अरजा उवाच ।
नात्मानं तव दास्यामि बुहनोक्तेन किं तव ।
रक्षन्ती भवतः शापादात्मानं च मही पते ॥ ४०।१ ॥
प्रह्लाद उवाच। ।
इत्थं विवदमानां तां भार्गवेन्द्रसुतां बलात् ।
कामोपहतचित्तात्मा व्यध्वंसयत मन्दधीः ॥ ४०।२ ॥
तां कृत्वा च्युतचापित्रां मदान्धः पृथिवीपतिः ।
निश्चक्रामाश्रमात् तस्माद् गतश्च नगरं निजम् ॥ ४०।३ ॥
सापि शुक्रसुता तन्वी अरजा रजसाप्लुता ।
आश्रमादथ निरगत्य बहिस्तस्थावधोसुखी ॥ ४०।४ ॥
चिन्तयन्ती स्वपितरं रुदती च मुहुर्मुहुः ।
महाग्रहोपतप्तेव रोहिणी शशिनः प्रिया ॥ ४०।५ ॥
ततो बहुतिथे काले समाप्ते यज्ञकर्मणि ।
पातालादागमच्छुक्रः खमाश्रमपदं मुनिः ॥ ४०।६ ॥
आश्रमान्ते च ददृशे सुतां दैत्य रजखलाम् ।
मेघलेखामिवाकाशे सन्ध्यारागेण रञ्जिताम् ॥ ४०।७ ॥
तां दृष्ट्वा परिपप्रच्छ पुत्रि केनासि धर्षिता ।
कः क्रीडति सरोषेण सममाशीविषेण हि ॥ ४०।८ ॥
को ऽद्यैव याम्यां नगरीं गमिष्यति सुदुर्मतिः ।
यस्त्वां सुद्धसमाचारां विध्वंसयति पापकृत् ॥ ४०।९ ॥
ततः स्वपितरं दृष्ट्वा कम्पमाना पुनः पुनाः ।
रुदन्ती व्रीडयोपेता मन्दं मन्दमुवाच ह ॥ ४०।१० ॥
तव शिष्येण दण्डेन वार्यमाणेन चासकृत् ।
बलादनाथा रुदती नीताहं वचनीयताम् ॥ ४०।११ ॥
एतत् पुत्र्या वचः श्रुत्वा क्रोधसंरक्तलोचनः ।
उपस्पृश्य शुचिर्भूत्वा इदं वचनमब्रवीत् ॥ ४०।१२ ॥
यस्मात् तेनाविनितेन मत्तो ह्यभयमुत्तमम् ।
गौरवं च तिरस्कृत्य च्युतधर्मारजा कृता ॥ ४०।१३ ॥
तस्मात् सराष्ट्रः सबलः सभृत्यो वाहनैः सह ।
सप्तरात्रान्तराद् भस्म ग्राववृष्ट्या भविष्यति ॥ ४०।१४ ॥
इत्येवमुक्त्वा मुनिपुङ्गवो ऽसौ शप्त्वा स दण्डं स्वसुतामुवाच ।
त्वं पापमोक्षार्थमिहैव पुत्रि तिष्ठस्व कल्याणि तपश्चरन्ती ॥ ४०।१५ ॥
श्पत्वेत्थं भगवान् शुक्रो दण्डमिक्ष्वाकुनन्दनम् ।
जगाम शिष्यसहितः पातालं दानवालयम् ॥ ४०।१६ ॥
दण्डो ऽपि भस्मसाद् भूतः सराष्ट्रबलवाहनः ।
महता ग्राववरषेण सप्तरात्रान्तरे तदा ॥ ४०।१७ ॥
एवं तदृण्डकारण्यं परित्यज्यनति देवता ।
आलयं राक्षसानां तु कृतं देवेन शम्भुना ॥ ४०।१८ ॥
एवं परकलत्राणि नयन्ति सुकृतीनपि ।
भस्मभूतान् प्राकृतांस्तु महान्तं च पराभवम् ॥ ४०।१९ ॥
तस्मादन्धक दुर्बुद्धिर्न कार्या भवता त्वियम् ।
प्राकृतापि दहेन्नारी किमुताहोद्रिनन्दिनी ॥ ४०।२० ॥
शङ्करो ऽपि न दैत्येश शक्यो जेतुं सुरासुरैः ।
द्रष्टुमप्यमितौजस्कः किमु योधयितुं रणे ॥ ४०।२१ ॥
पुलस्त्य उवाच ।
इत्येवमुक्ते वचने क्रुद्धस्ताम्रेक्षणः श्वसन् ।
वाक्यमाह महातेजाः प्रह्लादं चान्धकासुरः ॥ ४०।२२ ॥
