पुलस्त्य उवाच ।
ततो गतेषु देवेषु ब्रह्मलोकं प्रति द्विज ।
त्रैलोक्यं पालयामास बलिर्धर्मान्वितः सदा ॥ ४९।१ ॥
कलिस्तदा धर्मयुतं जगद् दृष्ट्वा कृते यथा ।
ब्रह्माणं शरणं भेजे स्वभावस्य निषेणात् ॥ ४९।२ ॥
गत्वा स ददृशे देवं सेन्द्रैर्देवैः समन्वितम् ।
स्वदीप्त्या द्योतयन्तं च स्वदेशं ससुरासुरम् ॥ ४९।३ ॥
प्रणिपत्य तमाहाथ तिष्यो ब्रह्माणमीश्वरम् ।
मम स्वभावो बलिना नाशितो देवसत्तम ॥ ४९।४ ॥
तं प्राह भगवान् योगी स्वभावं जगतो ऽपि हि ।
न केवलं हि भवतो हृतं तेन बलीयसा ॥ ४९।५ ॥
पश्यस्व तिष्य देवेन्द्रं वरुणं च समारुतम् ।
भास्करो ऽपि हि दीनत्वं प्रयातो हि बलाद् बलेः ॥ ४९।६ ॥
न तस्य कश्चित् त्रैलोक्ये प्रतिषेद्धास्ति कर्मणः ।
ऋते सहस्रं शिरसं हरिं दशशताङ्घ्रिकम् ॥ ४९।७ ॥
म भूमिं च तथा नाकं राज्यं लक्ष्मीं यसो ऽव्ययः ।
समाहरिष्यति बलेः कर्तुः सद्धर्मगोचरम् ॥ ४९।८ ॥
इत्येवमुक्तो देवेन ब्रह्मणा कलिरव्ययः ।
दीनान् दृष्ट्वा स शक्रादीन् विभीतकवनं गतः ॥ ४९।९ ॥
कृतः प्रावर्त्तत तदा कलेर्नासात् जगत्त्रये ।
धर्मो ऽभवच्चतुष्पादश्चातुर्वर्ण्ये ऽपि नारद ॥ ४९।१० ॥
तपो ऽहिंसा च सत्यं च शौचमिन्द्रियनिग्रहः ।
दया दानं त्वानृशंस्यं शुश्रुषा यज्ञकर्म च ॥ ४९।११ ॥
एतानि सर्वजगतः परिव्याप्य स्थितानि हि ।
बलिना बलवान् ब्रह्मन् तिष्यो ऽपि हि कृतः कृतः ॥ ४९।१२ ॥
स्वधर्मस्थायिनो वर्णा ह्याश्रमांश्चाविश्न् द्विजाः ।
प्रजापालनधर्मस्थाः सदैव मनुजर्षभाः ॥ ४९।१३ ॥
धर्मोत्तरे वर्तमाने ब्रह्मन्नस्मिञ्जगत्त्रये ।
त्रैलोक्यलक्ष्मीर्वरदा त्वायाता दानवेश्वरम् ॥ ४९।१४ ॥
तामागतां निरीक्ष्यैव सहस्राक्षश्रियं बलिः ।
पप्रच्छ कासि मां ब्रूहि केनास्यर्थेन चागता ॥ ४९।१५ ॥
सा तद्वचनमाकर्ण्य प्राह श्रीः पद्ममालिनी ।
बले शृणुष्व यास्मि त्वामायाता महिषि बलात् ॥ ४९।१६ ॥
अप्रमेयबलो देवो यो ऽसौ चक्रगदाधरः ।
तेन त्यक्तस्तु मघवा ततो ऽहं त्वामिहागता ॥ ४९।१७ ॥
स निर्ममे युवतयश्चास्रो रूपसंयुताः ।
श्वेताम्बरधरा चैव श्वेतस्रगनुलेपना ॥ ४९।१८ ॥
श्वेतवृन्दारकारूढा सत्त्वाढ्या श्वेतविग्रहा ।
रक्ताम्बरधरा चान्या रक्तस्रगनुलेपना ॥ ४९।१९ ॥
रक्तवाजिसामारूढा रक्ताङ्गी राजसी हि सा ।
पीताम्बरा पीरवर्णा पीतमाल्यानुलेपना ॥ ४९।२० ॥
सौवर्णस्यन्दनचरा तामसं गुणमाश्रिता ।
नीलाम्बरा नीमाल्या नीलगन्धामनुलेपना ॥ ४९।२१ ॥
नीलवृषसमारूढा त्रिगुणा सा प्रकीर्तिता ।
या सा श्वेताम्भरा श्वेता सत्त्वाढ्या कुञ्जरस्थिता ॥ ४९।२२ ॥
सा ब्रह्माणं समायाता चन्द्रं चन्द्रानुगानपि ।
या रक्ता रक्तवसना वाजिस्था रजसान्विता ॥ ४९।२३ ॥
तां प्रादाद् देवराजाय मनेव तत्समेषु च ।
पीताम्बरा या सुभगा रथस्था कनकप्रभा ॥ ४९।२४ ॥
प्रजापतिभ्यस्तां प्रादात् शुक्राय च विशःसु च ।
नीलवस्त्रालिसदृशी या चुर्थी वृषस्थिता ॥ ४९।२५ ॥
सा दानवान् नैऋतांश् च शूद्रान् विद्याधरानपि ।
विप्राद्याः श्वेतरूपां तां कथयन्ति सरस्वतीम् ॥ ४९।२६ ॥
स्तुवन्ति ब्रह्मणा सार्धं मखे मन्त्रादिभिः सदा ।
क्षत्रिया रक्तवर्णां तां जयश्रीमिति शंसिरे ॥ ४९।२७ ॥
