नाराद उवाच ।
गतो ऽन्धकस्तु पाताले किमचेष्टत दानवः ।
शङ्करो मन्दरस्थो ऽपि यच्चाकार तदुच्यताम् ॥ ३७।१ ॥
पुलास्त्य उवाच ।
पातालस्थो ऽन्धको ब्रह्मन् बाध्यते मदनाग्निना ।
सन्त्पतविग्रहः सर्वान् दानवानिदमब्रवीत् ॥ ३७।२ ॥
स मे सुहृत्स मे बन्धुः स भ्रात स पिता मम ।
यस्तामद्रिसुतां शीघ्नं ममान्ति कमुपानयेत् ॥ ३७।३ ॥
एवं ब्रुवति दैत्येन्दे अन्धके मदनान्धके ।
मेघगम्भीरनिर्घोषं प्रहलादो वाक्यमब्रवीत् ॥ ३७।४ ॥
येयं गिरिसुता वीर सा माता धर्मतस्तव ।
पिता त्रिनयनो देवः श्रूयतामत्र कारणम् ॥ ३७।५ ॥
तव पित्रा ह्यपुत्रेम धर्मनित्येन दानव ।
आराधितो महादेवः पुत्रार्थाय पुरा किल ॥ ३७।६ ॥
तस्मै त्रिलोचननासीद् दत्तो ऽन्धो ऽप्येव दानव ।
पुत्रकः पुत्रकामास्य प्रोक्त्वेत्यं वचनं विभो ॥ ३७।७ ॥
नेत्रत्रयं हिरण्याक्ष नर्मार्थमुमया मम ।
पिहितं योगसंस्थस्य ततो ऽन्धमभवत्तमः ॥ ३७।८ ॥
तस्माच्च तमसो जातो भूतो नीलघनस्वनः ।
तदितं गृह्यतां दैत्य तवोपयिकमात्मजम् ॥ ३७।९ ॥
यदा तु लोकविद्विष्टं दुष्टं कर्म करिष्यति ।
त्रैलोक्यजननीं चापि अभीवाञ्छिष्यते ऽधमः ॥ ३७।१० ॥
घातयिष्यति वा विप्रं यदा प्रक्षिप्त चासुरान् ।
तदास्य स्वयमेवाहं करिष्ये कायशोधनम् ॥ ३७।११ ॥
एवमुक्त्वा गतः शम्भुं स्वस्थानं मन्दराचलम् ।
त्वत्पितापि समभ्यागात् त्वामादाय रसातलम् ॥ ३७।१२ ॥
एतेन कारणेनाम्बा शैलेयी भविता तव ।
सर्वस्यापीह जगतो गुरुः शम्भुः पिता ध्रुवम् ॥ ३७।१३ ॥
भवानपि तपोयुक्तः शास्त्रवेत्ता गुणाप्लुतः ।
नेदृशे पापसङ्कल्पे मतिं कुर्याद् भवद्विधः ॥ ३७।१४ ॥
त्रैलोक्यप्रभुरव्यक्तो भवः सर्वैर्नमस्कृतः ।
अजेयस्तस्य भार्येयं न त्वमर्हे ऽमरार्दन ॥ ३७।१५ ॥
न चापि शक्तः प्राप्तुं तां भवाञ्शैलनृपात्मजाम् ।
अजित्वा सगणं रुद्रं स च कामो ऽद्य दुर्लभः ॥ ३७।१६ ॥
यस्तरेत् सागरं दोर्भ्या पातयेद् भुवि भास्करम् ।
मेरुमुत्पाटयेद् वापि स जयेच्छूलपाणिनम् ॥ ३७।१७ ॥
उताहोस्विदिमाः शक्याः क्रियाः कर्तुं नरेर्बलात् ।
न च शक्यो हरो जेतुं सत्यं सत्यं मयोदितम् ॥ ३७।१८ ॥
किं त्वया न श्रुतं दैत्य यथा दण्डो महीपलिः ।
परस्त्रीकामवान् मूढः सराष्ट्रो नाशमाप्तवान् ॥ ३७।१९ ॥
