पुलस्त्य उवाच ।
एतस्मिन्नन्तरे प्राप्तः समं दैत्यैस्तथान्धकः ।
मन्दरं पर्वतश्रेष्ठं प्रमथाश्रितकन्दरम् ॥ ४२।१ ॥
प्रमथा दानवातन् दृष्ट्वा चक्रुः किलकिलाध्वनिम् ।
प्रमथाश्चापि संरब्धा जघ्नुस्तूर्याण्यनेकशः ॥ ४२।२ ॥
स चावृणोन्महानादो रोदसी प्रलयोपमः ।
शुश्राव वायुमार्गस्थो विघ्नराजो विनायकः ॥ ४२।३ ॥
समभ्ययात् सुसङ्क्रुद्धः प्रमथैरभिसंवृतः ।
मन्दरं पर्वतश्रेष्ठं ददृशे पितरं तथा ॥ ४२।४ ॥
प्रणिपत्य तथा भक्त्या वाक्यमाह महेश्वरम् ।
किं तिष्ठसि जगन्नाथ समुत्तिष्ठ रणोत्सुकः ॥ ४२।५ ॥
ततो विघ्नेशवचनाज्जगन्नाथो ऽम्बिकां वचः ।
प्राह यास्ये ऽन्धकं हन्तुं स्थेयमेवाप्रमत्तया ॥ ४२।६ ॥
ततो गिरिसुता देवं समालिङ्ग्य पुनः पुनः ।
समीक्ष्य सस्नेहहरं प्राह गच्छ जयान्धकम् ॥ ४२।७ ॥
ततो ऽमरगुरोर्गौरी चन्दनं रोचनाञ्जनम् ।
प्रतिवन्द्य सुसम्प्रीता पादावेवाभ्यवन्दत ॥ ४२।८ ॥
ततो हरः प्राह वचो यशस्यं मालिनीमपि ।
जयां च विजयां चैव जयन्तीं चापराजिताम् ॥ ४२।९ ॥
युष्माभिरप्रमत्ताभिः स्थेयं गेहे सुरक्षिते ।
रक्षणीया प्रयत्नेन गिरिपुत्री प्रमादतः ॥ ४२।१० ॥
इति सन्दिश्य ताः सर्वाः समारुह्य वृषं विभुः ।
निर्जगाम गृहात् तुष्टो जयेप्सुः शूलधृग् बली ॥ ४२।११ ॥
निर्गच्छतस्तु भवनादीश्वरस्य गणाधिपाः ।
समन्तात् परिवार्यैव जयशब्दांश्च चक्रिरे ॥ ४२।१२ ॥
रणाय निर्गच्छति लोकपाले महेश्वरे शूलधरे महर्षे ।
शुभानि सौम्यानि सुमङ्गलानि जातानी चिह्नानि जयाय शम्भोः ॥ ४२।१३ ॥
शिवा स्थिता वामतरे ऽथ भागे प्रयाति चाग्रे स्वनमुन्नदन्ती ।
क्रव्यादसङ्घाश् च तथामिषैणः प्रयान्ति हृष्टास्तृषितासृगर्थे ॥ ४२।१४ ॥
दक्षिणाङ्गं नखान्तं वै समकम्पत शूलिनः ।
शकुनिश् चापि हारीतो मौनी याति पराङ्गमुखः ॥ ४२।१५ ॥
निमित्तानीदृशान् दृष्ट्वा भूतभव्यभवो विभुः ।
शैलादिं प्राह वचनं सस्मितं शशिशेखरः ॥ ४२।१६ ॥
हर उवाच ।
नन्दिन् जजो ऽद्य मे भावी न कथञ्चित् पराजयः ।
निमित्तानीह दृस्यन्ते सम्भूतानि गणेश्वर ॥ ४२।१७ ॥
तच्छम्भुवचनं श्रुत्वा शैलादिः प्राह सङ्करम् ।
