४१

पुलास्त्य उवाच ।
हरो ऽपि शम्बरे याते समाहूयाथ नन्दिनम् ।
प्राहामन्त्रय शैलादे ये स्थितास्तव शासने ॥ ४१।१ ॥
ततो महेशवचनान्नन्दी तूर्णतरं गतः ।
उपस्पृश्य जलं श्रीमान् सस्मार गणनायकान् ॥ ४१।२ ॥
नन्दिना संस्मृताः सर्वे गणनाथाः सहस्रशः ।
समुत्पत्य त्वरायुक्ताः प्रणतास्त्रिदसेश्वरम् ॥ ४१।३ ॥
आगतांश्च गणान्नन्दी कृताञ्जलिपुटो ऽव्ययः ।
सर्वान् निवेदयामास शङ्कराय महात्मने ॥ ४१।४ ॥
नन्द्युवाच ।
यानेतान् पश्यसे शम्भो त्रिनेत्राञ्जटिलाञ्शुचीन् ।
एते रुद्रा इति ख्याताः कोट्य एकादशैव तु ॥ ४१।५ ॥
वानरास्यान् पश्यसे यान् शार्दूलसमविक्रमान् ।
एतेषां द्वारपालास्ते मन्नमानो यशोधनाः ॥ ४१।६ ॥
षण्मुखान् पश्यसे यांश्च शक्तिपाणीञ्शिखिध्वजान् ।
षट् च षष्टिस्तथा कोट्यः स्कन्दनाम्नः कुमारकान् ॥ ४१।७ ॥
एतावत्यस्तथा कोट्य शाखा नाम षडाननाः ।
विशाखास्तावदेवोक्ता नैगमेयाश्च शङ्कर ॥ ४१।८ ॥
सप्तकोटिशतं शम्भो अमी वै प्रमथोत्तमाः ।
एकैकं प्रति देवेश तावत्यो ह्यपि मातरः ॥ ४१।९ ॥
भस्मारुणितदेहाश्च त्रिनेत्राः शूलपाणयः ।
एते शैवा इति प्रोक्तास्तव भक्ता गणेश्वराः ॥ ४१।१० ॥
तथा पाशुपताश्चान्ये भस्मप्रहारणा विभो ।
एते गणास्त्वसङ्ख्याताः सहायार्थं समागताः ॥ ४१।११ ॥
पिनाकधारिणो रौद्रा गणाः कालमुखापरे ।
तव भक्ताः समायाता जटामण्डलिनोद्भुताः ॥ ४१।१२ ॥
खट्वाङ्गयोधिनो वीरा रक्तचर्मसमावृताः ।
इमे प्राप्ता गणा योद्धुं महाव्रतिन उत्तमाः ॥ ४१।१३ ॥
दिग्वाससो मौनिनश्च घण्टाप्रहरणास्तथा ।
निराश्रया नाम गणाः समायाता जगद्गुरो ॥ ४१।१४ ॥
सार्धद्विनेत्राः पद्माक्षाः श्रीवत्साङ्कितवक्षसः ।
समायाताः खगारूढा वृषभध्वजिनो ऽव्ययाः ॥ ४१।१५ ॥
महापाशुपता नाम चक्रशूलधरास्तथा ।
भैरवो विष्णुना सार्द्धमभेदेनार्चितो हि यै ॥ ४१।१६ ॥
इमे मृगोन्द्रवदनाः शूलबाणधनुर्धराः ।
गणास्त्वद्रोमसम्भूता वीरभद्रपुरोगमाः ॥ ४१।१७ ॥
एते चान्ये च बहवः शतशो ऽथ सहस्रशः ।
सहायार्थं तवायाता यथाप्रीत्यादिशस्व तान् ॥ ४१।१८ ॥
ततो ऽभ्येत्य गणाः सर्वे प्रणेमुर्वृषभध्वजम् ।
तान् करेणैव भगवान् समाश्वास्योपवेशयत् ॥ ४१।१९ ॥
महापाशुपतान् दृष्ट्वा समुत्थाय महेश्वरः ।
सम्परिष्वजताध्यक्षांस्ते प्रणेमुर्महेश्वरम् ॥ ४१।२० ॥
ततस्तदद्भुततमं दृष्ट्वा सर्वे गणेश्वराः सुचिरं विस्मिताक्षाश्च वैलक्ष्यमगमत् परम् ॥ ४१।२१ ॥
