नारद उवाच ।
मलये ऽपि महेन्द्रेण यत्कृतं ब्राह्मणर्षभ ।
निष्पादितं स्वकं कार्यं तन्मे व्याख्यातुमर्हसि ॥ ४५।१ ॥
पुलस्त्य उवाच ।
श्रूयतां यन्महेन्द्रेण मलये पर्वतोत्तमे ।
कृतं लोकहितं ब्रह्मन्नात्मनश्च तथा हितम् ॥ ४५।२ ॥
अन्धासुरस्यानुचरा मयतापुरोगमाः ।
ते निर्जिताः सुरगणैः पातालगमनोत्सुकाः ॥ ४५।३ ॥
ददृशुर्मलयं शैलं सिद्धाध्युषितकन्दरम् ।
लतावितासञ्छन्नं मत्तसत्त्वसमाकुलम् ॥ ४५।४ ॥
चन्दनैरुरगाक्रान्तैः सुशीतैरभिसेवितम् ।
माधवीकुसुमामोदं ऋष्यर्चितहरं गिरिम् ॥ ४५।५ ॥
तं दृष्ट्वा शीतलच्छायं श्रान्ता व्यायामकर्षिताः ।
मयतारपुरोगास्ते निवासं समरोचयन् ॥ ४५।६ ॥
तेषु तत्रोपविष्टेषु प्राणतृप्तिप्रदो ऽनिलः ।
विवाति शीतः शनकैर्दक्षिणो गन्धसंयुतः ॥ ४५।७ ॥
तत्रैव च रतिं चक्रः सर्व एव महासुराः ।
कुर्वन्तो लोकसम्पूज्ये विद्धेषं देवतागणे ॥ ४५।८ ॥
ताञ्ज्ञात्वा शङ्करः शक्रं प्रेषयन्मलये ऽसुरान् ।
स चापि ददृशे गच्छन् पथि गोमातरं हरिः ॥ ४५।९ ॥
तस्याः प्रदक्षिणां कृत्वा दृष्ट्वा शैलं च सुप्रभम् ।
ददृशे दानवान् सर्वान् संहृष्टान् भोगसंयुतान् ॥ ४५।१० ॥
अथाजुहाव बलहा सर्वानेव महासुरान् ।
ते चाप्याययुरव्यग्रा विकिरन्तः शेरोत्करान् ॥ ४५।११ ॥
तानागतान् बाणजालैः रथस्थो ऽद्भुतदर्शना ।
छादयामास विप्रर्षे गिरीन् वृष्ट्या यथा घनः ॥ ४५।१२ ॥
ततो बाणैरवच्छाद्य मयादीन् दानवान् हरिः ।
पाकं जघान तीक्ष्णाग्रैर्मार्गणैः कङ्गवाससैः ॥ ४५।१३ ॥
तत्र नाम विभुर्लोभे शासनत्वात् शरैर्दृढैः ।
पाकशासनतां शक्रः सर्वामरपतिर्विभुः ॥ ४५।१४ ॥
तथान्यं पुरनामानं बाणासुरसुतं शरैः ।
सुपुङ्खैर्दारयामास ततो ऽभूत् स पुरन्दरः ॥ ४५।१५ ॥
हत्वेत्थं समरे ऽजैषीद् गोत्रभिद् दानवं बलम् ।
तच्चापि विजितं ब्रह्मन् रसातलमुपागमत् ॥ ४५।१६ ॥
एतदर्थं सहस्राक्षः प्रेषितो मलयाचलम् ।
त्र्यम्बकेन मुनिश्रेष्ठ किमन्यच्छ्रोतुमिच्छसि ॥ ४५।१७ ॥
नारद उवाच ।
किमर्थं दैवतपतिर्गौन्त्रभित् कथ्यते हरिः ।
एष मे संशयो ब्रह्मन् हृदि सम्परिवर्तते ॥ ४५।१८ ॥
पुलस्त्य उवाच ।
श्रुयतां गोत्रभिच्छक्रः कीर्तितो हि यथा मया ।
हते हिरण्यकशिपौ यच्चकारारिमर्दनः ॥ ४५।१९ ॥
दितिर्विनष्टपुत्रा तु कश्यपं प्राह नारद ।
विभो नाथो ऽसि मे देहि शक्रहन्तारमात्मजम् ॥ ४५।२० ॥
कश्यपस्तामुवाचाथ यदि त्वमसितेक्षणे ।
शौचाचारसमायुक्ता स्थास्यसे दशतीर्दश ॥ ४५।२१ ॥
संवत्सराणां दिव्यानां ततस्त्रैलोक्यनायकम् ।