सा चेन्द्रेणासुरश्रेष्ठ मनुना च यशस्विनी ।
वैश्यास्तां पीतवसनां कनकाङ्गीं सदैव हि ॥ ४९।२८ ॥
स्तुवन्ति लक्ष्मीमित्येवं प्रजापालास्तथैव हि ।
शूद्रास्तां नीलवर्णाङ्गीं स्तुवन्ति च सुभक्तितः ॥ ४९।२९ ॥
श्रिया देवीति नाम्ना तां समं दैत्यैश्च राक्षसैः ।
एवं विभक्तास्ता नार्यस्तेन देवेन चक्रिणा ॥ ४९।३० ॥
एतासां च स्वरूपस्तास्तिष्ठन्ति निधयो ऽव्ययाः ।
इतिहासपुराणानि वेदाः साङ्गास्तथोक्तयः ॥ ४९।३१ ॥
चतुःषष्टिकलाः श्वेता महापद्मो निधिः स्थितः ।
मुक्तासुवर्णरजतं रथाश्वगजभूषणम् ॥ ४९।३२ ॥
शस्त्रास्त्रादिकवस्त्राणि रक्ता पद्मो निधिः स्मृतः ।
गोमहिष्यः खरोष्ट्रं च सुवर्णाम्बरभूमयः ॥ ४९।३३ ॥
ओषध्यः पशवः पीता महानीलो निधिः स्थितः ।
सर्वासामपि जातीनां जातिरेका प्रतिष्ठिता ॥ ४९।३४ ॥
अन्येषामपि संहर्त्री नीला शङ्खो निधिः स्थितः ।
एतासु संस्थितानां च यानि रूपाणि दानव ।
भवन्ति सुरुषाणां वै तान् विबोध वदामि ते ॥ ४९।३५ ॥
सत्यशौचाभिसंयुक्ता मखदानोत्सवे रताः ।
भवन्ति दावनपते महापद्माश्रिता नराः ॥ ४९।३६ ॥
यज्विनः सुभगा दृप्ता मानिनो बहुदक्षिणाः ।
सर्वसामान्यसुखिनो नराः पद्माश्रिताः स्मृताः ॥ ४९।३७ ॥
सत्यानृतसमायुक्ता दानाहरणदक्षिणाः ।
न्यायान्यायव्ययोपेता महानीलाश्रिता नराः ॥ ४९।३८ ॥
नास्तिकाः शौचरहिताः कृपणा भोगवर्जिताः ।
स्तेयानृतकथायुक्ता नराः शङ्खश्रिता बले ॥ ४९।३९ ॥
इत्येवं कथितस्तुभ्यं तेषां दानव निर्णयः ॥ ४९।४० ॥
अहं सा रागिणी नाम जायश्रीस्त्वामुपागता ।
ममास्ति दावनपते प्रतिज्ञा साधुसम्मता ॥ ४९।४१ ॥
समाश्रयामि शौर्यढ्यं न च क्लीबं कथञ्चन ।
न चास्ति भवतस्तुल्यो त्रैलोक्ये ऽपि बलाधिकः ॥ ४९।४२ ॥
त्वया बलविभूत्या हि प्रीतिर्मे जनिता ध्रुवा ।
यत्त्वया युधि विक्रम्य देवराजो विनिर्जितः ॥ ४९।४३ ॥
अतो मम परा प्रीतिर्जाता दानव शाश्वती ।
दृष्ट्वा ते परमं सत्त्वं सर्वेभ्यो ऽपि बलाधिकम् ॥ ४९।४४ ॥
शौण्डीर्यमानिनं वीरं ततो ऽहं स्वयमागता ।
नाश्चर्य दानवश्रेष्ठ हिरण्यकशिपोः कुले ॥ ४९।४५ ॥
प्रसूतस्यासुरेन्द्रस्य तव कर्म यदीदृशम् ।
विशेषितस्त्वया राजन् दैतेयः प्रपितामहः ॥ ४९।४६ ॥
विजितं विक्रमाद् येन त्रैलोक्यं वै परैर्हृतम् ।
इत्येवमुक्त्वा वचनं दानवैन्द्रं तदा बलिम् ॥ ४९।४७ ॥
जयश्रीश्चन्द्रवदना प्रविष्टाद्योतयच्छुभा ।
तस्यां चाथ प्रविष्टायां विधवा इव योषितः ॥ ४९।४८ ॥
समाश्रयन्ति बलिनं ह्रीश्रीधीधृतिकीर्त्तयः ।
प्रभा मतिः श्रमा भूतिर्विद्या नीतिर्दया तथा ॥ ४९।४९ ॥
श्रुतिः स्मृतिर्धृतिः कीर्तिर्मूर्तिः शान्ति क्रियान्विताः ।
पुष्टिस्तुष्टी रुचिस्त्वन्या तथा सत्त्वाश्रिता गुणाः ।
ताः सर्वा बलिमाश्रित्य व्यश्राम्यन्त यथासुखम् ॥ ४९।५० ॥
एवं गुणो ऽभृद् दनुपुङ्गवो ऽसौ बलिर्महात्मा शुभबुद्धिरात्मवान् ।
यज्वा तपस्वी मृदुरेव सत्यवाक् दाता विभर्ता स्वजनाभिगोप्ता ॥ ४९।५१ ॥
त्रिविष्टपं शासति दानवेन्द्रे नासीन् क्षुधार्तो मलिनो न दीनः ।
सदोज्ज्वलो धर्मरतो ऽथ दान्तः कामोपभोक्ता मनुजो ऽपि जातः ॥ ४९।५२ ॥
इति श्रीवामनपुराणे एकोनपञ्चाशो ऽध्यायः