५०

पुलस्त्य उवाच ।
गते त्रैलोक्यराज्ये तु दानवेषु पुरन्दरः ।
जगाम ब्रह्मसदनं सह देवैः शचीपतिः ॥ ५०।१ ॥
तत्रापश्यत् स देवेशं ब्रह्माणं कमलोद्भवम् ।
ऋषिभिः सार्धमासीनं पितरं स्वं च कश्यपम् ॥ ५०।२ ॥
ततो ननाम शिरसा शक्रः सुरगणैः सह ।
ब्रह्माणं कश्यपं चैव तांश्च सर्वास्तपोधनान् ॥ ५०।३ ॥
प्रोवाचेन्द्रः सुरैः सार्ध देवनाथं पितामहम् ।
पितामह हृतं राज्यं बलिना बलिना मम ॥ ५०।४ ॥
ब्रह्मा प्रोवाच शक्रैतद् भुज्यते स्वकृतं फलम् ।
शक्रः पप्रच्छ भो ब्रूहि किं मया दुष्कृतं कृतम् ॥ ५०।५ ॥
कश्यपो ऽप्याह देवेशं भ्रूणहत्या कृता त्वया ।
दित्युदरात् त्वया गर्भः कृत्तो वै बहुधा बलात् ॥ ५०।६ ॥
पितरं प्राह देवेन्द्रः स मातुर्देषतो विभो ।
कृन्तनं प्राप्तवान् गर्भो यदशौचा हि सा भवत् ॥ ५०।७ ॥
ततो ऽब्रवीत् कश्यपस्तु मातुर्देषः स दासताम् ।
गतस्ततो विनिहतो दासो ऽपि कुलिशेन भो ॥ ५०।८ ॥
तच्छ्रुत्वा कश्यपवचः प्राह शक्रः पितामहम् ।
विनाशं पाप्मनो ब्रूहि प्रायश्चित्तं विभो मम ॥ ५०।९ ॥
ब्रह्मा प्रोवाच देवेशं वशिष्ठः कश्यपस्तथा ।
हितं सर्वस्य जगतः शक्रस्यापि विशेषतः ॥ ५०।१० ॥
शङ्खचक्रगदापाणिर्माधवः पुरुषोत्तमः ।
तं प्रपद्यस्व शरणं स ते श्रेयो विधास्यति ॥ ५०।११ ॥
सहस्राक्षो ऽपि वचनं गुरूणां स निशम्य वै ।
प्रोवाच स्वल्पकालेन कस्मिन् प्राप्यो बहूदयः ।
तमूचुर्देवता मर्त्ये स्वल्पकाले महोदयः ॥ ५०।१२ ॥
इत्येवमुक्तः सुरराड् विरिञ्चिना मरीचिपुत्रेण च कश्यपेन ।
तथैव मित्रावरुणात्मजेन वेगान्महीपृष्ठमवाप्य तस्थौ ॥ ५०।१३ ॥
कालिञ्जरस्योत्तरतः सुपुण्यस्तथा हिमाद्रेरपि दक्षिणस्थः ।
सुशस्थलात् पूर्वत एव विश्रुतो वसोः पुरात् पिश्चिमतो ऽवतस्थे ॥ ५०।१४ ॥
पूर्वं गयेन नृवरेम यत्र यष्टो ऽश्वमेधः शतकृत्सदक्षिणः ।
मनुष्येमेधः शतकृत्सहस्रकृन्नरेन्द्रसूयश्च सहस्रकृद् वै ॥ ५०।१५ ॥
तथा पुरा दुर्यजनः सुरासुरैः ख्यातो महामेध इति प्रसिद्धः ।
यत्रास्य चक्रे भगवान् मुरारिः वास्तव्यमव्यक्ततनुः खमूर्तिमत् ।
ख्यातिं जगामाथ गदाधरेति महाघवृक्षस्य शितः कुठारः ॥ ५०।१६ ॥
यस्मिन् द्विजेन्द्राः श्रुतिशास्त्रवर्जिताः समत्वमायान्ति पितामहेन ।
