४३

पुलस्त्य उवाच ।
ततः स्वैसैन्यमालक्ष्य निहतं प्रमथैरथ ।
अन्धको ऽभ्येत्य शुक्रं तु इदं वचनमब्रवीत् ॥ ४३।१ ॥
भगवंस्त्वां माश्रित्य वयं बाधाम देवताः ।
अथान्यानपि विप्रर्षे गन्धर्वसुरकिन्नरान् ॥ ४३।२ ॥
तदियं पश्य भगवन् मया गुप्ता वरूथिनी ।
अनाथेन यथा नारी प्रमथैरपि काल्यते ॥ ४३।३ ॥
कुजम्भाद्याश्च निहता भ्रातरो मम भार्गव ।
अक्षयाः प्रमथाश्चामी कुरुक्षेत्रफलं यथा ॥ ४३।४ ॥
तस्मात् कुरुष्व श्रेयो नो न जीयेम यथा परैः ।
जयेम च परान् युद्धे तथा त्वं कुर्तुमर्हसि ॥ ४३।५ ॥
शुक्रो ऽन्धकवचः श्रुत्वा सान्त्वयन् परमाद्भुतम् ।
वचनं प्राह देवर्षे ब्रह्मर्षिर्दानवेश्वरम् ।
त्वद्धितार्थ यतिष्यामि करिष्यामि तव प्रियम् ॥ ४३।६ ॥
इत्येवमुक्त्वा वचनं विद्यां सञ्जीवनीं कविः ।
आर्वतयामास तदा विधानेन शुचिव्रतः ॥ ४३।७ ॥
तस्यामावर्त्यमानायां विद्यायामसुरेश्वराः ।
ये हताः प्रथमं युद्धे दानवास्ते समुत्थिताः ॥ ४३।८ ॥
कुजम्भादिषु दैत्येषु नन्दी शङ्करमब्रवीत् ।
युद्धायाभ्यागतेष्वेव नन्दी शङ्करमब्रवीत् ॥ ४३।९ ॥
महादेव वचो मह्यं शृणु त्वं परमाद्भुतम् ।
अविचिन्त्यमसह्यं च मृतानां जीवनं पुनः ॥ ४३।१० ॥
ये हताः प्रमथैर्दैत्या यथाशक्त्या रणाजिरे ।
ते समुज्जीविता भूयो भार्गावेणाथ विद्याया ॥ ४३।११ ॥
तदिदं तैर्महादेव महत्कर्म कृतं रणे ।
सञ्जातं स्वल्पमेवेश शुक्रविद्याबलाक्षयम् ॥ ४३।१२ ॥
इत्येवमुक्ते वचने नन्दिना कुलनन्दिना ।
प्रत्युवाच प्रभुः प्रीत्य स्वार्थसाधनमुत्तमम् ॥ ४३।१३ ॥
गच्छ सुक्रं गणपते ममान्तिकमुपानय ।
अहं तं संयमिष्यामि यथायोगं समेत्य हि ॥ ४३।१४ ॥
इत्येवमुक्तो रुद्रेण नन्दी गणपतिस्ततः ।
समाजगाम दैत्यानां चमुं शुक्रजिघृक्षया ॥ ४३।१५ ॥
तं ददर्शासुरश्रेष्ठो बलवान् हयकन्धरः ।
संरुरोध तदा मार्गं सिहस्येव पशुर्वने ॥ ४३।१६ ॥
समुपेत्याहनन्नन्दी वज्रेण शतपर्वणा ।
स पपाताथ निःसञ्ज्ञो ययौ नन्दी ततस्त्वरन् ॥ ४३।१७ ॥
ततः कुजम्भो जम्भश्च बलो वृत्रस्त्वयःशिराः ।
पञ्च दानवशार्दुला नन्दिनं समुपाद्रवन् ॥ ४३।१८ ॥
तथान्ये दानवश्रेष्ठ मयह्लादपुरोगमाः ।
नानाप्रहरणा युद्धे गणनाथमभिद्रवन् ॥ ४३।१९ ॥
ततो गणानामधिपं कुट्यमानं महाबलैः ।
समपश्यन्त देवास्तं पितामहपुरोगमाः ॥ ४३।२० ॥
तं दृष्ट्वा भगवान् ब्रह्म प्राह शक्रपुरोगमान् ।
साहाय्यं क्रियतां शम्भोरेतदन्तरमुत्तमम् ॥ ४३।२१ ॥
पितामहोक्तं वचनं श्रुत्वा देवाः सवासवाः ।
