पुलस्त्य उवाच ।
एतदर्थं बलिर्दैत्यः कृतो राजा कलिप्रिय ।
मन्त्रप्रदाता प्रह्लादः शुक्रश्चासीत् पुरोहितः ॥ ४७।१ ॥
ज्ञात्वाभिषिक्तं दैतेयं विरोचनसुतं बलिम् ।
दिदृक्षवः समायाताः समयाः सर्व एव हि ॥ ४७।२ ॥
तानागतान्निरीक्ष्यैव पूजयित्वा यताक्रमम ।
पप्रच्छ कुलजान् सर्वान् किन्नु श्रेयस्करं मम ॥ ४७।३ ॥
तमुचुः सर्व एवैनं शृणुष्व सुरमर्दन ।
यत् ते श्रेयस्करं कर्म यदस्माकं हितं तथा ॥ ४७।४ ॥
पितामहस्तव ७ली आसीद् दानवपालकः ।
हिरण्यकशिपुर्वीरः स शक्रो ऽभूज्जगत्त्रये ॥ ४७।५ ॥
तमागम्य सुरश्रेष्ठो विष्णुः सिंहवपुर्धरः ।
प्रत्यक्षं दानवेन्द्राणां नखैस्तं हि व्यदारयत् ॥ ४७।६ ॥
अपकृष्टं तथा राज्यमान्धकस्य महात्मनः ।
तेषामर्थे महाबाहो शङ्करेम त्रिशूलिना ॥ ४७।७ ॥
तथा तव पितृव्यो ऽपि जम्भः शक्रेण घातितः ।
कुजम्भो विष्णुना चापि प्रत्यक्षं पशुवत् तव ॥ ४७।८ ॥
शम्भुः पाको महेन्द्रेण भ्राता तव सुदर्शनः ।
विरोचनस्तव पिता निहतः कथयामि ते ॥ ४७।९ ॥
श्रुत्वा गो६क्षयं ब्रह्मन् कृत शक्रेण दानवः ।
उद्योगं कारयामास सह सर्वैर्महासुरैः ॥ ४७।१० ॥
रथैरन्ये गजैरन्ये वाजिभिश्चापरे ऽसुराः ।
पदातयस्तथैवान्ये जग्मुर्युद्धाय दैवतैः ॥ ४७।११ ॥
मयो ऽग्रे याति बलवान् सेनानाथो भयङ्करः ।
सैन्यस्य मध्ये च बलिः कालनेमिश्च षृष्ठतः ॥ ४७।१२ ॥
वामपार्श्वमवष्टभ्य शालवः प्रथितविक्रमः ।
प्रयाति दक्षिणं घोरं तारकाख्यो भयङ्करः ॥ ४७।१३ ॥
दानवानां सहस्राणि प्रयुतान्यर्बुदानि च। सम्प्रयातानि युद्धाय देवैः सह कलिप्रिय ॥ ४७।१४ ॥
श्रुत्वासुराणामुद्योगं शक्रः सुरपतिः सुरान् ।
उवाच याम दैत्यांस्तान् योद्धुं सबलसंयुतान् ॥ ४७।१५ ॥
इत्येवमुक्त्वा वचनं सुरराट् स्यन्दनं बली ।
समारुरोह भगवान् यतमातलिवाजिनम् ॥ ४७।१६ ॥
समारूढे सहस्राक्षे स्यन्दनं देवतागणः ।
स्वं स्वं वाहनमारुह्य निश्चेरुर्युद्धकाङ्क्षिमः ॥ ४७।१७ ॥
आदित्या वसवो रुद्राः साध्या विश्वे ऽश्विनौ तथा ।
विद्याधरा गुह्यकाश्च यक्षराक्षसपन्नगाः ॥ ४७।१८ ॥
राजर्षयस्तथा सिद्धा नानाभूताश् च संहताः ।
गजानन्ये रथानन्ये हयानन्ये समारुहन् ॥ ४७।१९ ॥
विमानानि च सुभ्राणि पक्षिवाह्यानि नारद ।
समारुह्याद्रवन् सर्वे यतो दैत्यबलं स्थितम् ॥ ४७।२० ॥
एतस्मिन् विष्णुः सुरश्रेष्ठ अधिरुह्य समभ्यगात् ॥ ४७।२१ ॥
