नारद उवाच ।
यदमी भवता प्रोक्ता मरुतो दितिजोत्तमाः ।
तत् केन पूर्वमासन् वै मरुन्मार्गेण कथ्यताम् ॥ ४६।१ ॥
पूर्वमन्वन्तरेष्वेव समतीतेषु सत्तम् ।
के त्वासन् वायुमार्गस्थास्तन्मे व्याख्यातुमर्हसि ॥ ४६।२ ॥
पुलस्त्य उवाच ।
श्रूयतां पूर्वमरुतामुत्पत्तिं कथयामि ते ।
स्वायम्भुवं समारभ्य यावन्मन्वन्तरं त्विदम् ॥ ४६।३ ॥
स्वायम्भुवस्य पुत्रो ऽभून्मनोर्नाम प्रियव्रतः ।
तस्यासीत् सवनो नाम पुत्रस्त्रैलोक्यपूजितः ॥ ४६।४ ॥
स चानपत्यो देवर्षे नृपः प्रेतगतिं गतः ।
ततो ऽरुदत् तस्य पत्नी सुदेवा शोकविह्वला ॥ ४६।५ ॥
न ददाति तदा दग्धुं समालिङ्ग्य स्थिता पतिम् ।
नाथ नातेति बहुशो विलपन्ती त्वनाथवत् ॥ ४६।६ ॥
तामन्तरिक्षादशरीरिणी वाक् प्रोवाच मा राजपत्नीह रोदीः ।
यद्यस्ति ते सत्यमनुत्तमं तदा भवत्वयं ते पतिना सहाग्निः ॥ ४६।७ ॥
सा तां वाणीमन्तरिक्षान्निशम्य प्रोवाचेदं राजपुत्री सुदेवा ।
शोचाम्येनं पार्थिवं पुत्रहीनं नैवात्मानं मन्दभाग्यं विहङ्ग ॥ ४६।८ ॥
सो ऽथाब्रवीन्मा रुदस्वायताक्षि पुत्रास्त्वत्तो भूमिपालस्य सप्त ।
भविष्यन्ति वह्निमारोह शीघ्रं सत्यं प्रोक्तं श्रद्दधत्स्व त्वमद्य ॥ ४६।९ ॥
इत्येवमुक्ता खचरेण बाला चितौ समारोप्य पितं वरार्हम् ।
हुताशमासाद्य पतिव्रता तं सञ्चिन्तयन्ती ज्वलनं प्रवनन्ना ॥ ४६।१० ॥
ततो मुहूर्तान्नृपतिः श्रिया युतः समुत्तस्थौ सहितो भार्ययासौ ।
खमुत्पपाताथ स कामचारी समं महिष्या च सुनाभपुत्र्या ॥ ४६।११ ॥
तस्याम्बरे नारद पार्थिवस्य जाता रजोगा महिषी तु गच्छतः ।
स दिव्ययोगात् प्रतिसंस्थितो ऽम्बरे भार्यासहायो दिवसानि पञ्च ॥ ४६।१२ ॥
ततस्तु षष्ठे ऽहनि पार्थिवेन ऋतुर्न वन्ध्यो ऽद्य भवेद् विचिन्त्य ।
रराम तन्व्या सह कामचारी ततो ऽम्बरात् प्राच्यवतास्य शुक्रम् ॥ ४६।१३ ॥
शुक्रोत्सर्गावसाने तु नृपतिर्भार्यया सह ।
जगाम दिव्यया गत्या ब्रह्मलोकं तपोधन ।
। ।
४६।१४ ॥
तदम्बरात् प्रचलितमभ्रवर्णं शुक्रं समाना नलिनी वपुष्मती ।
चित्रा विशाला हरितालिनी च सप्तर्षिपत्न्यो ददृशुर्यथेच्छया ॥ ४६।१५ ॥
तद् दृष्ट्वा पुष्करे न्यस्तं प्रत्यैच्छन्त तपोधन ।
मन्यमानास्तदमृतं सदा यौवनलिप्सया ॥ ४६।१६ ॥
ततः स्नात्वा च विधिवत् सम्पूज्य तान् निजान् पतीन् ।
पतिभिः समनुज्ञाताः पपुः पुष्करसंस्थितम् ॥ ४६।१७ ॥