समापतन्त वेगेन शिवसैन्यमथाम्बरात् ॥ ४३।२२ ॥
तेषामापततां वेगः प्रमथानां बले बभौ ।
आपगानां महावेगं पतन्तीनां महार्णवे ॥ ४३।२३ ॥
ततो हलहलाशब्दः समजायत चोभयोः ।
बलयोर्घोरसङ्काशो सुरप्रमथयोरथ ॥ ४३।२४ ॥
तमन्तरमुपागम्य नन्दी सङ्गृह्य वेगवान् ।
रथाद् भार्गवमाक्रामत् सिंहः क्षुद्रमृगं यथा ॥ ४३।२५ ॥
तमादाय हराभ्याशमागमद् गणनायकः ।
निपात्य रक्षिणः सर्वानथ शुक्रं न्यवेदयत् ॥ ४३।२६ ॥
तमानीतं कविं शर्वः प्राक्षिपद् वदने प्रभुः ।
भार्गवं त्वावृततनुं जठरे स न्यवेशयत् ॥ ४३।२७ ॥
स शम्भुना कविश्र्ष्ठो ग्रस्तो जठरमास्थितः ।
तुष्टाव भगवान्तं तं मुनिर्वाग्भिरथादरात् ॥ ४३।२८ ॥
शुक्र उवाच ।
वरदाय नमस्तुभ्यं हराय गुणशालिने ।
शङ्कराय महेशाय त्र्यम्बकाय नमो नमः ॥ ४३।२९ ॥
जीवनाय नमस्तुभ्यं लोकनाथ वृषाकपे ।
मदनाग्ने कालशत्रो वामदेवाय ते नमः ॥ ४३।३० ॥
स्थाणवे विश्वरूपाय वामनाय सदागते ।
महादेवाय शर्वाय ईश्वराय नमो नमः ॥ ४३।३१ ॥
त्रिनयन हर भव शङ्कर उमापते जीमूतकेतो शुहागृह श्मशाननिरत भूतिविलेपन सूलपाणे पशुपते गोपते तत्पुरुषसत्त्म नमो नमस्ते ।
इत्थं स्तुतः कविवरेम हरो ऽथ भक्त्या प्रीतो वरं वरय दद्मि तवेत्युवाच ।
स प्राह देववर देहि वरं ममाद्य यद्वै तवैव जठरात् प्रतिनिर्गमो ऽस्तु ॥ ४३।३२ ॥
ततो हरो ऽक्षीणि तदा निरुध्य प्राह द्विजेन्द्राद्य विनिर्गमस्व ।
इत्युक्तमात्रो विभुना चचार देवोदरे भार्गवपुङ्गवस्तु ॥ ४३।३३ ॥
परिभ्रमन् ददर्शाथ शम्भोरेवोदरे कविः ।
भुवनार्णवपातालान् वृतान् स्थावरजङ्मैः ॥ ४३।३४ ॥
आदित्यान् वसवो रुद्रान् विश्वेदेवान् गणांस्तथा ।
यक्षान् किम्पुरुषाद्यादीन् गन्धर्वाप्सरसां गणान् ॥ ४३।३५ ॥
मुनीन् मनुजसाध्यांश्च पशुकीटपिपीलिकान् ।
वृक्षगुल्मान् गिरीन् वल्ल्यः फलमूलौषधानि च ॥ ४३।३६ ॥
स्थालस्थांश्च जलस्थांश्चानिमिषान्निमिषानपि ।
चतुष्पदान् सद्विपदान् स्थावरान् जङ्गमानपि ॥ ४३।३७ ॥
अव्यक्तांश्चैव व्यक्तांश्च सगुणान्निर्गुणानपि ।
स दृष्ट्वा कौतुकाविष्टः परिबभ्राम भार्गवः ।
तत्रासतो भार्गवस्य दिव्यः संवत्सरो गतः ॥ ४३।३८ ॥
न चानमलभद् ब्रह्मंस्ततः श्रान्तो ऽभवत् कविः ।
स श्रन्तं वीक्ष्य चात्मानं नालभन्निर्गमं वशी ।
भिक्तिनम्रो महादेवं शरणं समुपागम् ॥ ४३।३९ ॥
शुक्र उवाच। ।
विश्वरूप महारूप विश्वरूपाक्षसूत्रधृक् ।
सहस्राक्ष महादेव त्वामहं शरणं गतः ॥ ४३।४० ॥
नमो ऽस्तु ते शङ्कर शर्व शम्भो सहस्रनेत्राङ्घ्रिभुजङ्गभूषण ।