विस्मिताक्षान् गणान् दृष्ट्वा सैलदिर्योगिनां वरः ।
प्राह प्रहस्य देवेशं शूलपाणिं गणाधिपम् ॥ ४१।२२ ॥
विस्मितामी गणा देव सर्व एव महेश्वर ।
महापाशुपतानां हि यत् त्वयालिङ्गनं कृतम् ॥ ४१।२३ ॥
तदेतेषां महादेव स्फुटं त्रैलोक्यविन्दकम् ।
रूपं ज्ञानं विवेकं च वदस्व स्वेच्छया विभो ॥ ४१।२४ ॥
प्रमथाधिपतेर्वाक्यं विदित्वा भूतभावनः ।
बभाषे तान् गणान् सर्वान् भावाभावविचारिणः ॥ ४१।२५ ॥
रुद्र उवाच। ।
भव्द्भिर्भक्तिसंयुक्तैर्हरो भावेन पूजितः ।
अहङ्कारविमूढैश्च निन्दद्भिर्वैष्णवं पदम् ॥ ४१।२६ ॥
तेनाज्ञानेन भवतोनादृत्यानुविरोधिताः ।
यो ऽहं स भगवान् विष्णुर्विष्णुर्यः सो ऽहमव्ययः ॥ ४१।२७ ॥
नावयोर्वै विशेषो ऽस्ति एका मूर्तिर्द्विधा स्थिता ।
तदमीभिर्नरव्याघ्रैर्भक्तिभावयुतैर्गणैः ॥ ४१।२८ ॥
यथाहं वै परिज्ञातो न भवद्भिस्तथा ध्रुवम् ।
येनाहं निन्दितो नित्यं भवद्भिर्मूढबुद्धिभिः ॥ ४१।२९ ॥
तेन ज्ञानं हि वै नष्टं नातस्त्वालिङ्गिता मया ।
इत्येवमुक्ते वचने गणाः प्रोचुर्महेश्वरम् ॥ ४१।३० ॥
कथं भवान् यथैक्येन संस्थितो ऽस्ति जनार्दनः ।
भवान् हि निर्मलः सुद्धः शान्तः सुक्लो निरञ्जनः ॥ ४१।३१ ॥
स चाप्यञ्जनसङ्काशः कथं तेनेह युज्यते ।
तेषां वचनमर्थाढ्यं श्रुत्वा जीमूतवाहनः ॥ ४१।३२ ॥
विहस्य मेघगम्भीरं गणानिदमुवाच ह ।
श्रूयतां सर्वमाख्यास्ये स्वयशोवर्द्धनं वचः ॥ ४१।३३ ॥
न त्वेव योग्या यूयं हि महाज्ञानस्य कर्हिचित् ।
अपवादभयाद् गुह्यं भवतां हि प्रकाशये ॥ ४१।३४ ॥
प्रियध्वमपि चैतेन यन्मच्चित्तास्तु नित्यशः ।
एकरूपात्मकं देहं कुरुध्यं यत्नमास्थिताः ॥ ४१।३५ ॥
पयसा हविषाद्यैश्च स्नापनेन प्रयत्नतः ।
चन्दनादिभिरेकाग्रैर्न मे प्रीतिः प्रजायते ॥ ४१।३६ ॥
यत्नात् क्रकचमादाय छिन्दध्वं मम विग्रहम् ।
नरकार्हा भवद्भक्ता रक्षामि स्वयशोर्ऽथतः ॥ ४१।३७ ॥
मायं वदिष्यते लोको महान्तमपवादिनम् ।
यथा पतन्ति नरके हरभक्तास्तपस्विनः ॥ ४१।३८ ॥
व्रजन्ति नरकं घोरं इत्येवं परिवादिनः ।
अतोर्ऽथं न क्षिपाम्यद्य भवतो नरके ऽद्भुते ॥ ४१।३९ ॥
यन्निन्दध्वं जगन्नाथं पुष्कराक्षं च मन्मयम् ।
स चैव सदृशो लोके विद्यते सचराचरे ।
श्वेतमूर्तिः स गवान् पीतो रक्तो ऽञ्जनप्रभः ॥ ४१।४० ॥
न तस्य सदृशो लोके विद्यते सचराचरे ।
श्वेतमूर्तिः स भगवान् पीतो रक्तो ऽञ्जनप्रभः ॥ ४१।४१ ॥