आसीद् दण्डो नाम नृपः प्रभूतबलवाहनः ।
स च वव्रे महातेजाः पौरोहित्याय भार्गवम् ॥ ३७।२० ॥
ईजे च विविधैर्यज्ञैर्नृपतिः शुक्रपावलितः ।
सुक्रस्यासीच्च दुहिता अरजा नाम नामतः ॥ ३७।२१ ॥
शुक्रः कदाचिदगमद् वृषुपर्वाणमासुरम् ।
तेनार्चितश्चिरं तत्र तस्थौ भार्गवसत्त्मः ॥ ३७।२२ ॥
अरजा स्वगृहे वह्निं शुश्रुषन्ती महासुर ।
अतिष्ठत सुचार्वङ्गी ततो ऽब्यागान्नराधिपः ॥ ३७।२३ ॥
स पप्रच्छ क्व शुक्रोति तमूचुः परिचारिकाः ।
गतः स भगवान् शुक्रो याजनाय दनोः सुतम् ॥ ३७।२४ ॥
पप्रच्छ नृपतिः का तु तिष्ठते भार्गवाश्रमे ।
तास्तमूचुर्गुरोः पुत्री सन्तिष्ठत्यरजा नृप ॥ ३७।२५ ॥
तामाश्रमे शुक्रसुतां द्रष्टुमिक्ष्वाकुनन्दनः ।
प्रविवेश महाबाहुर्ददर्शारजसं ततः ॥ ३७।२६ ॥
तां तृष्ट्वा कामसन्तप्तस्तत्क्षणादेव पार्थिवः ।
सञ्जातो ऽन्धक दण्डस्तु कृतान्तबलचोदितः ॥ ३७।२७ ॥
ततो विसर्जयामास भृत्यान् भ्रातृन् सुहृत्तमान् ।
शुक्रशिष्यानपि बली एकाकी नृप आव्रजत् ॥ ३७।२८ ॥
तमागतं शुक्रसुता प्रत्युत्थाय यशस्विनी ।
पूजयामास संहृष्टा भ्रातृभावेन दानव ॥ ३७।२९ ॥
ततस्तामाह नृपतिर्बाले कामाग्निवारिणा ।
मां समाह्लादयस्वाद्य स्वपरिष्वङ्गवारिणा ॥ ३७।३० ॥
सापि प्राह नृपश्रेष्ठ मा विनीनस आतुरः ।
पिता मम महाक्रोधात् त्रिदशानपि निर्दहेत् ॥ ३७।३१ ॥
मूढबुद्धे भवान् भ्राता ममासि त्वनयाप्लुतः ।
भगिनी धर्मतस्ते ऽहं भवाञ्शिष्यः पितुर्मम ॥ ३७।३२ ॥
सो ऽब्रोवीद् भीरु मां शुक्रः कालेन परिधक्ष्यति ।
कामाग्निर्निर्दहति मामद्यैव तनुमध्यमे ॥ ३७।३३ ॥
सा प्राह दण्डं नृपातिं मुहूर्त परिपालय ।
तमेव याचस्व गुरुं स ते दास्यत्यसंशयम् ॥ ३७।३४ ॥
दण्डो ऽब्रवीत् सुतन्वङ्गि कालक्षेपो न मे क्षमः ।
च्युतावसरकर्तृत्वे विघ्नो जायेत सुन्दरि ॥ ३७।३५ ॥
ततो ऽब्रवीच्च विरजा नाहं त्वां पार्थिवात्मज ।
दातुं शक्ता स्वमात्मानं स्वतन्त्रा न हि योषितः ॥ ३७।३६ ॥
किं वा ते बहुनोक्तेन मा त्वं नाशं नराधिप ।
गच्छस्व शुक्रशापेन सभृत्यज्ञातिबान्धवः ॥ ३७।३७ ॥
ततो ऽऽब्रवीन्नरपतिः सुतनु शृणु चेष्टितम् ।
चित्राङ्गदाया यद् वृत्तं पुरा देवयुगे शुभे ॥ ३७।३८ ॥
विश्वकर्णसुता साध्वी नाम्ना चित्राङ्गदाभवत् ।