किं ममासौ रणे योद्धुं शक्तस्त्रिमयनो ऽसुर ।
एकाकी धर्मरहितो भस्मारुणितविग्रहः ॥ ४०।२३ ॥
नान्धको बिभियादिन्द्रान्नामरेभ्यः कथञ्चन ।
स कथं वृषपत्राक्षाद् बिभेति स्त्रीमुखेक्षकात् ॥ ४०।२४ ॥
तच्छ्रुत्वास्य वचो घोरं प्रह्लादः प्राह नारद ।
न सम्यगुक्तं भवता विरुद्धं धर्मतोर्ऽथतः ॥ ४०।२५ ॥
हुताशनपतङ्गाभ्यां सिंहक्रोष्टुकयोरिव ।
गजेन्द्रमशकाभ्यां च रुक्मपाषाणयोरिव ॥ ४०।२६ ॥
एतेषामेभिरुदितं यावदन्तरमन्धक ।
तावदेवान्तरं चास्ति भवतो वा हरस्य च ॥ ४०।२७ ॥
वारितो ऽसि मया वीर भूयो भूयश्च वार्यसे ।
शृणुष्व वाक्यं देवर्षेरसितस्य महात्मनः ॥ ४०।२८ ॥
यो धर्मशीलो जितमानरोषो विद्याविनीतो न परोपतापी ।
स्वदारतुष्टः परदारवर्जो नतस्य लोके भयमस्ति किञ्चित् ॥ ४०।२९ ॥
यो धर्महीनः कलहप्रियः सदा परोपतापी श्रुतिशास्त्रवर्जितः ।
परार्थदारेष्सुरवर्णसङ्गमी सुखं न विन्देत परत्र चेह ॥ ४०।३० ॥
धर्मान्वितो ऽभून्मनुरर्कपुत्रः स्वदारसन्तुष्टमनास्त्वगस्त्यः ॥ ४०।३१ ॥
एतानि पुण्यानि कृतान्यमीभिर्मया निबद्धानि कुलक्रमोक्त्या ।
तेजोन्विताः शापवरक्षमाश्च जाताश्च सर्वे सुरसिद्धपूज्याः ॥ ४०।३२ ॥
अधर्मऽयुक्तो ऽङ्गसुतो बभूव विभुश्च नित्यं कलहप्रियो ऽभूत् ।
परोपतापी नमुचिर्दुरात्मा पराबलेप्सुर्नहुषश्च राजा ॥ ४०।३३ ॥
परार्थलिप्सुर्दिजितो हिरण्यदृक् मूर्खस्तु तस्याप्यनुजः सुदुर्मतिः ।
अवर्णसङ्गी यदुस्त्तमौजा एते विनष्टास्त्वनयात् पुरा हि ॥ ४०।३४ ॥
तस्माद् धर्मो न सन्त्याज्यो धर्मो हि परमा गतिः ।
धर्महीना नरा यान्ति रौरवं नरकं महत् ॥ ४०।३५ ॥
धर्मस्तु गदितः पुम्भिस्तारणे दिवि चेह च ।
पतनाय तथाधर्म इह लोके परत्र च ॥ ४०।३६ ॥
त्याज्यं धर्मान्वितैर्न्नित्यं परदारोपसेवनम् ।
नयन्ति परदारा हि नरकानेकविंशतिम् ।
सर्वेषामपि वर्णानामेष धर्मो ध्रुवो ऽन्धक ॥ ४०।३७ ॥
परार्थपरदारेषु यदा वाञ्छां करिष्यति ।
स याति नरकं घोरं रौरवं बहुलाः समाः ॥ ४०।३८ ॥
एवं पुरासुरपते देवर्षिरसितो ऽव्यायः ।
प्राह धर्मव्यवस्थानं खगेन्द्रायारुणाय हि ॥ ४०।३९ ॥
तस्मात् सुदूरतो वर्जेत् परदारान् विचक्षणाः ।
नयन्ति निकृतिप्रज्ञं परदाराः पराभवम् ॥ ४०।४० ॥
पुलस्त्य उवाच ।
इत्येवमुक्ते वचने प्रह्लादं प्राह चान्धकः ।
भवान् धर्मपरस्त्वेको नाहं धर्म समाचरे ॥ ४०।४१ ॥
इत्येवमुक्त्वा प्रह्लादमन्धकः प्राह शम्बरम् ।
गच्छ शम्बर शैलेन्द्रं मन्दरं वद शङ्करम् ॥ ४०।४२ ॥
भिक्षो किमर्थं शौलेन्द्रं स्वर्गोपम्यं सकन्दरम् ।