तस्मात् परतरं लोके नान्यद् धर्म हि विद्यते ।
सात्त्विकं राजसं चैव तामसं मिश्रकं तथा ।
स एव धत्ते भगवान् सर्वपूज्यः सदाशिवः ॥ ४१।४२ ॥
शङ्करस्य वचः श्रुत्वा शैवाद्या प्रमथोत्तमाः ।
प्रत्यूचुर्भगवन् ब्रूहि सदाशिवविशेणम् ॥ ४१।४३ ॥
तेषां तद् भाषितं श्रुत्वा प्रमथानामथेश्वरः ।
दर्शयामास तद्रूपं सदाशैवं निरञ्जनम् ॥ ४१।४४ ॥
ततः पश्यन्ति हि गणाः तमीसं वै शहस्रशः ।
सहस्रवक्त्रचरणं सहस्त्रभुजमीश्वरम् ॥ ४१।४५ ॥
दण्डपाणिं सुदुर्दृश्यं लोकैर्व्याप्तं समन्ततः ।
दण्डसंस्थास्य दृश्यन्ते देवप्रहरणास्तथा ॥ ४१।४६ ॥
तत एकमुखं भूयो ददृशुः शङ्करं गणाः ।
रौद्रैश्च वैष्णवैश्चैव वृतं चिह्नैः सहस्रशः ॥ ४१।४७ ॥
अर्द्धेन वैष्णववपुर्द्धेन हरविग्रहः ।
खगध्वजं वृषारूढं वृषध्वजम् ॥ ४१।४८ ॥
यथा यथा त्रिनयनो रूपं धत्ते गुणाग्रणीः ।
तथा तथा त्वजायन्त महापाशुपता गणाः ॥ ४१।४९ ॥
ततो ऽभवच्चैकरूपी शङ्करो बहुरूपवान् ।
द्विरूपश्चाभवद् योगी एकरूपो ऽप्यरूपवान् ।
क्षणाच्छ्वेतः क्षणाद् रक्तः पीतो नीलः क्षणादपि ॥ ४१।५० ॥
मिश्रको वर्णहीनश्च महापाशुपतस्तथा ।
क्षणाद् भवति रुद्रेन्द्रः क्षणाच्छम्भुः प्रभाकरः ॥ ४१।५१ ॥
क्षणार्द्धाच्छङ्करो विष्णुः क्षणाच्छर्वः पितामहः ।
ततस्तदद्भुततमं दृष्ट्वा शैवादयो गणाः ॥ ४१।५२ ॥
अजानन्त तदैक्येन ब्रह्मविष्ण्वीशभास्करान् ।
यदाभिन्नममन्यन्त देवेदेवं सदाशिवम् ॥ ४१।५३ ॥
तदा निर्धूतपापास्ते समजायन्त पार्षदाः ।
तेष्वेवं धूतपापेषु अभिन्नेषु हरीश्वरः ॥ ४१।५४ ॥
प्रीतात्मा विबभो शंशुः प्रीतीयुक्तो ऽब्रवीद् वचः ।
परितुष्टो ऽस्मि वः सर्वे ज्ञानेनानेन सुव्रताः ॥ ४१।५५ ॥
वृणुध्वं वरमानन्त्यं दास्ये वो मनसेप्सितम् ।
ऊचुस्ते देहि भगवन् वरमस्माकमीश्वर ।
भिन्नदृष्ट्युद्भवं पापं यत्तद् भ्रंशं प्रयातु नः ॥ ४१।५६ ॥
पुलस्त्य उवाच ।
बाढमित्यब्रवीच्छर्वश्चक्रे निर्धूतकल्पषान् ।
सम्परिष्वजताव्यक्तस्तान् सर्वान् गणयूथपान् ॥ ४१।५७ ॥
इति विभुना प्रणतार्तिहरेण गणपतयो वृषमेघरथेन ।
श्रुतिगदितानुगमेनेव मन्दरं गिरिमवतत्य समध्यवसन्तम् ॥ ४१।५८ ॥
आच्छादितो गिरिवरः प्रमथैर्घनाभै राभाति शुक्लतनुरीश्वरपादजुष्टः ।
नीलाजिनातततनुः शरदभ्रवर्णो यद्वद् विभाति बलवान् वृषभो हरस्य ॥ ४१।५९ ॥

इति श्रीवामनपुराणे एकचत्वारिशो ऽध्यायः