तमागतं सहस्राक्षस्त्रैलोक्यपतिमव्ययम् ।
ववन्द मूर्ध्नावनतः सह सर्वैः सुरोत्तमैः ॥ ४७।२२ ॥
ततो ऽग्रे देवसैन्यस्य कार्तिकेयो गदाधरः ।
पालयञ्जघनं विष्णुर्याति मध्ये सहस्रदृक् ॥ ४७।२३ ॥
वामं पार्श्वम्मवष्भ्य जन्तो व्रजते मुने ।
दक्षिणं वरुणः पार्श्वमवष्टभ्याव्रजद् बली ॥ ४७।२४ ॥
ततो ऽमराणां पृतना यशस्विनी स्कन्देन्द्रविष्णुवम्बुपसूर्यपालिता ।
नानास्त्रशस्त्रोद्यतदोःसमूहा समाससादारिबलं महीध्रे ॥ ४७।२५ ॥
उदयाद्रितटे रम्ये शुभे समशिलातले ।
निर्वृक्षे पक्षिरहिते जातो देवासुरो रणः ॥ ४७।२६ ॥
सन्निपातस्तयो रौद्रः सैन्ययोरभवन्मुने ।
महीधरोत्तमे पूर्वं यथा वानरहस्तिनोः ॥ ४७।२७ ॥
रणरेणु रथोद्धूतः पिङ्गलो रणमूर्धनि ।
सन्द्यानुरक्तः सदृशो मेघः खे सुरतापस ॥ ४७।२८ ॥
तदासीत् तुमुलं युद्धं न प्राज्ञायत किञ्चन ।
श्रूयते त्वनिशं शब्दः छिन्धि भिन्धीति सर्वतः ॥ ४७।२९ ॥
ततो विशसनो रौद्रो दैत्यानां दैवतैः सह ।
जातो रुधिरनिष्यन्दो रजःसयमनात्मकः ॥ ४७।३० ॥
शान्ते रजसि देवाद्यास्तद् दानवबलं महत् ।
अभिद्रवन्ति सहिताः समं स्कन्देन धीमता ॥ ४७।३१ ॥
निजघ्नुर्दानवान् देवाः कुमारभुजपालिताः ।
देवान् निजघ्नुर्दैत्याश्च मयगुप्ताः प्रहारिणः ॥ ४७।३२ ॥
ततो ऽमृतरसास्वादाद् विना भूताः सुरत्तमाः ।
निर्जिताः समरे दैत्यैः समं स्कन्देन नारद ॥ ४७।३३ ॥
विनिर्जितान् सुरान् दृष्ट्वा वैनतेयध्वजो ऽरिहा ।
शार्ङ्गमानम्य बाणैघैर्निजघान ततस्ततः ॥ ४७।३४ ॥
ते विष्णुना हन्यमानाः पतत्त्रिभिरयोमुखैः ।
दैतेयाः शरणं जग्मुः कालनेमिं महासुराम् ॥ ४७।३५ ॥
तेभ्यः स चाभयं दत्त्वा ज्ञात्वाजेयं च माधवम् ।
विवृद्धिमगमद् ब्रह्मन् यथा व्याधिरुपेक्षितः ॥ ४७।३६ ॥
यं यं करेण स्पृशति देवं यक्षं सकिन्नरम् ।
तं तमादाय चिक्षेप विस्तृते वदने बली ॥ ४७।३७ ॥
संरम्भाद् दानवेन्द्रो विमृदति दितिजैः संयुतो देवसैन्यं सेन्द्रं सार्क सचन्द्रं करचरणनखैरस्क्षत्रहीनो ऽपि वेगात् ।
चक्रैर्वैश्वानराभैस्त्ववनिगगनयोस्तिर्यगूर्ध्वं समन्तात् प्राप्ते ऽन्ते कालवह्नेर्जगदखिलमिदं रूपमासीद् दिधक्षोः ॥ ४७।३८ ॥
तं दृष्ट्वा वर्द्धमानं रिपमतिबलिनं देवगन्धर्वमुख्याः सिद्धाःसाध्याश्विमुख्या भयतरलदृशः प्राद्रवन् दिक्षु सर्वे ।