रूपयौवनसम्पन्ना पद्महीनेव पद्मिनी ॥ ३७।३९ ॥
सा कदाचिन्महारण्यं सखीभिः परिवारिता ।
जगाम नेमिषं नाम स्नातुं कमललोचना ॥ ३७।४० ॥
सा स्नातुमवतीर्णा च अथाभ्यागान्नरेश्वरः ।
सुदेवतनयो धीमान् सुरथो नाम नामतः ।
॥
तां ददर्श च तन्वङ्गीं शुभाङ्गो मदनातुरः ॥ ३७।४१ ॥
तं दृष्ट्वा सा सखीराह वचनं सत्यसंयुतम् ।
असौ नराधिपसुतो मदनेन सदर्थ्यते ॥ ३७।४२ ॥
मदर्थे च क्षमं मे ऽस्य स्वप्रदानं सुरूपिणः ।
सख्यस्तामब्रुवन् बाला न प्रगल्भऽसि सुन्दरि ॥ ३७।४३ ॥
अस्वातन्त्र्यं तवास्तीह प्रदाने स्वत्मनो ऽनघे ।
पिता तवास्ति धर्मिष्ठः सर्वशिल्पविशारदः ॥ ३७।४४ ॥
न ते युक्तमिहात्मानं दातुं नरपतेः स्वयम् ।
एतस्मिन्नन्तरे राजा सुरथः सत्यवात् सुधी ॥ ३७।४५ ॥
समभ्येत्याब्रबीदेनां कन्दर्पशरपीडितः ।
त्वं मुग्धे मोहयसि मां दृष्ट्यैव मदिरेक्षणे ॥ ३७।४६ ॥
त्वद्दृष्टिरपातेन स्मरेणाभ्येत्य ताडितः ।
तन्मां कुचतले तल्पे अभिशायितुमर्हसि ॥ ३७।४७ ॥
नोचेत् प्रधक्ष्यते कामो भूयो भूयो ऽतिदर्शनात् ।
ततः सा चारुसर्वाङ्गी राज्ञो राजीवलोचना ॥ ३७।४८ ॥
वार्यमाणा सखीभिस्तु प्रादादात्मानमात्मना ।
एवं पुरा तया तैन्व्या परित्रातः स भूपतिः ॥ ३७।४९ ॥
तस्मान्मामपि सुश्रोणि त्वं परित्रातुमर्हसि ।
अरजस्काब्रवीद् दण्डं तस्या यद् वृत्तमुत्तरम् ॥ ३७।५० ॥
किं त्वया न पिरज्ञातं तस्मात् ते कथयाम्यहम् ।
तदा तया तु तन्वङ्ग्या सुरथस्य महीपतेः ॥ ३७।५१ ॥
आत्मा प्रदत्तः स्वातन्त्र्यात् ततस्तामशपत् पिता ।
यस्माद् धर्मं परित्यज्य स्त्रीभावान् मन्दचेतसे ॥ ३७।५२ ॥
आत्मा प्रदत्तस्तस्माद्धि न विवाहो भविष्यति ।
विवाहरहिता नैव सुखं लप्स्यसि भर्तृतः ॥ ३७।५३ ॥
न च पुत्रफलं नैव पतिना योगमेष्यसि ।
उत्सृष्टमात्रे शापे तु ह्यपोवाह त्रयोदश ।
अपकृष्टे नपरपतौ सापि मोहमुपागता ॥ ३७।५४ ॥
अकृतार्थं नरपतिं योजनानि त्रयोदश ।
अपकृष्टे नपरपतौ सापि मोहमुपागता ॥ ३७।५५ ॥
ततस्तां सिषिचुः सख्यः सरस्वत्या जलेन हि ।
सा सिच्यमाना सुतरां शिशिरेणाप्यथाम्भसा ॥ ३७।५६ ॥
मृतकल्पा महाबाहो विश्वकर्मसुताभवत् ।
तां मृतामिति विज्ञाय जग्मुः सख्यस्त्वरान्विताः ॥ ३७।५७ ॥
काष्ठान्याहर्तुमपरा वह्निमानेतुमाकुलाः ।
