।१० ॥
स दृष्टवाञ्जगन्नाथं माधवं वामनाकृतिम् ।
सर्वभीतवरेण्यं तं देवमातुरथोदरे ॥ ५१।११ ॥
तं दृष्ट्वा पुण्डरीकाक्षं शङ्खचक्रगदाधरम् ।
सुरासुरगणैः सर्वैः सर्वतो व्याप्तविग्रहम् ॥ ५१।१२ ॥
तेनैव क्रमयोगेन दृष्ट्वा वामनतां गतम् ।
दैत्यतेजोहरं विष्णुं प्रकृतिस्थो ऽभवत् ततः ॥ ५१।१३ ॥
अथोवाच महाबुद्धिर्विरोजनसुतं बलिम् ।
प्रह्लादो मधुरं वाक्यं प्रणम्य मधुसूदनम् ॥ ५१।१४ ॥
प्रह्लाद उवाच ।
श्रूयतां सर्वमाख्यास्ये यतो वो भयमागतम् ।
येन निस्तेजसो दैत्या जाता दैत्येन्द्र हेतुना ॥ ५१।१५ ॥
भवता निर्जिता देवाः सेन्द्ररुद्रार्कपावकाः ।
प्रयाताः शरणं देवं हरिं त्रिभुवनेश्वरम् ॥ ५१।१६ ॥
स तेषामभयं दत्त्वा शक्रादिनां जगद्गुरुः ।
अवतीर्णो महाबाहुरदित्या जठरे हरिः ॥ ५१।१७ ॥
हृतानि वस्तेन बले तेजांसीति मतिर्मम ।
नालं तमो विषहितुं स्थातुं सूर्योदयं बले ॥ ५१।१८ ॥
पुलस्त्य उवाच ।
प्रह्लादवचनं श्रुत्वा क्रोधप्रस्फुरिताधरः ।
प्रह्लादमाहाथ बलिर्भाविकर्मप्रचोदितः ॥ ५१।१९ ॥
बलिरुवाच ।
तात को ऽय हरिर्नाम यतो नो भयमागतम् ।
सन्ति मे शतशो दैत्या वासुदेवबलाधिकाः ॥ ५१।२० ॥
सहस्रशो यैरमराः सेन्द्ररुद्राग्निमारुताः ।
निर्जित्य त्याजिताः स्वर्गं भग्नदर्पा रणाजिरे ॥ ५१।२१ ॥
येन सूर्यरथाद् वेगात् चक्रं कृष्टं महाजवम् ।
स विप्रचित्तिर्बलवान् मम सैन्यपुरस्सरः ॥ ५१।२२ ॥
अयःशुङ्कु शिवः शम्भुरसिलोमा विलोमकृत् ।
त्रिशिरा मकराक्षश्च वृषपर्वा नतेक्षमः ॥ ५१।२३ ॥
एते चानये च बलिनो नानायुधविसारदाः ।
येषामेकैकशो विष्णुः कलां नार्हति षोडशीम् ॥ ५१।२४ ॥
पुलस्त्य उवाच ।
पौत्रस्यैतद् वचः श्रुत्वा प्रह्लादः क्रोधमूर्छितः ।
धिग्धिगित्याह स बलिं वैकुण्ठाक्षेपवादिनम् ॥ ५१।२५ ॥
धिक्त्वां पापसमारारं दुषुटबुद्धिं सुबालिशम् ।
हरिं निन्दयतो जिह्वा कथं न पतिता तव ॥ ५१।२६ ॥
शोच्यस्त्वमसि दुर्बुद्धे निन्दनीयश् च साधुभिः ।
यत् त्रैलोक्यगुरुं विष्णुमभिनिन्दसि दुर्मते ॥ ५१।२७ ॥
शोच्यश्चास्मि न सन्देहो येन जातः पिता तव ।
यस्य त्वं कर्कशः पुत्रो जातो देवावमान्यकः ॥ ५१।२८ ॥
भवान् किल विजानाति तथा चामी महासुराः ।
यता नान्यः प्रियः कश्चिन्मम तस्माज्जनार्दनात् ॥ ५१।२९ ॥
जानन्नपि प्रियतरं प्राणेभ्यो ऽपि हरिं मम् ।
सर्वेश्वरेश्वरं देवं कथं निन्दितवानसि ॥ ५१।३० ॥
गुरुः पूज्यस्तव पिता पूज्यस्तस्याप्यहं गुरुः ।
ममापि पूज्यो भगवान् गुरुर्लोकगुरुर्हरिः ॥ ५१।३१ ॥
गुरोर्गुरुगुरुर्मूढ पूज्यः पज्यतमस्तव ।
पूज्यं निन्दयसे पाप कथं न पतितो ऽस्यधः ॥ ५१।३२ ॥
शोचनीया दुराचारा दानवामी कृतास्त्वया ।
येषां त्वं कर्कशो राजा वासुदेवस्य निन्दकः ॥ ५१।३३ ॥
यस्माद् पूज्योर्ऽचनीयश्च भवता निन्दितो हरिः ।
तस्मात् पापसमाचरा राज्यनाशमवाप्नुहि ॥ ५१।३४ ॥
यता नान्यत् प्रियतरं विद्यते मम केशवात् ।