कः सन्देहो महादेव यत् त्वं जयसि शात्रवान् ॥ ४२।१८ ॥
तच्छम्भुवचनं श्रुत्वा शैलादिः प्राह शङ्करम् ।
समादिदेश युद्धाय महापशुपतैः सह ॥ ४२।१९ ॥
ते ऽभ्येत्य दानवबलं मर्दयन्ति स्म वेगिताः ।
नानाशस्त्रधरा वीरा वृक्षानशनयो यथा ॥ ४२।२० ॥
ते वध्यमाना बलिभिः प्रमथैर्दैत्यदानवाः ।
प्रवृत्ताः प्रमथान् हन्तुं कूटमुद्गरपाणयः ॥ ४२।२१ ॥
ततो ऽम्बरतले देवाः सेन्द्रविष्णुपितामहाः ।
ससूर्याग्निपुरोगास्तु समायाता दिदृक्षवः ॥ ४२।२२ ॥
ततो ऽम्बरतले घोषः सस्वनः समजायत ।
गीतवाद्यादिसम्मिश्रो दुन्दुभीनां कलिप्रिय ॥ ४२।२३ ॥
ततः पश्यत्सु देवेषु महापाशुपतादयः ।
गणास्तद्दानवं सैन्यं जिघांसन्ति स्म कोपिताः ॥ ४२।२४ ॥
चतुरङ्गबलं दृष्ट्वा हन्यमानं गणेश्वरैः ।
क्रोधान्वितस्तुहुण्डस्तु वेगोनाबिससार ह ॥ ४२।२५ ॥
आदाय परिघं घोरं पट्टोद्ब्द्धमयस्मयम् ।
राजतं राजते ऽत्यर्थमिन्द्रध्वजमिवोच्छ्रितम् ॥ ४२।२६ ॥
तं भ्रामयानो बलवान् निजघान रणे गणान् ।
रुद्राद्याः स्कन्दपर्यन्तास्ते ऽभज्यन्त भयातुराः ॥ ४२।२७ ॥
तत्प्रभग्नं बलं दृष्ट्वा गणनाथो विनायकः ।
समाद्रवत वेगेन तुहुण्डं दनुरुङ्गवम् ॥ ४२।२८ ॥
आपतन्तं गणपतिं दृष्ट्वा दैत्यो दुरात्मवान् ।
परिघं पातयामास गुम्भपृष्ठे महाबलः ॥ ४२।२९ ॥
विनायकस्य तत्कुम्भे परिघं वज्रभूषणम् ।
शतधा त्वगमद् ब्रह्मन् मेरोः कूट इवाशनिः ॥ ४२।३० ॥
परिघं विफलं दृष्ट्वा समायान्तं च पार्षदम् ।
बबन्ध बाहुपाशेन राहू रक्षन् हि मातुलम् ॥ ४२।३१ ॥
स बद्धो बाहुपासेन बलादाकृष्य दानवम् ।
समाजघान शिरशि कुठारेण महोदरः ॥ ४२।३२ ॥
काष्ठवत् स द्विधा भूतो निपपात धरातले ।
तथापि नात्यजद् राहुर्बलवान् दानवेश्वरः ।
स मोक्षार्थे ऽकरोद् यत्नं न शशाक च नारद ॥ ४२।३३ ॥
विनायकं संयतमीक्ष्य राहुणा कुण्डोदरो नाम गणेश्वरो ऽथ ।
प्रगृह्य तूर्ण मुशलं महात्मा राहुं दुरात्मानमसौ जघान ॥ ४२।३४ ॥
ततो गणेशः कलशध्वजस्तु प्रासेन राहुं हृदये बिभेद ।
घटोदरो वै गदया जघान खड्गेन रक्षो ऽधिपतिः सुकेशी ॥ ४२।३५ ॥
स तैश्चतुर्भिः परिताड्यमानो गणाधिपं राहुरथोत्ससर्ज ।
