४८

पुलस्त्य उवाच ।
सन्निवृत्ते ततो बाणे दानवाः सत्वरं पुनः ।
निवृत्ता देवतानां च सशस्त्रा युद्धलालसाः ॥ ४८।१ ॥
विष्णुरप्यमितौजास्तं ज्ञात्वाजेयं बलेः सुतम् ।
प्राहामन्त्र्य सुरान् सर्वान् युध्यध्वं विगतज्वराः ॥ ४८।२ ॥
विष्णुनाथ समादिष्टा देवाः शक्रपुरोगमाः ।
युयुधुर्दानवैः सार्धं विष्णुस्त्वन्तरधीयत ॥ ४८।३ ॥
माधवं गतमाज्ञाय शुक्रो बलिमुवाच ह। गोविन्देन मुरास्त्यक्तास्त्वं जयस्वाधुना बले ॥ ४८।४ ॥
स पुरोहितवाक्येन प्रीतो याते जनार्दने ।
गदामादाय देजस्वी देवसैन्यमभिद्रुतः ॥ ४८।५ ॥
बाणो बाहुसहस्रेण गृह्य प्रहरणान्यथ ।
देवसैन्यमभिद्रुत्य निजघान सहस्रशः ॥ ४८।६ ॥
मयो ऽपि मायामास्थाय तैस्तै रूपान्तरैर्मुने ।
योधयामास बलावान् सुराणां च वरूछिनीम् ॥ ४८।७ ॥
विद्युज्जिह्वः प्ररिभद्रो वृषपर्वा शतेक्षणः ।
विपाको विक्षरः सैन्यं ते ऽपि देवानुपाद्रवन् ॥ ४८।८ ॥
ते हन्यमाना दितिजैर्देवाः शक्रपुरोगमाः ।
गते जनार्दने देवे प्रायशो विमुख्याभवन् ॥ ४८।९ ॥
तान् प्रभग्नान् सुरगाणान् बलिबाणापुरोगमाः ।
पृष्ठतश्चाद्रवन् सर्वे त्रैलोक्यविजिगीषवः ॥ ४८।१० ॥
सम्बाध्यमाना दैतेयैर्दवाः सेन्द्रा भयातुराः ।
त्रिविष्टपं परित्यज्य ब्रह्मलोकमुपागताः ॥ ४८।११ ॥
ब्रह्मलोकं गतेष्वित्थं सेन्द्रेष्वपि सुरेषु वै ।
स्वर्गभोक्ता बलिर्जातः सपुत्रभ्रातृबान्धवः ॥ ४८।१२ ॥
शक्रो ऽभूद् भगवान् ब्रह्मन् बलिर्बाणो यमो ऽभवत् ।
वरुणो ऽभून्मयः सोमो राहुर्ह्लोदो हुताशनः ॥ ४८।१३ ॥
स्वर्भानुरभवत् सूर्यः शुक्रश्चासीद् बृहस्पतिः ।
ये ऽन्ये ऽप्यधिकृता देवास्तेषु जाताः सुरारयः ॥ ४८।१४ ॥
पञ्चमस्य कलेरादौ द्वापरान्ते सुदारुणः ।
देवासुरो ऽभूत् सङ्ग्रामो यत्र शक्रो ऽप्यभूद् बलिः ॥ ४८।१५ ॥
पातालाः सप्त तस्यास्न् वशे लोकत्रयं तथा ।
भूर्भुवःस्वरिति ख्यातं दशलोकाधिपो बलिः ॥ ४८।१६ ॥
स्वर्गे स्वयं निवसति भुञ्जन् भोगान् सुदर्लभान् ।
तत्रोपासन्त गन्धर्वा विश्वावसुपुरोगमाः ॥ ४८।१७ ॥
तिलोत्तमाद्याप्सरसो नृत्यन्ति सुरतापस ।
वादयन्ति च वाद्यानि यक्षविद्याधरादयः ॥ ४८।१८ ॥
विविधानपि भोगांश्च भुञ्जन् दैत्येश्वरो बलि ।
सस्मार मनसा ब्रह्मन् प्रह्लादं स्वपितामहम् ॥ ४८।१९ ॥
संस्मृतो नप्तृणा चासौ महाभागवतो ऽसुरः ।
समभ्यागात् त्वरायुक्तः पातालात् स्वर्गमव्ययम् ॥ ४८।२० ॥
तमागतं समीक्ष्यैव त्यक्त्वा सिंहासनं बलिः ।
कृताञ्जलिपुटो भूत्वा ववन्दे चरणावुभौ ॥ ४८।२१ ॥
पादयोः पतितं वीरं प्रह्लादस्त्वरितो बलिम् ।
समुत्थाप्य परिष्यवज्य विवेश परमासने ॥ ४८।२२ ॥
लं बलिः प्राह भोस्तात त्वत्प्रसादात् सुरा मया ।
निर्जिताः शक्रराज्यं च हृतं वीर्यबलान्मया ॥ ४८।२३ ॥
तदिदं तात मद्वीर्यविनिर्जितसुरोत्तमम् ।
त्रैलोक्यराज्यं भुञ्ज त्वं मयि भृत्ये पुरःस्थिते ॥ ४८।२४ ॥
एतावता पुण्ययुतः स्यामहं तात यत् स्वयम् ।
त्वदङ्घ्रिपूजाभिरतस्त्वदुच्छिष्टान्नभोजनः ॥ ४८।२५ ॥
न सा पालयतो राज्यं धृतिर्भवति सत्तम ।
या धृतिर्गुरुशुश्रुषां कुर्वतो जायते विभो ॥ ४८।२६ ॥