दृष्ट्वैव सर्वान् भुवनांस्तवोदरे श्रान्तो भवन्तं शरणं प्रपन्नः ॥ ४३।४१ ॥
इत्येवमुक्ते वचने महात्मा शम्भुर्वचः प्राह ततो विहस्य ।
निर्गच्छ पुत्रो ऽसि ममाधुना त्वं शिश्नेन भो भार्गववंशचन्द्र ॥ ४३।४२ ॥
नाम्ना तु शुक्रेति चराचरास्त्वां स्तोष्यन्ति नैवात्र विचारमन्यत् ।
इत्येवमुक्त्वा भगवान् मुमोच शिश्नेन शुक्रं स च निर्जगाम ॥ ४३।४३ ॥
विनिर्गतो भार्गाववंशचन्द्रः शुक्रत्वमापद्य महानुभावः ।
प्रणम्य शम्भुं स जगाम तूर्ण महासुराणां बलमुत्तमौजाः ॥ ४३।४४ ॥
भार्गवे पुनरायाते दानवा मुदिताभवन् ।
पुनर्युद्धाय विदधुर्मतिं सह गणेश्वरैः ॥ ४३।४५ ॥
गणेश्वरास्तानसुरान् सहामरागणैरथ ।
युयुधुः सङ्कुलं युद्धं सर्व एव जयेप्सवः ॥ ४३।४६ ॥
ततो ऽसुरगणानां च देवतानां च युध्यताम् ।
द्वन्द्वयुद्धूं समभवद् घोररूपं तपोधन ॥ ४३।४७ ॥
अन्धको नन्दिनं युद्धं शङ्कुकर्णं त्वयःशिराः ।
कुम्भध्वजं बलिर्धीमान् नन्दिषेणं विरोचनः ॥ ४३।४८ ॥
अश्वग्रीवो विशाखं च शाखो वृत्रमयोधयत् ।
वाणस्तथा नैगमेयं बलं राक्षसपुङ्गवः ॥ ४३।४९ ॥
विनायको माहावीर्य परश्वधधरो रणे ।
सङ्क्रुद्धो राक्षसश्रेष्ठं तुहुण्डं समयोधयत् ।
दुर्योधनश्च बलिनं घण्टाकर्णमयोधयत् ॥ ४३।५० ॥
हस्ती च कुण्डजठरं ह्लादो वीरं घटोदरम् ।
एते हि बलिनां श्रेष्ठा दानवाः प्रमथास्तथा ।
संयोधयन्ति देवर्षे दिव्याब्दानां शतनि षट् ॥ ४३।५१ ॥
शतक्रतुमथायान्तं वज्रपाणिमभिस्थितम् ।
वारयामास बलवान् जम्भो नाम महासुरः ॥ ४३।५२ ॥
सम्भुनामासुरपतिः स ब्रह्मणमयोधयत् ।
महौजसं कुजम्भश्च विष्णुं दैत्यान्तकारिणम् ॥ ४३।५३ ॥
विवस्वन्तं रणे शाल्वो वरुणं त्रिशिरास्तथा ।
द्विमूर्धा पवनं सोमं राहुर्मित्रं विरूपधृक् ॥ ४३।५४ ॥
अष्टौ ये वसवः ख्याता धराद्यास्ते महासुरान् ।
अष्टावेव महेष्वासान् वारयामासुराहवे ॥ ४३।५५ ॥
सरभः शलक्षः पाकः पुरो ऽथ विपृथुःपृथुः ।
वातापि चेल्वलश्चैव नानाशस्त्रास्त्रयोधिनः ॥ ४३।५६ ॥
विश्वेदेवगणान् सर्वान् विष्वक्सेनपुरोगमान् ।
एक एव रणे रौद्रः कालनेमिर्महासुरः ॥ ४३।५७ ॥
एकादशैव ये रुद्रास्तानेको ऽपि रणोत्कटः ।
योधयामास तेजस्वी विद्युन्माली महासुरः ॥ ४३।५८ ॥
द्वावश्विनौ च नरको भास्करानेव शम्बरः ।
साध्यान् मरुद्गणांश्चैव निवातकवचादयः ॥ ४३।५९ ॥
एवं द्वन्द्रवसहस्राणि प्रमथामरदानवैः ।
कृतानि च सुराब्दानां दशतीः षट् महामुने ॥ ४३।६० ॥
यदा न शकिता योद्धुं दैवतैरमरारयः ।