सन्त्यक्तमात्रो ऽथ परश्वधेन तुहुण्मूर्द्धानमथो बिभेद ॥ ४२।३६ ॥
हते तुहुण्डे विमुखे च राहौ गणेश्वराः क्रोधविषं मुमुक्षवः ।
पञ्चैककालानलसन्निकाशा विशान्ति सेनां दनुपुङ्गवानाम् ॥ ४२।३७ ॥
तां बध्यमानां स्वचमूं समीक्ष्यचबलिर्बली मारुततुल्यवेगः ।
गदां समाविध्य जघान मूर्ध्नि विनायकं कुम्भतटे करे च ॥ ४२।३८ ॥
कुण्डोदरं भग्नकटिं चकार महोदरं शीर्णशिरःकपालम् ।
कुम्भध्वजं चूर्णितसन्धिबन्धं घटोदरं चोरुविभिन्नसन्धिम् ॥ ४२।३९ ॥
गणाधिपांस्तान् विमुखान् स कृत्वा बलन्वितो वीरतरो ऽसुरेन्द्रः ।
समभ्यधावत् त्वरितो निहन्तुं गणेश्वरान् स्कन्दविशाखमुख्यान् ॥ ४२।४० ॥
तमापतन्तं भगवान् समीक्ष्य महेश्वरः श्रेष्ठतमं गणानाम् ।
शैलादिमामन्त्र्य वचो बभाषे गच्छस्व दैत्यान् जहि वीर युद्ध ॥ ४२।४१ ॥
इत्येवमुक्तो वृषभध्वजेन वज्रं समादाय शिलादसूनुः ।
बलिं सम्भ्येत्य जघान मूर्ध्नि सम्मोहितः सो ऽवनिमाससाद ॥ ४२।४२ ॥
सम्मोहितं भ्रातृसुतं विदित्वा बली कुजम्भो मुसलं प्रगृह्य ।
सम्भ्रामयंस्तूर्णतरं स वेगात् ससर्ज नन्दिं प्रति जातकोपः ॥ ४२।४३ ॥
तमापतन्तं मुसलं प्रगृह्य करेण तूर्ण भगवान् स नन्दी ।
जघान तेनैव कुजम्भमाहवे स प्राणहीनो निपपात भूमौ ॥ ४२।४४ ॥
हत्वा कुजम्भं मुसलेन नन्दी वज्रेण वीरः शतशो जघान ।
ते वध्यमाना गणनायकेन दुर्योधनं वै शरणं प्रपन्नाः ॥ ४२।४५ ॥
दुर्योधनः प्रेक्ष्य गणाधिपेन वज्रपहारैर्निहतान् दितीशान् ।
प्रासं समाविध्य तडित्प्रकाशं नन्दिं प्रचिक्षेप हतो ऽसि वै ब्रुवन् ॥ ४२।४६ ॥
तमापतन्तं कुलिशेन नन्दी बिभेद गुह्यं पिशुनो यथा नरः ।
तत्प्रासमालक्ष्य तदा निकृत्तं संवर्त्त्य मुष्टिं गणमाससाद ॥ ४२।४७ ॥
ततो ऽस्य नन्दी कुलिसेन तृर्ण शिरो ऽच्छिनत् तालफलप्रकाशम् ।
हतो ऽथ भूमौ निपपात वेगाद् दैत्याश्च भीता विगता दिशो दश ॥ ४२।४८ ॥
ततो हतं स्वं तनयं निरीक्ष्य हस्ती तदा नन्दिनमाजगाम ।
प्रगृह्य बाणासनमुग्रवेगं बिभेद बाणैर्यमदण्डकल्पैः ॥ ४२।४९ ॥
गणान् सन्दीन् वृषभध्वजांस्तान् धाराभिरेवाम्बुरास्तु शैलान् ।