सकृत् पितृन् यत्र च सम्प्रपूज्य भक्त्या त्वनन्येन हि चेतसैव ।
फलं महामेधमखस्य मानवा लभन्त्यनन्त्यं भगवत्प्रसादात् ॥ ५०।१७ ॥
महानदी यत्र सुरर्षिकन्या जलापदेशाद्धिमशैलमेत्य ।
चक्रे जगत्पापविनष्टिमग्र्यां सन्दर्शनप्राशनमञ्जनेन ॥ ५०।१८ ॥
तत्र शक्रः समभ्येत्य महानद्यास्तटे ऽद्भुते ।
आराधनाय देवस्य कृत्वाश्रममवस्थितः ॥ ५०।१९ ॥
प्रातःस्नायी त्वधःशायी एकभक्तस्त्वयाचितः ।
तपस्तेपे सहस्राक्षः स्तुवन् देवं गदाधरम् ॥ ५०।२० ॥
तस्यैवं तप्यतः स्मयग्जितसर्वेन्द्रियस्य हि ।
कामक्रोधविहीनस्य साग्रः संवत्सरो गतः ॥ ५०।२१ ॥
ततो गदाधरः प्रीतो वासवं प्राह नारद ।
गच्छ प्रीतो ऽस्मि भवतो मुक्तपापो ऽसि साम्प्रतम् ॥ ५०।२२ ॥
निजं राज्यं च देवेश प्राप्स्यसे न चिरादिव ।
यतिष्यामि तथा शक्र भावि श्रेयो यता तव ॥ ५०।२३ ॥
इत्येवमुक्तो ऽथ गदाधरेण विसर्जितः स्नाप्य मनोहरायाम् ।
स्नातस्य देवस्य तदैनसो नरास्तं प्रोचुरस्माननुसासयस्व ॥ ५०।२४ ॥
प्रोवाच तान् भीषणकर्मकारान् नाम्ना पुलिन्दान् मम पापसम्भवाः ।
वसध्वमेवान्तरमद्रिसुख्ययोर्हिमाद्रिकालिञ्जरयोः पुलिन्दाः ॥ ५०।२५ ॥
इत्येवमुक्त्वा सुरराट् पुलिन्दान् विमुक्तपापो ऽमरसिद्धयक्षैः ।
सम्पूज्यमानो ऽनुजगाम चमं मातुस्तदा धर्मनिवासमीड्यम् ॥ ५०।२६ ॥
दृष्ट्वादितिं मूर्ध्नि कृताञ्जलिस्तु विनाम्रमौलिः समुपाजगाम् ।
प्रणम्य पादौ कमलोदराभौ निवेदयामास तपस्तदात्मनः ॥ ५०।२७ ॥
पप्रच्छ सा कारणमीश्वरं तम् आघ्राय चालिङ्ग्य सहाश्रुदृष्ट्या ।
स चाचचक्षे बलिना रणे जयं तदात्मनो देवगणैश्च सार्धम् ॥ ५०।२८ ॥
श्रुत्वैव सा शोकपरिप्लुताङ्गी ज्ञात्वा जितं दैत्यसुतैः सुतं तम् ।
दुःखान्विता देवमनाद्यमीड्यं जगाम विष्णुं शरणं वरेण्यम् ॥ ५०।२९ ॥
नारद उवाच ।
कस्मिन् जनित्री सुरसत्तमानां स्थाने हृषीकेशमनन्तमाद्यम् ।
चराचरस्य प्रभवं पुराणमाराधयामास शुभे वद त्वम् ॥ ५०।३० ॥
पुलस्त्य उवाच ।
सुरारणिः शक्रमवेक्ष्य दीनं पराजितं दानवनायकेन ।
सिते ऽथ पक्षे मरार्क्षगेर्ऽके घृतार्चिषः स्यादथ सप्तमे ऽह्नि । ।
५०।३१ दृष्ट्वैवे देवं त्रिदशाधिपं तं महोदये शक्रदिशाधिरूढम् ।
निराशना संयतवाक् सुचिता तदोपतस्थे शरणं सुरेन्द्रम् ॥ ५०।३२ ॥
अदितिरुवाच ।