जनयिष्यसि पुत्रं त्वं शत्रुघ्नं नान्यथा प्रिये ॥ ४५।२२ ॥
इत्येवमुक्ता सा भर्त्रा दितिर्नियममास्थिता ।
गर्भाधानं ऋषिः कृत्वा जगामोदयपर्वतम् ॥ ४५।२३ ॥
गते तस्मिन् मुनिश्रेष्ठे सहस्राक्षो ऽपि सत्वरम् ।
तमाश्रममुपागम्य दितिं वचनमब्रवीत् ॥ ४५।२४ ॥
करिष्याम्यनुशुश्रूषां भवत्या यदि मन्यसे ।
बाञमित्यब्रवीद् देवी भाविकर्मप्रचोदिता ॥ ४५।२५ ॥
समिदाहरणादीनि तस्याश्चक्रे पुरन्दरः ।
विनीतात्मा च कार्यार्था छिद्रान्वेषी भुजङ्गवत् ॥ ४५।२६ ॥
एकदा सा तपोयुक्ता शौचे महति संस्थिता ।
दशवर्षशतान्ते तु शिरःस्नाता तपस्विनी ॥ ४५।२७ ॥
जानुभ्यामुपरि स्थाप्य मुक्तकेशा निजं शिरः ।
सुष्वाप केशप्रान्तैस्तु संश्लिष्टचरणाभवत् ॥ ४५।२८ ॥
तमन्तरमशौचस्य ज्ञात्वा देवः सहस्रदृक् ।
विवेश मातुरुदरं नासारन्ध्रेण नारद ॥ ४५।२९ ॥
प्रविश्य जठरं क्रुद्धो दैत्यमातुः पुरन्दरः ।
ददर्शोर्ध्वमुकं बालं कटिन्यस्तकरं महत् ॥ ४५।३० ॥
तस्यैवास्ये ऽथ ददृशे पेशीं मांसस्य वासवः ।
शुद्धस्फटिकसङ्काशां कराभ्यां जगृहे ऽथ ताम् ॥ ४५।३१ ॥
ततः कोपसमाध्मातो मांसपेशीं शतक्रतुः ।
कराभ्यं मर्दयामास ततः सा कठिनाभवत् ॥ ४५।३२ ॥
ऊर्ध्वेनार्धं च ववृधे त्वधोर्ऽधं ववृधे तथा ।
शतपर्वाथ कुलिशः सञ्जातो मांसपेशितः ॥ ४५।३३ ॥
तेनैव गर्भं दितिजं वज्रेण शतपर्वणा ।
चिच्छेद सप्तधा ब्रह्मन् स रुरोद च विस्वरम् ॥ ४५।३४ ॥
ततो ऽपयबुध्यत दितिरजानाच्छक्रचोष्टितम् ।
शुश्राव वाचं पुत्रस्य रुदमानस्य नारद ॥ ४५।३५ ॥
शक्रो ऽपि प्राह मा मूढ रुदस्वेति सुघर्घरम् ।
इत्येवमुक्त्वा चैकैकं भूयश्चिच्छेद सप्तधा ॥ ४५।३६ ॥
ते जाता मरुतो नाम देवभृत्याः शतक्रतोः ।
मातुरेवापचारेण चलन्ते ते पुरस्कृताः ।
४५।३७ ततः सकुलिशः शक्रो निर्गम्य जठरात् तदा ।
दितिं कृताञ्जलिपुटः प्राह भीतस्तु शापतः ॥ ४५।३८ ॥
ममास्ति नापराधो ऽयं यच्छास्तस्तनयस्तव ।
तवैवापनयाच्छस्तस्तन्मे न क्रोद्धमर्हसि ॥ ४५।३९ ॥
दितिरुवाच ।
न तावत्रापराधो ऽस्ति मन्ये दिष्टमिदं पुरा ।
सम्पूर्णे त्वपि काले वै या शौचत्वमुपागता ॥ ४५।४० ॥
पुलस्त्य उवाच ।
इत्येवमुक्त्वा तान् बालान् परिसान्त्व्य दितिः स्वयम् ।
देवाराज्ञा सहैतांस्तु प्रेषयामास भामिनि ॥ ४५।४१ ॥
एवं पुरा स्वानपि सोदरान् स गर्भस्थितानुज्जरितुं भयार्तः ।
बिभेद वज्रेण ततः स गोत्रभित् ख्यातो महर्षे भगवान् महेन्द्रः ॥ ४५।४२ ॥
इति श्रीवामनपुराणे पञ्चचत्वारिंशो ऽध्यायः