तच्छुक्रं पार्थिवेन्द्रस्य मन्यमानास्तदामृतम् ।
पीतमात्रेण शुक्रेण पार्थिवेन्द्रोद्भवेन ताः ॥ ४६।१८ ॥
ब्रह्मतेजोविहीनास्ता जाताः पत्न्यस्तपस्विताम् ।
ततस्तु तत्यजुः सर्वे सदोषास्ताश्च पत्नयः ॥ ४६।१९ ॥
सुषुवुः सप्त तनयान् रुदतो भैरवं मुने ।
तेषां रुदितशब्देन सर्वमापूरितं जगत् ॥ ४६।२० ॥
अथाजगाम भगवान् ब्रह्म लोकपितामहः ।
समभ्येत्याब्रवीद् बालान् मा रुदध्वं महाबलाः ॥ ४६।२१ ॥
मरुतो नाम यूयं वै भविष्यध्वं वियच्चराः ।
इत्येवमुक्त्वा देवेशो ब्रह्म लोकपितामहः ॥ ४६।२२ ॥
तानादाय वियच्चारी मारुतानादिदेश ह ।
ते त्वासन् मरुतस्त्वाद्या मनोः स्वायम्भुवे ऽन्तरे ॥ ४६।२३ ॥
स्वारेचिषे तु मरुतो वक्ष्यामि शृणु नारद ।
स्वारोचिषस्य पुत्रस्तु श्रीमानासीत् क्रतुध्वजः ॥ ४६।२४ ॥
तस्य पुत्राभवन् सप्त सप्तार्च्चिःप्रतिमा मुने ।
तपोर्ऽथं ते गताः शैलं महामेरुं नरेश्वराः ॥ ४६।२५ ॥
आराधयन्तो ब्रह्मणं पदमैन्द्रमथेप्सवः ।
ततो विपश्चिन्नामाथ सहस्राक्षो भयातुरः ॥ ४६।२६ ॥
पूतनामप्सरोमुख्यां प्राह नारद वाक्यवित् ।
गच्छस्व पूतने शैलं महामेरुं विशालिनम् ॥ ४६।२७ ॥
तत्र तप्यन्ति हि तपः क्रतुध्वजसुता महत् ।
यथा हि तपसो विघ्नं तेषां भवति सुन्दरि ॥ ४६।२८ ॥
तथा कुरुष्व मा तेषां सिद्धिर्भवतु सुन्दरि ।
इत्येवमुक्ता शक्रेण पूतना रूपशालिनी ॥ ४६।२९ ॥
तत्राजगाम त्वरिता यत्रातप्यन्त ते तपः ।
आश्रमस्याविदूरे तु नदी मन्दोदवाहिनी ॥ ४६।३० ॥
तस्यां स्नातुं समायाताः सर्व एव सहोदराः ।
सापि स्नातुं सुचार्वङ्गी त्ववतीर्णा महानदीम् ॥ ४६।३१ ॥
ददृशुस्ते नृपाः स्नातां ततश्चुक्षुभिरे मुने ।
तेषां च प्राच्यवच्छुक्रं तत्पपौ जलचारिणी ॥ ४६।३२ ॥
शङ्खिना ग्राहमुख्यस्य महाशङ्खस्य वल्लभा ।
ते ऽपि विभ्रष्टतपसो जग्मू राज्यं तु षैतृकम् ॥ ४६।३३ ॥
सा चापसराः शक्रमेत्य याथातथ्यं न्यवेदयत् ।
ततो बहुतिथे काले सा ग्राही शङ्खरूपिणी ॥ ४६।३४ ॥
समुद्धृता महाजालौर्मत्स्यबन्धेन मानिनी ।
स तां दृष्ट्वा महाशङ्खी स्थलास्थां मत्स्यजीविकः ॥ ४६।३५ ॥
निवेदयामास तदा क्रतुध्वजसुतेषु वै ।
तथाभ्येत्य महात्मानो योगिनो योगधारिणः ॥ ४६।३६ ॥
नीत्वा स्वमन्दिरं सर्वे पुरवाप्यां समुत्सृजन् ।
ततः प्रमाच्छङ्खिनी सी सुषुवे सप्त वै शिशून् ॥ ४६।३७ ॥