जयस्व दिव्याम्बुजकोशचौर जयस्व संसारतरोः कुठार ।
जयस्व पापेन्धनजातवेदस्तमौघसंरोध नमो नमस्ते ॥ ५०।३३ ॥
नमो ऽसु ते भास्कर दिव्यमूर्ते त्रैलोक्यलक्ष्मीतिलकाय ते नमः ।
त्वं कारणं सर्वचराचरस्य नाथो ऽसि मां पालय विश्वमूर्ते ॥ ५०।३४ ॥
त्वया जगन्नाथ जगन्मयेन नाथेन शक्रो निजराज्यहानिम् ।
अवाप्तावान् शत्रुपराभवं च ततो भवन्तं शरणं प्रपन्ना ॥ ५०।३५ ॥
इत्येवमुक्त्वा सुरुपूजितं सा आलिख्य रक्तेन हि चन्दनेन ।
सम्पूजयित्वा करवीरपुष्यैः सन्धूप्य धूपैः कणमर्कभोज्यम् ॥ ५०।३६ ॥
निवेद्य चैवाज्ययुतं महार्हमन्नं महेन्द्रस्य हिताय देवी ।
स्तवेन पुण्येन च संस्तुवन्ती स्थिता निराहारमथोपवासम् ॥ ५०।३७ ॥
ततो द्वितीये ऽह्नि कृतप्रणामा स्नात्वा विधानेन च पूजयित्वा ।
दत्त्वा द्विजेभ्यः कणकं तिलाज्यं ततो ऽग्रतः सा प्रयता बभूव ॥ ५०।३८ ॥
ततः प्रीतो ऽभवद् भानुर्घृतार्चिः सूर्यमण्डलात् ।
विनिःसृत्ययाग्रतः स्थित्वा इदं वचनमब्रवीत् ॥ ५०।३९ ॥
व्रतेतानेन सुप्रीतस्तवाहं दक्षनन्दिनि ।
प्राप्स्यसे दुर्लभं कामं मत्प्रसादान्न संशयः ॥ ५०।४० ॥
राज्यं त्वत्तनयानां वै दास्ये देवि सुरारणि ।
दानवान् ध्वंसयिष्यामि सम्भूयैवोदरे तव ॥ ५०।४१ ॥
तद् वाक्यं वासुदेवस्य श्रुत्वा ब्रह्मन् सुरारणिः ।
प्रोवाच जगतां योनिं वेपमाना पुनः पुनः ॥ ५०।४२ ॥
कथं त्वामुदरेणाहं वोढुं शक्ष्यामि दुर्धरम् ।
यस्योदरे जगत्सर्वं वसते स्थाणुजङ्गमम् ॥ ५०।४३ ॥
कस्त्वां धारयितुं नाथ शक्तस्त्रैलोक्यधार्यसि ।
यस्य सप्तार्णवाः कुक्षौ निवसन्ति सहाद्रिभिः ॥ ५०।४४ ॥
तस्माद् यथा सुरपतिः शक्रः स्यात् सुरराडिह ।
यथा च न मम क्लेशस्तथा कुरु जनार्दन ॥ ५०।४५ ॥
विष्णुरुवाच ।
सत्यमेतन्महाभागे दुर्धरो ऽस्मि सुरासुरैः ।
तथापि सम्भविष्यामि अहं देव्युदरे तव ॥ ५०।४६ ॥
आत्मानं भुवनान् शैलांस्त्वाञ्च देवि सकश्यपाम् ।
धारयिष्यामि योगेन मा विषादं कुथाम्बिके ॥ ५०।४७ ॥
तवोदरे ऽहं दाक्षेयि सम्भविष्यामि वै यदा ।
तदा निस्तेजसो दैत्याः सभविष्यन्त्यसंशयम् ॥ ५०।४८ ॥
इत्येवमुक्त्वा भगवान् विवेश तस्याश्च भूयो ऽरिगणप्रमर्दी ।
स्वतेजसोंऽशेन विवेश देव्याः तदोदरे शक्रहिताय विप्र ॥ ५०।४९ ॥

इति श्रीवामनपुराणे पञ्चाशो ऽध्यायः