३८

दण्ड उवाच ।
चित्राङ्गदायास्त्वरजे तत्र सत्या यथासुखम् ।
स्मरन्त्याः सुरथं वीरं महान् कालः समभ्यगात् ॥ ३८।१ ॥
विश्वकर्मापि मुनिना शप्तो वानरतां गतः ।
न्यपतन्मेरुशिखराद् भूपृष्ठं विधिचोदितः ॥ ३८।२ ॥
वनं घोरं सुगुल्माढ्यं नदीं शालूकिनीमनु ।
शाक्वेयं पर्वतश्रेष्ठं समावसति सुन्दरि ॥ ३८।३ ॥
तत्रासतो ऽस्त सुचिरं फलमूलान्यथाश्नतः ।
कालो ऽत्यगाद् वरारोहे बहुवर्षगणो वने ॥ ३८।४ ॥
एकदा दैत्यशार्दूलः कन्दराख्यः सुतां प्रियाम् ।
प्रतिगृह्य समभ्यागात् ख्यातां देववतीमिति ॥ ३८।५ ॥
तां च तद् वनमायान्तीं समं पित्रा वराननाम् ।
ददर्श वानरश्रेष्ठः प्रजग्राह बालत् करे ॥ ३८।६ ॥
ततो गृहीतां कपिना स दैत्यः स्वसुतां शुबे ।
कन्दरो वीक्ष्य सङ्क्रुद्धः ख्ड्गमुद्यम्य चाद्रवत् ॥ ३८।७ ॥
तमापतन्तं दैत्येन्द्रं दृष्ट्वा शाखामृगो बली ।
तथैव सह चार्वङ्ग्या हिमाचलमुपागतः ॥ ३८।८ ॥
ददर्श च महादेवं श्रीकण्ठं यमुनातटे ।
तस्याविदूरे गहनमाश्रमं ऋषिवर्जितम् ॥ ३८।९ ॥
तस्मिन् महाश्रमे पुण्ये स्थाप्य देववतीं कपिः ।
न्यमञ्जत स कालिन्द्यां पश्यतो दानवस्य हि ॥ ३८।१० ॥
सो ऽजानत् तां मृतां पुत्रीं समं शाखामृगेण हि ।
जगाम च महातेजाः पातालं निलयं निजम् ॥ ३८।११ ॥
स चापि वानरो देव्या कालिन्द्या वेगते हृतः ।
नीतः शिवीति विख्याते देशं शुभजनावृतम् ॥ ३८।१२ ॥
ततस्तीर्त्वाथ वेगेन स कपिः पर्वतं प्रति ।
गन्तुकामो महातेजा यत्र न्यस्ता सुलोचना ॥ ३८।१३ ॥
अथापश्यत् समायान्तमञ्जनं गुह्यकोत्तमम् ।
नन्दयन्त्या समं पुत्र्या गत्वा जिगमिषुः कपिः ॥ ३८।१४ ॥
तां दृष्ट्वामन्यत श्रीमान् सेयं देववती ध्रुवम् ।
तन्मे वृथा श्रमो जातो जलमज्जनसम्भवः ॥ ३८।१५ ॥
इति सञ्चिन्तयन्नेव समाद्रवत् सुन्गदरीम् ।
सा तद् भयाच्च न्यपतन्नदीं चैव हिरण्वतीम् ॥ ३८।१६ ॥
गुह्यको वीक्ष्य तनयां पतितामापगाजले ।
दुःखशोकसमाक्रान्तो जगामाञ्जनपर्वतम् ॥ ३८।१७ ॥
तत्रासौ तप आस्थाय मोनव्रतधरः शुचिः ।
समास्ते वै महातेजाः संवत्सरगणान् बहून् ॥ ३८।१८ ॥
नन्दयन्त्यपि वेगेन हिरण्यत्यापवाहिता ।
नीता देशं महापुण्यं कोशलं साधुभुर्युतम् ॥ ३८।१९ ॥
गच्छन्ती सा च रुदती ददृशो वटपादपम् ।
प्ररोहप्रावृततनुं जटाधरमिवेश्वरम् ॥ ३८।२० ॥
तं दृष्ट्वा विपुलच्छायं विशश्राम वरानना ।