ततस्तदुक्तं बलिना वाक्यं श्रुत्वा द्विजोत्तम ।
प्रह्लादः प्राह वचनं धर्मकामार्थसाधनम् ॥ ४८।२७ ॥
मया कृतं राज्यमकण्टकं पुरा प्रशासिता भूः सुहृदो ऽनुपूजिताः ।
दत्तं यथेष्टं जनिनास्तथात्मजाः स्थितो बले सम्प्रति योगसाधकः ॥ ४८।२८ ॥
गृहीतं पु६ विधिवन्मया भूयो ऽर्पितः तव ।
एवं भव गुरूणां त्वं सदा सुश्रूषणे रतः ॥ ४८।२९ ॥
इत्येवमुक्त्वा वचनं करे त्वादाय दक्षिणे ।
शाक्रे सिंहासने ब्रह्मन् बलिं तूर्णं न्यवेशयत् ॥ ४८।३० ॥
सोपविष्टो महेन्द्रस्य सर्वरत्नमये शुभे ।
सिंहहासने दैत्यपतिः शुशुभे मघवानिव ॥ ४८।३१ ॥
तत्रोपविष्टश्चैवासौ कृताञ्जलिपुटो नतः ।
प्रह्लादं प्राह वचनं मेघगम्भीरया गिरा ॥ ४८।३२ ॥
यन्मया तात कर्तव्यं त्रैलोक्यं परिरक्षता ।
धर्मार्थकाममोक्षेभ्यस्तदादिशतु मे भवान् ॥ ४८।३३ ॥
तद्वाक्यसम कालं च शुक्रः प्रह्लादमब्रवीत् ।
यद्युक्तं तन्महाबाहो वदस्वाद्योत्तरं वचः ॥ ४८।३४ ॥
वचनं बलिशुक्राभ्यां श्रुत्वा भागवतो ऽसुरः ।
प्राह धर्मार्थसंयुक्तं प्रह्लादो वाक्यमुत्तमम् ॥ ४८।३५ ॥
यदायत्यां क्षमं राजन् यद्धितं भुवनस्य च ।
अविरोधेन धर्मस्य अर्थस्योपार्जनं च यत् ॥ ४८।३६ ॥
सर्वसत्त्वानुगमनं कामवर्गफलं च यत् ।
परत्रेह च यच्छ्रेयः पुत्र तत्कर्म आरच ॥ ४८।३७ ॥
यता श्लाघ्यं प्रयास्यद्य यथा कीर्तिर्भवेत्तव ।
यता नायशसो योगस्तथा कुरु महामते ॥ ४८।३८ ॥
एतदर्थ श्रियं दीप्तां काङ्क्षन्ते पुरुषोत्तमाः ।
येनैतानि गृहे ऽस्माकं निवसन्ति सुनिर्वृताः ॥ ४८।३९ ॥
कुलजो व्यसने मग्नः सखा चार्थबहिः कृतः ।
वृद्धो ज्ञातिर्गुणी विप्रः कीर्तीश्च यशसा सह ॥ ४८।४० ॥
तस्माद् यथैते निवसन्ति पुत्र राज्यस्थितस्येह कुलोद्गताद्याः ।
तथा यत्स्वामलसत्त्वचेष्ट यथा यशस्वी भवितासि लोके ॥ ४८।४१ ॥
भूभ्यां सदा ब्राह्मणभूषितायां क्षत्रान्वितायां दृढवापितायाम् ।
शुश्रुषणासक्तसमुद्भवाया मृद्धिं प्रयान्तीह नराधिपेन्द्राः ॥ ४८।४२ ॥
तस्माद् द्विजाग्र्याः श्रुतिशास्त्रयुक्ता नराधिपांस्ते क्रतुभिर्द्विजेन्द्रा यज्ञाग्निधूमेन नृपस्य शान्तिः ॥ ४८।४३ ॥
तपो ऽध्ययनसम्पन्ना याजनाध्यापने रताः ।
सन्तु विप्रा बले पूज्यास्त्वत्तो ऽनुज्ञामवाप्य हि । ।
४८।४४ स्वाध्याययज्ञनिरता दातारः शस्त्रजीविनः ।
क्षत्रियाः सन्तु दैत्येन्द्र प्रजापालनधर्मिणः ॥ ४८।४५ ॥
यज्ञाध्ययनसम्पन्ना दातारः कृषिकारिणः ।
पाशुपाल्यं प्रकुर्वन्तु वेश्या विपणिजीविनः ॥ ४८।४६ ॥
ब्राह्मणक्षत्रियविशां सदा शुश्रुषणे रताः ।
शूद्राः सन्त्वसुरश्रेष्ठ तवाज्ञाकारिणः सदा ॥ ४८।४७ ॥
यदा वर्णाः स्वधर्मस्था भवन्ति दितिजेश्वर ।
धर्मवृद्धिस्तदा स्याद्वै धर्मवृद्धौ नृपोदयः ॥ ४८।४८ ॥
तस्माद् वर्णाः स्वधर्मस्थास्त्वया कार्याः सदा बले ।
तद्वृद्धौ भवतो वृद्धिस्तद्वानौ हानिरुच्यते ॥ ४८।४९ ॥
इत्थं वचः श्राण्य महासुरेन्द्रो बलिं महात्मा स बभूव तूष्णीम् ।
ततो यदाज्ञापयसे करिष्ये इत्थं बलिः प्राह वचो महर्षे ॥ ४८।५० ॥

इति श्रीवामनपुराणे अष्टचत्वारिंशो ऽध्यायः