परिभुञ्जसि केनाद्य तव दत्तो वदस्व माम ॥ ४०।४३ ॥
तिष्ठन्ति शासने मह्यं देवाः शक्रपुरोगमाः ।
तत् किमर्थं निवससे मामनादृत्य मन्दरे ॥ ४०।४४ ॥
यदीष्टस्तव शैलेन्द्रः क्रियतां वचनं मम ।
येयं हि भवतः पत्नी सा मे शीघ्रं प्रदीयताम् ॥ ४०।४५ ॥
इत्युक्तः स तदा तेन शम्बरो मन्दरं द्रुतम् ।
जगाम तत्र यत्रास्ते सह देव्या पिनाकधृक् ॥ ४०।४६ ॥
गत्वोवाचान्धकवचो याथातथ्यं दनोः सुतः ।
तमुत्तरं हरः प्राह शृण्वत्या गिरिकन्यया ॥ ४०।४७ ॥
ममायं मन्दरो दत्तः सहस्राक्षेण धीमता ।
तन्न शक्नोम्यहं त्यक्तुं विनाज्ञां वृक्षवैरिणः ॥ ४०।४८ ॥
यच्चाब्रवीद् दीयतां मे गिरिपुत्रीति दानवः ।
तदेषा यातु स्वं कामं नाहं वारयितुं क्षमः ॥ ४०।४९ ॥
ततो ऽब्रवीत् गिरिसुता शम्बरं मुनिसत्तम ।
ब्रूहि गत्वान्धकं वीर मम वाक्यं विपश्चितम् ॥ ४०।५० ॥
अहं पताका सङ्ग्रामे भवानीशश्च देविनौ ।
प्रामद्यूतं परिस्तीर्य यो जेष्यति स लप्स्यते ॥ ४०।५१ ॥
इत्येवमुक्तो मतिमान् शम्बरो ऽन्दकमागमत् ।
समागम्याब्रवीद् वाक्यं शर्वगौर्योश्च भाषितम् ॥ ४०।५२ ॥
तच्छ्रत्वा दानवपतिः क्रोधदीप्तेक्षणः श्वसन् ।
समाहूयाब्रवीद् वाक्यं दुर्योधनमिदं वचः ॥ ४०।५३ ॥
गच्छ शीघ्रं महाबाहो भेरीं सान्नाहिकीं दृढाम् ।
ताडयस्व सुविश्रब्धं दुःशीलामिव योषितम् ॥ ४०।५४ ॥
समादिष्टो ऽन्धकेनाथ भेरीं दुर्योधनो बलात् ।
ताडयामास वेगेन यथाप्राणेन भूयसा ॥ ४०।५५ ॥
सा ताडिता बलवता भेरी दुर्योधनेन हि ।
सत्वरं भैरवं रावं रुराव सुरभी यथा ॥ ४०।५६ ॥
तस्यास्तं स्वरमाकर्ण्य सर्व एव महासुराः ।
समायाताः सभां तूर्णं किमेतदिति वादिनः ॥ ४०।५७ ॥
याथातथ्यं च तान् सर्वानाह सेनापतिर्बली ।
ते चापि बलिनां श्रेष्ठाः सन्नद्धा युद्धकाङ्क्षिणः ॥ ४०।५८ ॥
सहान्धका निर्ययुस्ते गजैरुष्ट्रैर्हयै रथैः ।
अन्धको रथमास्थाय पञ्चनल्वप्रणमाणतः ॥ ४०।५९ ॥
त्र्यम्बकं स पराजेतुं कृतबुद्धिर्विनिर्ययौ ।
जम्भः कुजम्भो हुण्डश्च तुहुण्डः शम्बरो बलिः ॥ ४०।६० ॥
बाणाः कार्तस्वरो हस्ती सूर्यशत्रुर्महोदरः ।
अयःशुङ्कुः शिबिः शाल्वो वृषपर्वा विरोचनः ॥ ४०।६१ ॥
हयग्रीवः कालनेमिः संह्लादः कालनाशनः ।
शरभः शलभश्चैव विप्रचित्तिश्च वीर्यवान् ॥ ४०।६२ ॥
दुर्योधनश्च पाकश्च विपाकः कालशम्बरौ ।
एते चान्ये च बहवो महावीर्या महाबलाः ।
प्रजगमुरुत्सुका योद्धुं नानायुधधरा रणे ॥ ४०।६३ ॥
इत्थं दुरात्मा दनुसैन्यपालस्तदान्धको योद्धुमना हरेण ।
महाचलं मन्दरमभ्युपेयिवान् स कालपाशावसितो हि मन्दधीः ॥ ४०।६४ ॥
इति श्रीवामनपुराणे चत्वारिशो ऽध्यायः