सा च तास्वपि सर्वासु गतासु वनमुत्तमम् ॥ ३७।५८ ॥
सञ्ज्ञां लेभे सुचार्वङ्गी दिशश्चाप्यवलोकयत् ।
अपश्यन्ती नापतिं तथा स्निग्धं सखीजनम् ॥ ३७।५९ ॥
निपपात सरस्वत्याः पयसि स्फुरितेक्षणा ।
तां वेगात् काञ्चनाक्षी तु महानद्यां नरेश्वर ॥ ३७।६० ॥
गोमत्यां परिचिक्षेप तरङ्कुटिले जले ।
तयापि तस्यास्तद्भाव्यं विदित्वाथ विशां पते ॥ ३७।६१ ॥
महावने परिक्षिप्ता सिंहव्याघ्रभयाकुले ।
एवं तस्याः स्वतन्त्राया एषावस्था श्रुता मया ॥ ३७।६२ ॥
तां प्राह पुत्रि कस्यासि सुता सुरसुतोपमा ।
किमर्थमागतासीह निर्मनुष्यमृगे वने ॥ ३७।६३ ॥
ततः सा प्राह तमृषिं यथातथ्यं कृशोदरी ।
श्रुत्वार्षिः कोपमगमदशपच्छिल्पिनां वपम् ॥ ३७।६४ ॥
यस्मात् स्वतनुजातेयं परदेयापि पापिना ।
योजिता नैव पतिना तस्माच्छाखामृगो ऽस्तु सः ॥ ३७।६५ ॥
इत्युक्त्वा स महायोगी भूयः स्नात्वा विधानतः ।
उपास्य पश्विमां सन्ध्यां पूजयामास शङ्करम् ॥ ३७।६६ ॥
सम्पूज्य देवदेवेशं यथोक्तविधिना हरम् ।
उवाचागम्यतां सुभ्रूं सुदतीं पतिलालसाम् ॥ ३७।६७ ॥
गच्छस्व सुभगे देशं सप्तगोदावरं शुभम् ।
तत्रोपास्य महेशानं महान्तं हाटकेश्वरम् ॥ ३७।६८ ॥
तत्र स्थिताया रम्भोरु ख्याता देववती शुभा ।
आगमिष्यति दैत्यस्य पुत्री कन्दरमालिनः ॥ ३७।६९ ॥
तथान्या सुह्यकसुता नन्दयन्तीति विश्रुता ।
अञ्जनस्यैव तत्रापि समेष्यति तपस्विनी ।
तथापरा वेदवती पर्जन्यदुहिता शुभा ॥ ३७।७० ॥
यदा तिस्रः समेष्यन्ति सप्तगोदावरे जले ।
हाटकाख्ये महादेव तदा संयोगमेष्यसि ॥ ३७।७१ ॥
इत्येवमुक्ता मुनिना बाला चित्राङ्गदा तदा ।
सप्तगोदावरं तीर्थमगमत् त्वरिता ततः ॥ ३७।७२ ॥
सम्प्राप्य तत्र देवेशं पूजयन्ती त्रिलोचनम् ।
समध्यास्ते शुचिपरा फलमूलाशनाभवत् ॥ ३७।७३ ॥
स चर्षिर्ज्ञानसम्पन्नः श्रीकण्ठायतने ऽलिखत् ।
श्लोकमेकं महाख्यानं तस्याश्च प्रियकाम्यया ॥ ३७।७४ ॥
न सो ऽस्ति कश्चित् त्रिदशो ऽसुरो वा यक्षो ऽथ मर्त्यो रजनीचरो वा ।
इदं हि दुःखं मृगशावनेत्र्या निर्मार्जयेद् यः स्वपराक्रमेण ॥ ३७।७५ ॥
इत्येवमुक्त्वा स मुनिर्जगाम द्रष्टुं विभुं पुष्करनाथमीड्यम् ।
नदीं पयोष्णीं मुनिवृन्दवन्द्यां सञ्चिन्तयन्नेव विशालनेत्राम् ॥ ३७।७६ ॥
इति श्रीवामनपुराणे सप्तत्रिंशो ऽध्यायः