तदा मायं समाश्रित्य ग्रसन्तः क्रमशो ऽव्ययान् ॥ ४३।६१ ॥
ततो ऽभवच्छैलपृष्ठं प्रावृडभ्रसमप्रभैः ।
आवृतं वर्जितं सर्वैः प्रमथैरमरैरपि ॥ ४३।६२ ॥
दृष्ट्वा शून्यं गिरिप्रस्थं ग्रस्तांश् च प्रमथामरान् ।
क्रोधादुत्पादयामास रुद्रो जृम्भायिकां वशी ॥ ४३।६३ ॥
तया स्पृष्टा दनुसुता अलसा मन्दभाषिणः ।
वदनं विकृतं कृत्वा मुक्तशस्त्रं विजृम्भिरे ॥ ४३।६४ ॥
जृम्भमाणेषु च तदाच दानवेषु गणेश्वराः ।
सुराश्च निर्ययुस्तूर्णं दैत्यदेहेभ्य आकुला ॥ ४३।६५ ॥
मेघप्रभेभ्यो दैत्येभ्यो निर्गच्छन्तो ऽमरोत्तमाः ।
शोभन्ते पद्मपत्राक्षा मेघेभ्य इव विद्युतः ॥ ४३।६६ ॥
गणामरेषु च समं निर्गतेषु तपोधन ।
अयुध्यन्त महात्मानो भूय एवातिकोपिताः ॥ ४३।६७ ॥
ततस्तु देवैः सगणैः दानवाः शर्वपालितैः ।
पराजीयन्त सङ्ग्रामे भूयो भूयस्त्वहर्निशम् ॥ ४३।६८ ॥
ततस्त्रिनेत्रः स्वैं सन्ध्यां सप्ताब्धशतिके गते ।
काले ऽभ्युपासत तदा सो ऽष्टादशभुजो ऽव्ययः ॥ ४३।६९ ॥
संस्पृश्यापः सरस्वत्यां स्नात्वा च विधिना हरः ।
कृतार्थो भक्तिमान् मूर्ध्ना पुष्पाञ्जलिमुपाक्षिपत् ॥ ४३।७० ॥
ततो ननाम शिरसा ततश्चक्रे प्रदक्षिणम् ।
हिरण्यगर्भेत्यादित्यमुपतस्थे जजाप ह ॥ ४३।७१ ॥
त्वष्ट्रे नमो नमस्ते ऽस्तु सम्यगुच्चार्य शूलधृक् ।
ननर्त भावगम्भीरं दोर्दण्डं भ्रामयन् बलात् ॥ ४३।७२ ॥
परिनृत्यति देवेशे गणाश्चैवामरास्तथा ।
नृत्यन्ते भावसंयुक्ता हरस्यानुविलासिनः ॥ ४३।७३ ॥
सन्ध्यामुपास्य देवेशः परिनृत्य यथेच्छया ।
युद्धाय दानवैः सर्वैस्त्रिनेत्रभुजपालितैः ॥ ४३।७४ ॥
ततो ऽमरगणाः सर्वैस्त्रिनेत्रभुजपालितैः ।
दानवा निर्जिताः सर्वे बलिभिर्भयवर्जितैः ॥ ४३।७५ ॥
स्वबलं निर्जितं दृष्ट्वा मत्वाजेयं च शङ्कम् ।
अन्धकः सुन्दमाहूय इदं वचनमब्रीत् ॥ ४३।७६ ॥
सुन्द भ्रातासि मे वीर विश्वस्यः सर्ववस्तुषु ।
तद्वदाम्यद्य यद्वाक्यं तच्छ्रुत्वा यत्क्षमं कुरु ॥ ४३।७७ ॥
दुर्जयो ऽसौ रणपटुर्धर्मात्मा कारणान्तरैः ।
समासते हि हृदये पद्माक्षी शैलनन्दिनी ॥ ४३।७८ ॥
तदुत्तिष्ठस्व गच्छामो यत्रास्ते चारुहासिनी ।
तत्रैनां मोहयिष्यामि हररूपेण दानव ॥ ४३।७९ ॥
भवान् भवस्यानुचरो भव नन्दी गणेश्वरः ।
ततो गत्वाथ भुक्त्वा तां जेष्यामि प्रमथान् सुरान् ॥ ४३।८० ॥
इत्वेवमुक्ते वचने बाढं सुन्दो ऽम्भयभाषत ।
समजायत शैलादिरन्धकः शङ्करो ऽप्यभूत् ॥ ४३।८१ ॥
नन्दिरुद्रौ ततो भूत्वा महासुरचमूपती ।