ते छाद्यमानासुरबामजालैर्विनायकाद्या बलिनो ऽपि समन्तान् ॥ ४२।५० ॥
पराङ्मुखान् वीक्ष्य गणान् कुमारः शक्त्या पृषत्कान्थ वारयित्वा ।
तूर्णं सभभ्येत्य रिपुं समीक्ष्य प्रगृह्य शक्त्या हृदये विभेद ॥ ४२।५१ ॥
शक्तिनिर्भिन्नहृदयो हस्ती भूम्यां पपातह ।
ममार चारिपृतना जाता भूयः पराङ्मुखी ॥ ४२।५२ ॥
अमरारिबलं दृष्ट्वा भग्नं क्रुद्धा गणेश्वराः ।
पुरतो नन्दिनं कृत्वा जिघांसन्ति स्म दानवान् ॥ ४२।५३ ॥
ते वध्यमानाः प्रमथैर्दैत्याश्चापि पराङ्मुखाःष ।
भूयो निवृत्ता बलिनः कार्त्तस्वरपुरोगमाः ॥ ४२।५४ ॥
तान् निवृत्तान् समीक्ष्यैव क्रोधदीप्तेक्षणः श्वशसन् ।
नन्दिषेणो व्याघ्रमुखो निवृत्तश्चापि वेगवान् ॥ ४२।५५ ॥
तस्मिन् निवृत्ते गणपे पट्टिशाग्रकरे तदा ।
कार्त्तस्वरो निववृते गदामादाय नारद ॥ ४२।५६ ॥
तमापतन्तं ज्वलनप्रकाशं गमः समीक्ष्यैव महासुरेन्द्रम् ।
तं पट्टिशं भ्राम्य जघान मूर्ध्नि कार्तस्वरं विस्वरमुन्नदन्तम् ॥ ४२।५७ ॥
तस्मिन् हते समाविध्य तुरङ्गकन्धरः ।
बबन्ध वीरः सह पट्टिशेन गणेश्वरं चाप्यथ नन्दिषेणम् ॥ ४२।५८ ॥
नन्दिषेणं तथा बद्धं समीक्ष्य बलिनां वरः ।
विशाखः कपितो ऽभ्येत्य शक्तिपाणिरवस्थितः ॥ ४२।५९ ॥
तं दृष्ट्वा बलिनां श्रेष्ठः पाशपाणिरयःशिराः ।
संयोधयामास बली विशाखं कुक्कुटध्वजम् ॥ ४२।६० ॥
विशाखं सन्निरुद्धं वै दृष्ट्वायशिरसा रणे ।
शाखश्च नैगमेयश्च तूर्णमाद्रवतां रिपुम् ॥ ४२।६१ ॥
एकतो नैगमेयेन भिन्नः शक्त्या त्वयःसिराः ।
शाखश्च नैगमेयश्च तूर्णमाद्रवतां रिपुम् ॥ ४२।६२ ॥
स त्रिभिः शङ्करसुतैः पीड्यमानो जहौ पणम् ।
ते प्राप्ताः शम्बरं तूर्णं प्रेक्ष्यमाणा गणेश्वराः ॥ ४२।६३ ॥
पाशं शक्त्या समाहत्य चतुर्भिः शङ्करात्मजैः ।
जगाम विलयं तूर्णमाकासादिव भूतलम् ॥ ४२।६४ ॥
पाशे निराशतां याते शम्बरः कातरेक्षणः ।
दिशो ऽथ भेजे देवर्षे कुमारः सैन्यमर्दयत् ॥ ४२।६५ ॥
तैर्वध्यमाना पृतना महर्षे सादानवी रुद्रसुतैर्गणैश्च ।
विषण्णारूपा भयविह्वलाङ्गी जगाम सुक्रं शरणं भयार्ता ॥ ४२।६६ ॥
इति श्रीवामनपुराणे द्विचत्वारिंशो ऽध्यायः