जातमात्रेषु पुत्रेषु मोक्षभावमगाच्च सा ।
अमातृपितृका बाला जलमध्यविहारिणः ॥ ४६।३८ ॥
स्तान्यार्थिनो वै रुरुदुराथाभ्यागात् पितामहः ।
मा रुदध्वमितीत्याह मरुतो नाम पुत्रकाः ॥ ४६।३९ ॥
यूयं देवा भविष्यध्वं वायुस्कन्धविचारिणः ।
इत्येवमुक्त्वाथादाय सर्वास्तान् दैवतान् प्रति ॥ ४६।४० ॥
नियोज्य च मरुमार्गे वैराजं भवनं गतः ।
एवमासंश्च मरुतो मनोः स्वारोचिषे ऽन्तरे ॥ ४६।४१ ॥
उत्तमे मरुतो ये च ताञ्छृणुष्व तपोधन ।
उत्तमस्यान्ववाये तु राजासीन्निषधाधिपः ॥ ४६।४२ ॥
वपुष्मानिति विख्यातो वपुषा भास्करोपमः ।
तस्य पुत्रो गुणश्रेष्ठो ज्योतिष्मान् धार्मिको ऽभवत् ॥ ४६।४३ ॥
स पुत्रार्थो तपस्तेपे नदीं मन्दाकिनीमनु ।
तस्य भार्या च सुश्रोणी देवाचार्यासुता शुभा ॥ ४६।४४ ॥
तपश्चारणयुक्तस्य बभूव परिचारिका ।
सा स्वयं फलपुष्पाम्बुसमित्कुशं समाहरत् ॥ ४६।४५ ॥
चकार पद्मपत्राक्षी सम्यक् चातिथिपूजनम् ।
पतिं शुश्रूषमाणा सा कृशा धमनिसन्तता ॥ ४६।४६ ॥
तेजोयुक्ता सुचार्वङ्गीं दृष्टा सप्तर्षिभिर्वने ।
तां तथा चारुसर्वाङ्गीं दृष्ट्वाथ तपसा कृसाम् ॥ ४६।४७ ॥
पप्रच्छुस्तपसो हेतुं तस्यास्तद्भर्तुरेव च ।
साब्रवीत् तनयार्थाय आवाभ्यां वै तपःक्रिया ॥ ४६।४८ ॥
ते चास्यै वरदा ब्रह्मन् जाताः सप्त सहर्षयाः ।
व्रजध्वं तनयाः सप्त भविष्यन्ति न सशं यः ॥ ४६।४९ ॥
युवयोर्गुणसंयुक्ता महर्षीणां प्रसादतः ।
इत्येवमुक्त्वा जग्मुस्ते सर्व एव महर्षयः ॥ ४६।५० ॥
स चापि राजर्षिरगात् सभार्यो नगरं निरम् ।
ततो बहुतिथे काले सा राज्ञो महिषी प्रिया ॥ ४६।५१ ॥
अवाप गर्भं तन्वङ्गी तस्मान्नृपतिसत्तमात् ।
गुर्विण्यामथ भार्यायां ममारासौ नराधिपः ॥ ४६।५२ ॥
सा चाप्यारोढुमिच्छन्ती भर्तारं वै पतिव्रता ।
निवारिता तदामात्यैर्न तथापि व्यतिष्ठता ॥ ४६।५३ ॥
समारोप्याथ भर्तारं चितायामारुहच्च सा ।
ततो ऽग्निमध्यात् सलिले मांसपेश्यपतन्मुने ॥ ४६।५४ ॥
साम्भसा सुखशीतेन संसिक्ता सप्तधाभवत् ।
ते ऽजायन्ताथ मरुत उत्तमस्यान्तरे मनोः ॥ ४६।५५ ॥
तामसस्यान्तरे ये च मरुतो ऽप्यभवन् पुरा ।
तानहं कीर्तयिष्यामि गीतनृत्यकलिप्रिय ॥ ४६।५६ ॥
तामसस्य मनोः पुत्रो ऋतध्वज इति श्रुतः ।
स पुत्रर्थो जुहावाग्नौ स्वमांसं रुधिरं तथा ॥ ४६।५७ ॥