सम्प्राप्तौ मन्दरगिरिं प्रहारैः क्षतविग्रहौ ॥ ४३।८२ ॥
हस्तमालम्ब्य सुन्दस्य अन्धको हरमन्दिरम् ।
विवेश निर्विशङ्केन चित्तेनासुरसत्तमः ॥ ४३।८३ ॥
ततो गिरिसुता दूरादायान्तं वीक्ष्य चान्धकम् ।
महेश्वरवपुश्छ्न्नं प्रहारैर्जर्जरच्छविम् ॥ ४३।८४ ॥
सुन्दं शैलादिरूपस्थमवष्टम्याविशत् ततः ।
तं दृष्ट्वा मालिनीं प्राह सुयशां विजयां जयाम् ॥ ४३।८५ ॥
जये पश्यस्व देवस्य मदर्थे विग्रहं कृतम् ।
शत्रुभिर्दानववरैस्तदुत्तिष्ठस्व सत्वरम् ॥ ४३।८६ ॥
घृतमानय पौराणं बीजिकां लवणं दधि ।
व्रणभङ्गं करिष्यामि स्वयमेव पिनाकिनः ॥ ४३।८७ ॥
कुरुष्व शीघ्रं सुयशे स्वभर्तुर्व्रणनाशनम् ।
इत्येवमुक्त्वा वचनं समत्थाय वरासनात् ॥ ४३।८८ ॥
अभ्युद्ययौ तदा भक्त्वा मन्यमाना वृषध्वजम् ।
शूलपाणेस्ततः स्थित्वा रूपं चिह्नानि यत्नतः ॥ ४३।८९ ॥
अन्वियेष ततो ब्रह्मन्नोभौ पार्श्वस्थितौ वृषौ ।
सा ज्ञात्वा दानवं रौद्रं मायाच्छादितविग्रह्म् ॥ ४३।९० ॥
अपयानं तदा चक्रे गिरिराजसुता मुने ।
देव्याश्चिन्तितमाज्ञाय सुन्दं त्यक्त्वान्धको ऽसुरः ॥ ४३।९१ ॥
समाद्रवत वेगेन हरकान्तां विभावरीम् ।
समाद्रवत दैतेयो येन मार्गेण सागमत् ॥ ४३।९२ ॥
अपस्कारान्तरं भञ्जन् पादप्लुतिभिराकुलः ।
तमापतन्तं दृष्ट्वैव गिरिजा प्राद्रवद् भयात् ॥ ४३।९३ ॥
गृहं त्यक्त्वा हयुपवनं सखीभिः सहिता तदा ।
तत्राप्यनुजगामासौ मदान्धो मुनिपुङ्गव ॥ ४३।९४ ॥
तथापि न शशषैनं तपसो गोपनाय तु ।
तद्भयादाविशद् गौरी श्वेतार्ककुसुमं शुचि ॥ ४३।९५ ॥
विजडयाद्या महागुल्मे सम्प्रयाता लयं मुने ।
नष्टायामाथ पार्वत्यां भूयो हैरण्यलोचनिः ॥ ४३।९६ ॥
सुन्दं हस्ते समादाय स्वसैन्यं पुनरागमत् ।
अन्धके पुरायाते स्वबलं मुनिसत्तम ॥ ४३।९७ ॥
प्रावर्तत महायुद्धं प्रमथासुरयोरथ ।
ततो ऽमरगणश्रेष्ठो विष्णुश्चक्रगदाधरः ॥ ४३।९८ ॥
निजघानासुरबलं शङ्करप्रियकाम्यया ।
शार्ङ्गचापच्युतैर्बाणैः संस्यूता दानवर्षभाः ॥ ४३।९९ ॥
पञ्च षट् सप्त चाष्टौ वा व्रघ्नपादैर्घना इव ।
गदया कांश्चिदवधीत् चक्रेणान्यान् जनार्दनः ॥ ४३।१०० ॥
खङ्गेन च चकर्तान्यान् दृष्ट्यान्यान् भस्मासाद्व्यधात् ।
हलेनाकृष्य चैवान्यान् मु सलेन व्यचूर्णयत् ॥ ४३।१०१ ॥
गरुडः पक्षपाताभ्यां तुण्डेनाप्युरसाहनत् ।
स चादिपुरुषो धाता पुराणाः प्रपितामहः ॥ ४३।१०२ ॥
भ्रामयन् विपुलं पद्ममभ्यषिञ्चत वारिणा ।
संस्पृष्टा ब्रह्मतोयेन सर्वतीर्थमयेन हि ॥ ४३।१०३ ॥
गणामरगणाश्चासन् नवनागशताधिकाः ।