उपविष्टा शिलवापट्टे ततो वाचं प्रशुश्रवे ॥ ३८।२१ ॥
न सो ऽस्ति पुरुषः कश्चिद् यस्तं ब्रूयात् तपोधनम् ।
यथा स तनयस्तुभ्यमुद्बद्धो वटपादपे ॥ ३८।२२ ॥
सा श्रुत्वा तां तदा वार्णीं विस्पष्टाक्षरसंयुताम् ।
तिर्यगूर्ध्वमधश्चैव समन्तादवलोकयत् ॥ ३८।२३ ॥
ददृशे वृक्षशिखरे शिशुं पञ्चाब्दिकं स्थितम् ।
पिङ्गलाभिर्जटाभिस्तु उद्ब्द्धं यत्नतः शुभे ॥ ३८।२४ ॥
तं विब्रुवन्तं दृष्ट्वैव नन्दयन्ती सुदुःखिता ।
प्राह केनासि बद्ध्स्तवं नन्दयन्ती सुदुःखिता ।
प्राह केनासि बद्धस्त्वं पापिना वद बालक ॥ ३८।२५ ॥
स तामाह महाभागे बद्धो ऽस्मि कपिना वटे ।
जटास्वेवं सुदुष्टेन जीवामि तपसो बलात् ॥ ३८।२६ ॥
पुरोन्मत्तपुरेत्येव तत्र देवो महेश्वरः ।
तत्रास्ति तपसो राशिः पिता मम ऋतध्वजः ॥ ३८।२७ ॥
तस्यास्मि जपमानस्य महायोगं महात्मनः ।
जातो ऽलिवृन्दसंयुक्तः सर्वशास्त्रविशारदः ॥ ३८।२८ ॥
ततो मामब्रवीत् तातो नाम कृत्वा शुभानने ।
जाबालीति परिख्याय तच्छृणुष्व शुभानने ॥ ३८।२९ ॥
पञ्चवर्षसहस्राणि बाल एव भविष्यसि ।
दशवर्षसहस्राणि सुमारत्वे चरिष्यसि ॥ ३८।३० ॥
विंशतिं यौवनस्थायी वीर्येण द्विगुणं ततः ।
पञ्चवर्षशतान् बालो भोक्ष्यसे बन्धनं दृढम् ॥ ३८।३१ ॥
दशवर्षशतान्येव कौमारे कायपीडनम् ।
यौवने पारमान् भोगान् द्विसहस्रसमास्तथा ॥ ३८।३२ ॥
चत्वारिशच्छतान्येव वार्धके क्लेशमुत्तमम् ।
लप्स्यसे भूमिशय्याढ्यं कदन्नाशनभोजनम् ॥ ३८।३३ ॥
इत्येवमुक्तः पित्राहं बालः पञ्चाब्ददेशिकः ।
विचरामि महीपृष्ठं गच्छन् स्नातुं हिरण्वतीम् ॥ ३८।३४ ॥
ततो ऽपश्यं कपिवरं सो ऽवदन्मां क्व यास्यसि ।
इमां देववतीं गृह्यं मूढ न्यस्तां महाश्रमे ॥ ३८।३५ ॥
ततो ऽसौ मां समादाय विस्फुरन्तं प्रयत्नतः ।
वटाग्रे ऽस्मिन्नुद्ब्बन्ध जटाभिरपि सुन्दरि ॥ ३८।३६ ॥
तथा च रक्षा कपिना कृता भीरु निरन्तरैः ।
लतापाशैर्महायन्त्रमधस्ताद् दुष्टबुद्धिना ॥ ३८।३७ ॥
अभेद्यो ऽयमनाक्रम्य उपरिष्टात् तथाप्यधः ।
दिशां मुकेषु सर्वेषु कृतं यन्त्रं लतामयम् ॥ ३८।३८ ॥
संयम्य मां कपिवरः प३यतो ऽमरपर्वतम् ।
यथेच्छया मया दृष्टमेतत् ते गदितं शुभे ॥ ३८।३९ ॥
भवती का महारण्ये ललना परिवर्जिता ।
समायाता सुचार्वङ्गी केन सार्थेन मां वद ॥ ३८।४० ॥