पोप्लूयन्तश्च दैत्या हरिममरगणैरर्चितं चारुमौलिं नानाशस्त्रास्त्रपातैर्विगलितयशसञ्चक्रुरुत्सिक्तदर्पाः ॥ ४७।३९ ॥
तानित्थम्प्रेक्ष्य दैत्यान् मयबलिपुरगान् कालनेमिप्रधानान् बाणैराकृष्य शार्ङ्ग त्वनवरतमुरोभेदिबिर्वज्रकल्पैः ।
कोपादारक्तदृष्टिः सरथगजहयान् दृष्टिनिर्धूतवीर्यान् नाराचख्यैः सुपुङ्खैर्जलद् इव गिरीन् छादयामास विष्णुः ॥ ४७।४० ॥
तैर्वाणैश्छाद्यमाना हरिकरनुदितैः कालदण्डप्रकाशैर्नाराचैरर्धचन्द्रैर्बालिमयपुरागा भीतभीतास्त्वारन्तः ।
प्रारम्बे दानवेन्द्रं शतवदनमथो प्रेषयन् कालनेमिं स प्रायाद् देवसैन्यप्रभुममितबलं केशवं लोकनाथम् ॥ ४७।४१ ॥
तं दृष्ट्वा शतशीर्षमुद्यतगदं शैलेन्द्रशृङ्गाकृतिं विष्णुः शार्ङ्गमपास्य सत्वरमथो जग्राह चक्रं करे ।
सो ऽप्येनं प्रसमीक्ष्य दैत्यविटपप्रच्छेदनं मानिनं प्रोवाचाथ विहस्य तं च सुचिरं मेघस्वनो दानवः ॥ ४७।४२ ॥
अयं स दनुपुत्रसैन्यवित्रासकृद्रिषुः परमकोपितः स मधोर्विघातकृत् ।
हिरण्यनयनान्तकः कुसुमपूजारतिः क्व याति मम दृष्टिगोचरे निपतितः खलः ॥ ४७।४३ ॥
यद्येष सम्प्रति ममाहवमभ्युषैति नृनं न याति निलयं निजमम्बुजाक्षः ।
मन्मुष्टिपिष्टशिथिलाङ्गमुपात्तभस्म सन्द्रक्ष्यते सुरजनो भयकातराक्षः ॥ ४७।४४ ॥
इत्येवमुक्त्वा मधुसूदनं वै स कालनेमिः स्फुरिताधरोष्ठः ।
गदां खगेन्द्रोपरि जातकोपो मुमोच शैले कुलिशं यथेन्द्रः ॥ ४७।४५ ॥
तामापतन्तीं प्रसमीक्ष्य विष्णुर्घोरां गदां दानवबाहुमुक्ताम् ।
चक्रेण चिच्छेद सुदुर्गतस्य मनोरथं पूर्वकृतेन कर्म ॥ ४७।४६ ॥
गदां छित्त्वा दानवाभ्याशमेत्य भुजौ पीनौ सम्प्रचिच्छेद वेगात् ।
भुजाभ्यां कृत्ताभ्यां दग्धशैलप्रकाशः सन्दृश्येताप्यपरः कालनेमि ॥ ४७।४७ ॥
ततो ऽस्य माधवः कोपात् शिरश्चक्रेण भूतले ।
छित्त्वा निपातयामास पक्वं तालफलं यथा ॥ ४७।४८ ॥
तथा विबाहुर्विशिरा मुण्डतालो यथा वने ।
तस्थौ मेरुरिवाकम्प्यः कबन्धः क्ष्माधरेश्वरः ॥ ४७।४९ ॥
तं वैनतेयो ऽप्युपसा खगोत्त्मो निपातयामास मुने धरण्याम् ।
यथाम्बराद् बाहुशिरः प्रणष्टबलं महेन्द्रः कुलिशेन भूम्याम् ॥ ४७।५० ॥
तस्मिन् हते दानवसैन्यपाले सम्पीड्यमानास्त्रिदशैस्तु दैत्याः ।
विमुक्तशस्त्रालकचर्मवस्त्राः सम्प्राद्रवन् बाणमृते ऽसुरेन्द्राः ॥ ४७।५१ ॥
इति श्रीवामनपुराणे सप्तचत्वारिंशो ऽध्यायः