अस्थीनि रोमकेशांश्च स्नायुमज्जायकृद्ःअनम् ।
शुक्रं च चित्रगौ राजा सुतार्थो इति नः श्रुतम् ॥ ४६।५८ ॥
सप्तस्वेवार्चिषु ततः शुक्रपातादनन्तरम् ।
मा मा क्षिपस्वेत्यभवच्छब्दः सो ऽपि मृतो नृपः ॥ ४६।५९ ॥
ततस्तस्माद्धुतवहात् सप्त तत्तेजसोपमाः ।
शिशवः समजायन्त ते रुदन्तो ऽभवन् मुने ॥ ४६।६० ॥
तेषां तु ध्वनिमाकर्ण्य भगवान् पद्मसम्भवः ।
समागम्य निवार्य्याथ स चक्रे मरुतः सुतान् ॥ ४६।६१ ॥
ते त्वासन् मरुतो ब्रह्मंस्तमसे देवतागणाः ।
ये ऽभवन् रैवते तांश्च शृणुष्व त्वं तपोधनः ॥ ४६।६२ ॥
रैवतस्यान्ववाये तु राजासीद् रिपुजिद् वशी ।
रिपुजिन्नामतः ख्यातो न तस्यासीत् सुतः किल ॥ ४६।६३ ॥
स समाराध्य तपसा भास्करं तेजसां निधिम् ।
अवाप कन्यां सुरतिं तां प्रगृह्य गृहं ययौ ॥ ४६।६४ ॥
तस्यां पितृगृहे ब्रह्मन् वसन्त्यां स पिता मृतः ।
सापि दुःखपरीताङ्गीं स्वां तनुं त्यक्तुमुद्यता ॥ ४६।६५ ॥
ततस्तां वारयामासुरृषयः सप्त मानसाः ।
तस्यामासक्तचित्तास्तु सर्व एव तपोधनाः ॥ ४६।६६ ॥
अपारयन्ती तद्दुःखं प्रज्वाल्याग्निं विवेश ह ।
ते चापश्यन्त ऋषयस्तच्चित्ता भावितास्तथा ॥ ४६।६७ ॥
तां मृतामृषयो दृष्ट्वा कष्टं कष्टेति वादिनः ।
प्रजग्मुर्ज्वलनाच्चापि सप्ताजायन्त दारकाः ॥ ४६।६८ ॥
ते च मात्रा विनाभूता रुरुदुस्तान् पितामहः ।
निवारयित्वा कृतवांल्लोकनाथो मरुद्गणान् ॥ ४६।६९ ॥
रैवतस्यान्तरे जाता मरुतो ऽमी तपोधन ।
शृणुष्व कीर्तयिष्यामि चाक्षुषस्यान्तरे मनोः ॥ ४६।७० ॥
आसीन्मङ्किरिति ख्यातस्तपस्वी सत्यवाक् शुचिः ।
सप्तसारस्वते तीर्थे सो ऽतप्यत महत् तपः ॥ ४६।७१ ॥
विघ्नार्थं तस्य तुषिता देवाः सम्प्रेषयन् वपुम् ।
सा चाभ्येत्य नदीतीरे क्षोभयामास भामिनी ॥ ४६।७२ ॥
ततो ऽस्य प्राच्यवच्छ्रुक्रं सप्तसारस्वते जले ।
तां चैवाप्यशपन्मूढां मुनिर्मङ्कणको वपुम् ॥ ४६।७३ ॥
गच्छ लब्धासि मूढे त्वं पापस्यास्य महत् फलम् ।
विध्वंसयिष्यति हयो भवतीं यज्ञसंसदि ॥ ४६।७४ ॥
एवं शप्त्वा ऋषिः श्रीमान् जगामाथ स्वमाश्रमम् ।
सरस्वतीभ्यः सप्तभयः सप्त वै मरुतो ऽभवन् ॥ ४६।७५ ॥
एतत् तवोक्ता मरुतः पुरा यथा जाता वियद्व्याप्तिकरा महर्षे ।
येषां श्रुते जन्मनि पापहानिर्भवेच्च धर्माभ्युदयो महान् वै ॥ ४६।७६ ॥
इति श्रीवामुपुराणे षट्चत्विरिंशो ऽध्यायः