साब्रवीदढ्जनो नाम सुह्यकेन्द्रः पिता मम ।
नन्दयन्तीति मे नाम प्रम्लोचागर्भसम्भवा ॥ ३८।४१ ॥
तत्र मे जातके प्रोक्तमृषिणा मुद्गलेन हि ।
इयं नरेन्द्रमहिषी भविष्यति न संशयः ॥ ३८।४२ ॥
तद्वाक्यसमकालं च व्यनदद् देवदुन्दुभिः ।
शिवा चाशिवनिर्घोषा ततो भूयो ऽब्रवीनमुनिः ॥ ३८।४३ ॥
न सन्देहो नरपतेर्महाराज्ञी भविष्यति ।
महान्तं संशयं घोरं कन्याभावे गमिष्यति ।
ततो जगाम स ऋषिरेवमुक्त्वा वचो ऽद्भुतम् ॥ ३८।४४ ॥
पिता मामपि चादाय समागन्तुमथैच्छत ।
तीर्थं ततो हिरण्वत्यास्तीरात् कपिरथोत्पतत् ॥ ३८।४५ ॥
तद् भयाच्च मया ह्यात्मा क्षिप्तः सागरगाजले ।
तयास्मि देशमानीता इमं मानुषवर्जितम् ॥ ३८।४६ ॥
श्रुत्वा जाबालिरथ तद् वचनं वै तयोदितम् ।
प्राह सुन्दरि गच्छस्व श्रीकण्ठं यमुनातटे ॥ ३८।४७ ॥
तत्रागच्छति मध्याह्ने मत्पिता शर्वमर्चितुम् ।
तस्मै निवेदयात्मानं तत्र श्रेयो ऽधिलप्स्यसे ॥ ३८।४८ ॥
ततस्तु त्वरिता काले नन्दयन्ती तपोनिधिम् ।
परित्राणार्थमगमद्धिमाद्रेर्यमुनां नदीम् ॥ ३८।४९ ॥
सा त्वदीर्घेण कालेन कन्दमूलफलाशना ।
सम्प्राप्ता शङ्करस्थानं यत्रागच्छति तापसः ॥ ३८।५० ॥
ततः सा देवदेवेशं श्रीकण्ठं लोकवन्दितम् ।
प्रतिवन्द्य ततो ऽपश्यक्षरांस्तान्महामुने ॥ ३८।५१ ॥
तेषामर्थं हि विज्ञाय सा तदा चारुहासिनी ।
तज्जाबाल्युदितं श्लोकमलिखच्चान्यमात्मनः ॥ ३८।५२ ॥
मुद्गलेनास्मि गदिता राजपत्नी भविष्यति ।
सा चावस्थामिमां प्राप्ता कश्चिन्मां त्रातुमीश्वरः ॥ ३८।५३ ॥
इत्युल्लिख्य शिलापट्टे गता स्नातुं यमस्वसाम् ।
ददृसे चाश्रमवरं मत्तकोकिलनादितम् ॥ ३८।५४ ॥
ततो ऽमन्यत सात्रर्षिर्नूनं तिष्ठति सत्तमः ।
इत्येवं चिन्तयन्ती सा सम्प्रविष्टा महाश्रमम् ॥ ३८।५५ ॥
ततो ददर्श देवाभां स्थितां देववतीं शुभाम् ।
संशुष्कास्यां चलन्नेत्रां परिम्लानामिवाब्जिनीम् ॥ ३८।५६ ॥
सा चापतन्तीं ददृशे यक्षजां दैत्यनन्दिनी ।
केयमित्येव सञ्चिन्त्य समुत्थाय स्थिताभवत् ॥ ३८।५७ ॥
ततो ऽन्योन्यं समालिङ्ग्य गाढं गाढं सुहृत्त्या ।
पप्रच्छतुस्तथान्यो ऽयं कथयामासतुस्तदा ॥ ३८।५८ ॥
ते परिज्ञाततत्त्वार्थे अन्योन्यं ललनोत्तमे ।
समासीने कथाभिस्ते नानारूपाभिरादरात् ॥ ३८।५९ ॥
एतस्मिन्नन्तरे प्राप्तः श्रीकण्ठं स्नातुमादरात् ।