दानवास्तेन तोयेन संस्पृष्टाश्चाघहारिणा ॥ ४३।१०४ ॥
सवाहनाः क्षयं जग्मुः कुलिशेनेव पर्वताः ।
दृष्ट्वा ब्रह्महरी युद्धे घातयन्तौ महासुरान् ॥ ४३।१०५ ॥
शतक्रतुश्च दुद्राव प्रगृह्य कुलिशं बली ।
तमापतन्तं सम्प्रेक्ष्य बलो दानवसत्तमः ॥ ४३।१०६ ॥
मुक्त्वा देवं गदापाणिं विमानस्थं च पद्मजम् ।
शक्रमेवाद्रवद् योद्धुं मुष्टिमुद्याम्य नारद ।
बलवान् दानवपतिरजेयो देवदानवै ॥ ४३।१०७ ॥
तमापतन्तं त्रिदशेश्वरस्तु दोष्णां सहस्रेण यताबलेन ।
वज्रं परिभ्राम्य बलस्य मूर्ध्नि चिक्षेप हे मूढ हतो ऽस्युदीर्य ॥ ४३।१०८ ॥
स तस्य मूर्ध्नि प्रवरो ऽपि वज्रो जगाम तूर्णं हि सहस्रधा मुने ।
बलो ऽद्रवद् देवपतिश्च भीतः पराङ्मुखो ऽभृत् समरान्महर्षे ॥ ४३।१०९ ॥
तं चापि जम्भो विमुखं निरीक्ष्य भूत्वाग्रतः प्राह न युक्तमेतत् ।
तिष्ठस्व राजासि चराचरस्य न राजधर्मे गदितं पलायनम् ॥ ४३।११० ॥
सहस्राक्षो जम्भवाक्यं निखम्य भीतस्तूर्णं विष्णुमागान्महर्षे ।
उपेत्याह श्रूयतां वाक्यमीश त्वं मे नाथो भूतभव्येश विष्णो ॥ ४३।१११ ॥
जम्भस्तर्जयते ऽत्यर्थं मां निरायुधमीक्ष्य हि ।
आयुधं देहि भगवान् त्वामहं शरणं गतः ॥ ४३।११२ ॥
तमुवाच हरिः शक्रं त्यक्त्वा दर्प व्रजाधुना ।
प्रार्थयस्वायुधं वह्निं स ते दास्यत्यसंशयम् ॥ ४३।११३ ॥
जनार्दनवचः श्रुत्वा शक्रस्त्वरितविक्रमः ।
शरणं पावकमगादिदं चोवाच नारद ॥ ४३।११४ ॥
शक्र उवाच ।
निघ्ननो मेबलं वज्रं कृशानो शतधा गतम् ।
एष चाहूयते जम्भस्तस्माद्देह्यायुधं मम ॥ ४३।११५ ॥
पुलस्त्य उवाच ।
तमाह भगवान् वह्निः प्रीतो ऽसि तव वासव ।
यत्त्वं दर्प परित्यज्य मामेव शरणं गतः ॥ ४३।११६ ॥
इत्युच्चार्य स्वशक्त्यास्तु शक्तिं निष्क्राम्य भावतः ।
प्रादादिन्द्राय भगवान् रोचमानो दिवं गतः ॥ ४३।११७ ॥
तामादाय तदा शक्तिं शतघण्टां सुदारुणाम् ।
प्रत्युद्ययौ तदा जम्भं हन्तुकामो ऽरिमर्दनः ॥ ४३।११८ ॥
तेनातियशसा दैत्यः सहसैवाभिसन्द्रुतः ।
क्रोधं चक्रे तदा जम्भ निजघान गजाधिपम् ॥ ४३।११९ ॥
जम्भमुष्टिनिपातेन भग्नकुम्भकटो गजः ।
निपपात यथा शैलः शक्रवज्रहतः पुरा ॥ ४३।१२० ॥
पतमानाद् द्विपेन्द्रात् तु शक्रश्चाप्लुत्य वेगवान् ।
त्यक्त्वैव मन्दरगिरिं पपात वसुधातले ॥ ४३।१२१ ॥
पतमान हरिं शिद्धाश्चारणाश्च तदाब्रुवन् ।
मा मा शक्र पतस्वाद्य भूतले तिष्ठ वासव ॥ ४३।१२२ ॥
स तेषां वचनं श्रुत्वा योगी तस्थौ क्षणं तदा ।