मनसा कर्मणा वाचा राज्यभ्रष्टस्तथा पत ॥ ५१।३५ ॥
यता न तस्मादपरं व्यतिरिक्तं हि विद्यते ।
चतुर्दशसु लोकेषु रपाज्यभ्रष्टस्तथा पत ॥ ५१।३६ ॥
सर्वेषामम्पि भूतानां नान्यल्लोके परायणम् ।
यथा तथानुपस्येयं भवन्तं राज्यविच्युतम् ॥ ५१।३७ ॥
पुलस्त्य उवाच ।
एवमुच्चारिते वाक्ये बलिः सत्वरितस्तदा ।
अवतीर्यासनाद् ब्रह्मन् कृताञ्जलिपुटो बली ॥ ५१।३८ ॥
शिरसा प्रणिपत्याह प्रसादं यातु मे गुरुः ।
कृतापराधानपि हि क्षमन्ति गुरवः शिशून् ॥ ५१।३९ ॥
तत्साधु यदहं शप्तो भवता दानवेश्वर ।
न बिभेमि परेभ्यो ऽहं न च राज्यपरिक्षयात् ॥ ५१।४० ॥
नैव दुःखं मम विभो यदहं राज्यविच्युतः ।
दुःखं कृतापराधत्वाद् भवतो मे महत्तरम् ॥ ५१।४१ ॥
तत् क्षम्यतां तात ममापराधो बालो ऽस्मयनाथो ऽस्मि सुदुर्मतिश्च ।
कृते ऽपि दोषे गुरवः शिशूनां क्षमन्ति दैत्यं समुपागतानाम् ॥ ५१।४२ ॥
पुलस्त्य उवाच ।
स एवमुक्तो वचनं महात्मा विमुक्तमोहो हरिपादभक्तः ।
चिरं विचिन्त्याद्भुतमेतदित्थमुवाच पौत्रं मधुरं वचो ऽथ ॥ ५१।४३ ॥
प्रह्लाद उवाच ।
तात मोहेन मे ज्ञानं विवेकश्च तिरस्कृतः ।
येन सर्वगतं विष्णुं जानंस्त्वां सप्तवानहम् ॥ ५१।४४ ॥
नूनमेतेन भाव्यं वै भवतो येन दानव ।
ममाविशन्महाबाहो विवेकप्रतिषेधकः ॥ ५१।४५ ॥
तस्माद् राज्यं प्रति विभो न ज्वरं कर्तुमर्हसि ।
अवश्यं भाविनो ह्यर्था न विनश्यन्ति कर्हिचित् ॥ ५१।४६ ॥
पुत्रमित्रकलत्रार्थ राज्यभोगधनाय च ।
आगमे निर्गमे प्राज्ञो न विषादं समाचरेत् ॥ ५१।४७ ॥
यथा यथा समायान्ति पूर्वकर्मविधानतः ।
सुखदुःखानि दैत्येन्द्र नरस्तानि सहेत् तथा ॥ ५१।४८ ॥
आपदामागमं दृष्ट्वा न विष्ण्णो भवेद् वशी ।
सम्पदं च सुविस्तीर्णां प्राप्य नो ऽधृतिमान् भवेत् ॥ ५१।४९ ॥
धनक्षये न मुह्यन्ति न हृष्यन्ति धनागमे ।
धीराः कार्येषु च सदा भवन्ति पुरुषोत्तमाः ॥ ५१।५० ॥
एवं विदित्वा दैत्येन्द्र न विषादं कथञ्चन ।
कर्तुमर्हसि विद्वांस्त्वं पण्डितो नावसीदति ॥ ५१।५१ ॥
तथान्यच्च महाबाहो हितं शृणु महार्थकम् ।
भवतो ऽथ तथान्येषां श्रुत्वा तच्च समाचर ॥ ५१।५२ ॥
शरण्यं शरणं गच्छ तमेव पुरुषोत्त्मम् ।
स ते त्राता भयादस्माद् दानवेन्द्र भविष्यति ॥ ५१।५३ ॥
ये संश्रिता हरिमनन्तमनादिमध्यं विष्णुं चराचरगुरुं हरिमीशितारम् ।
संसारगर्तपतितस्य करावलम्बं नूनं न ते भुवि नरा ज्वरिणो भवन्ति ॥ ५१।५४ ॥
तन्मना दानवश्रेष्ठ तद्भक्तश्च भवाधुना ।
स एष भवतः श्रेयो विधास्यति जनार्धनः ॥ ५१।५५ ॥
अहं च पापोपशमार्थमीशमाराध्य यास्ये प्रतितीर्थयात्राम् ।
विमुक्तपापश्च ततो गमिष्ये यत्राच्युतो लोकपतिर्नृसिंहः ॥ ५१।५६ ॥
पुलस्त्य उवाच ।
इत्येवमाश्वास्य बलिं महात्मा संस्मृत्य योगाधिपतिं च विष्णुम् ।
आमन्त्र्य सर्वान् दनुयूथपालान् जगाम कर्तुं त्वथ तीर्थयात्राम् ॥ ५१।५७ ॥

इति श्रीवामनपुराणे एकपञ्चाशो ऽध्यायः