स तत्त्वज्ञो मुनिश्रेष्ठो अक्षराण्यवलोकयन् ॥ ३८।६० ॥
स दृष्ट्वा वाचयित्वा च तमर्थमधिगम्य च ।
मुहूर्तं ध्यानमास्थाय व्यजानाच्च तपोनिधिः ॥ ३८।६१ ॥
ततः सम्पूज्य देवेशं त्वरया स ऋतध्वजः ।
अयोध्यामगमत् क्षिप्रं द्रष्टुमिक्ष्वाकुमीश्वरम् ॥ ३८।६२ ॥
तं दृष्ट्वा नृपतिश्रेष्ठं तापसो वाक्यमब्रवीत् ।
श्रूयतां नरसार्दूल विज्ञप्तिर्मम पार्थिव ॥ ३८।६३ ॥
मम पुत्रो गुणैर्युक्तः सर्वसास्त्रविशारदः ।
उद्ब्द्धः कपिना राजन् विषयानते तवैव हि ॥ ३८।६४ ॥
तं हि मोचयितुं नान्यः शक्तस्त्वत्तदनयादृते ।
शकुनिर्नाम राजेन्द्र स ह्यस्त्रविधिपारगः ॥ ३८।६५ ॥
तन्मुनेर्वाक्यमाकर्ण्य पिता मम कृशोदरि ।
आदिदेश प्रियं पुत्रं शकुनिं तापसान्वये ॥ ३८।६६ ॥
ततः स प्रहितः पित्रा भ्राता मम महाभुजः ।
सम्प्राप्तो बन्धनोद्देशं समं हि परमर्षिणा ॥ ३८।६७ ॥
दृष्ट्वा न्यग्रोधमत्युच्चं प्ररोहास्तृतदिङ्मुखम् ।
ददर्श वृक्षशिखरे उद्बद्धमृषिपुत्रकम् ॥ ३८।६८ ॥
ताश्च सर्वाल्लतापाशान् दृष्ट्वान् स समन्ततः ।
दृष्ट्वा स मुनिपुत्रं तं स्वजटासंयतं वटे ॥ ३८।६९ ॥
धनुरादाय बलवानधिज्यं स चकार ह ।
लाघवादृषिपुत्रं तं रक्षंश्चिच्छेदमार्गणैः ॥ ३८।७० ॥
कपिना यत् कृतं सर्वं लतापाशं चतुर्दिशम् ।
पञ्चवर्षशते काले गते शक्तस्तदा शरैः ॥ ३८।७१ ॥
लताच्छन्नं ततस्तूर्णमारुरोह मुनिर्वटम् ।
प्राप्तं स्वपितरं दृष्ट्वा जाबालिः संयतो ऽपि सन् ॥ ३८।७२ ॥
आदरात् पितरं मूर्ध्ना ववन्दत विधानतः ।
सम्परिष्वज्य स मुनिर्मूर्ध्न्याघ्राय सुतं ततः ॥ ३८।७३ ॥
उन्मोचयितुमारब्धो न शशाक सुसंयतम् ।
ततस्तूर्णं धनुर्न्यस्य बाणांश्च शकुनिर्बली ॥ ३८।७४ ॥
आरुरोह वटं तूर्णं जटा मोचयितुं तदा ।
न च शक्नोति सञ्च्छन्नं दृढं कपिवरेम हि ॥ ३८।७५ ॥
यदा न शकिता स्तेन सम्प्रमोचयितुं जटाः ।
तदावतीर्णः शकुनिः सहितः परमर्षिणा ॥ ३८।७६ ॥
जग्राह च धनुर्बाणांश्चकार शरमण्डपम् ।
लाघवादर्द्धचन्द्रैस्तां शाखां चिच्छेद स त्रिधा ॥ ३८।७७ ॥
शाखया कृत्तया चासौ भारवाही तपोधनः ।
शरसोपानमार्गेण अवतीर्णो ऽथ पादपात् ॥ ३८।७८ ॥
तस्मिंस्तदा स्वे तनये ऋतध्वजस्त्राते नरेन्द्रस्य सुतेन धन्विना ।
जाबालिना भारवहेन संयुतः समाजगामाथ नदीं स सूर्यजाम् ॥ ३८।७९ ॥

इति श्रीवामनपुराणे अष्टात्रिंशो ऽध्यायः