प्राह चैतान् कथं योत्स्ये अपत्रः शत्रुभिः सहः ॥ ४३।१२३ ॥
तमूचुर्देवगन्धर्वा मा विषादं व्रजेश्वर ।
युध्यस्व त्वं समारुह्यप्रेषयिष्याम यदा रथम् ॥ ४३।१२४ ॥
इत्येवमुक्त्वा विपुलं रथं स्वस्तिकलक्षणम् ।
वानरध्वजसंयुक्तं हरिभिर्हरिभिर्युतम् ॥ ४३।१२५ ॥
शुद्धजाम्भूनदमयं किङ्किणीजालमण्डितम् ।
शक्राय प्रेषयामासुर्विश्वावसुपुरोगमाः ॥ ४३।१२६ ॥
तमागतमुदीक्ष्याथ हीनं सारथिना हरिः ।
प्राह योत्स्ये कथं युद्धे संयमिष्ये कथं हयान् ॥ ४३।१२७ ॥
यदि कश्चिद्धि सारथ्यं करिष्यति ममाधुना ।
ततो ऽहं घातये शत्रून् नान्यथेति कथञ्चन ॥ ४३।१२८ ॥
ततो ऽब्रुवंस्ते गन्धर्वा नास्माकं सारथिर्विभो ।
विद्यते स्वयमेवाश्वांस्त्वं संयन्तुमिहार्हसि ॥ ४३।१२९ ॥
इत्येवमुक्ते गवांस्त्यक्त्वा स्यन्दनमुत्तमम् ।
क्षमातलं निपपातैव परिभ्रष्टस्रगम्बरः ॥ ४३।१३० ॥
चलन्मौलिर्मुक्तकचः परिभ्रष्टायुधाङ्गदः ।
पतमानं सहस्राक्षं दृष्ट्वा भूः समकम्पत ॥ ४३।१३१ ॥
पृथिव्यां कम्पमानायां शमीकर्षेस्तपस्विनी ।
भार्याब्रवीत् प्रभो बालं बहिः कुरु यथासुखम् ॥ ४३।१३२ ॥
स तु शीलावचः श्रुत्वा किमर्थमिति चाव्रवीत् ।
सा चाह श्रूयतां नाथ दैवज्ञपरिभाषितम् ॥ ४३।१३३ ॥
यदेयं कम्पते भूमिस्तदा प्रक्षिप्यते बहिः ।
यद्बाह्यतो मुनिश्रेष्ठ तद् भवेद् द्विगुणं मुने ॥ ४३।१३४ ॥
एतद्वाक्यं तदा श्रुत्वा बालमादाय पुत्रकम् ।
निराशङ्को बहिः शीघ्रं प्राक्षिपत् क्ष्मातले द्विजः ॥ ४३।१३५ ॥
भूयो गोयुगलार्थाय प्रविष्टो भार्यया द्विजः ।
निवारितो गता वेला अर्द्धूहानिर्भविष्यति ॥ ४३।१३६ ॥
इत्येवमुक्ते देवर्षे बहिर्निर्गम्य वेगवान् ।
ददर्श बालद्वितयं समरूपमवस्थितम् ॥ ४३।१३७ ॥
तं दृष्ट्वा देवताः पूज्य भार्यां चाद्भुतदर्शनाम् ।
प्राह तत्त्वं न विन्दामि यत् पृच्छामि वदस्व तत् ॥ ४३।१३८ ॥
बालस्यास्य द्वितीयस्य के भविष्यद्गुणा वद ।
भाग्यानि चास्य यच्चोक्तं कर्मतत् कथयाधुना ॥ ४३।१३९ ॥
साब्रवीन्नाद्य ते वक्ष्ये वदिष्यामि पुनः प्रभो ।
सो ऽब्रवीद् वद मे ऽद्यैव नोचेन्नाश्नामि भोजनम् ॥ ४३।१४० ॥
सा प्राह श्रूयतां ब्रह्मन् वदिष्ये वचनं हितम् ।
कातरेणाद्य यत्पृष्टं भाव्यः कारुरयं कि ॥ ४३।१४१ ॥
इत्युक्तावति वाक्ये तु बाल एव त्वेचेतनः ।
जगाम साह्यं शक्रस्य कर्तुं सौत्यविशारदः ॥ ४३।१४२ ॥
तं व्रजन्तं हि गन्धर्वा विश्वावसुपुरोगमाः ।
ज्ञात्वेन्द्रस्यैव साहाय्ये तेजसा समवर्धयन् ॥ ४३।१४३ ॥
गन्धर्वतेजसा युक्तः शिशुः शक्रं समेत्य हि ।
प्रोवाचैह्येहि देवेश प्रियो यन्ता भवामि ते ॥ ४३।१४४ ॥
तच्छ्रत्वास्य हरिः प्राह कस्य पुत्रो ऽसि बालक ।
संयन्तासि कथं चाश्वान् संशयः प्रतिभाति मे ॥ ४३।१४५ ॥
सो ऽब्रवीदृषितेजोत्थं क्ष्माभवनं विद्धि वासव ।
गन्धर्वतेजसा युक्तं वाजियानवनिशारदम् ॥ ४३।१४६ ॥
तत्छ्रवा भगवाञ्छक्रः खं भेजे योगिनां वरः ।
स चापि विप्रतनयो मातलिर्नामविश्रुतः ॥ ४३।१४७ ॥
ततो ऽधिरूढस्तु रथं शक्रस्त्रिदशपुङ्गवः ।
रश्मीन् शमीकतनयो मातलिः प्रगृहीतवान् ॥ ४३।१४८ ॥
ततो मन्दरमागम्य विवेश रिपुवाहिनीम् ।
प्रविशन् ददृशे श्रीमान् पतितं कार्सुकं महत् ॥ ४३।१४९ ॥
सशरं पञ्चवर्णाभं सितरक्तासितारुणम् ।
पाण्डुच्छायं सुरश्रेष्ठस्तं जग्राह समार्गणम् ॥ ४३।१५० ॥
ततस् मनसा देवान् रजःसत्त्वतमोमयान् ।
नमस्कृत्य शरं चापे साधिज्ये विनियोजयत् ॥ ४३।१५१ ॥
ततो निश्चेरुरत्युग्राः शरा बर्हिणवाससः ।
ब्रह्मेशथविष्णुनामाङ्काः सूदयन्तो ऽसुरान् रणे ॥ ४३।१५२ ॥
आकाशं विदिशः पृथ्वीं दिशश्च स शरोत्करैः ।
सहस्राक्षो ऽतिपटुभिश्छादयामास नारद ॥ ४३।१५३ ॥
गजो विद्धो हयो भिन्नः पृथिव्यां पतितो रथः ।
महामात्रो धरां प्राप्तः सद्यः सीदञ्छरातुरः ॥ ४३।१५४ ॥
पदाति पतितो भूम्यां शक्रमार्गणताडितः ।
हतप्रधानभूयिष्ठं बलं तदभवद् रिपोः ॥ ४३।१५५ ॥
तं शक्रबाणभिहतं दुरासदं सैन्यं समालक्ष्य तदा कुजम्भः ।
जम्भासुरश्चापि सुरेशमव्ययं प्रजगमतुर्गृह्य गदे सुघोरे ॥ ४३।१५६ ॥
तावापतन्तौ भगवान् निरीक्ष्य सुदर्शनेनारिविनाशनेन ।
विष्णुः कुजम्भं निजघान वेगात् स स्यन्दनाद् गामगमद् गतासुः ॥ ४३।१५७ ॥
तस्मिन् हते भ्रातरि माधवेन जम्भस्ततः क्रोधवशं जगाम ।
क्रोधान्वितः शक्रमुपाद्रवद् रणे सिंहं यतैणो ऽतिविपन्नबुद्धिः ॥ ४३।१५८ ॥
तमापतन्तं प्रसमीक्ष्य शक्रस्त्यक्त्वैव चापं सशरं महात्मा ।
जग्राह शक्तिं यमदण्डकल्पां तामग्निदत्तां रिपवे ससर्ज ॥ ४३।१५९ ॥
शक्तिं सघण्टां कृतनिःस्वनां वै दृष्ट्वा पतन्तीं गदया जघान ।
गदां च कृत्वा सहसैव भस्मसाद् बिभेद जम्भं हृदये च तूर्णम् ॥ ४३।१६० ॥
शक्त्या स भिन्नो हृदये सुरारिः पपात भूम्यां विगतासुरेव ।
तं वीक्ष्य भूमौ पतितं विसञ्ज्ञं दैत्यास्तु भीता विमुखा बभूवुः ॥ ४३।१६१ ॥
जम्भे हते दैत्यबले च भग्ने गणास्तु हृष्टा हरिमर्चयन्तः ।
वीर्यं प्रशंसन्ति शतक्रतोश्च स गोत्रभिच्छर्वमुपेत्य तस्थौ ॥ ४३।१६२ ॥

इति श्रीवामनपुराणे त्रिचत्वारिशोध्यायः