३६

पुलस्त्य उवाच ।
ततो मुरारिभवनं समभ्येत्य सुरास्ततः ।
ऊचुर्देवं नमस्कृत्य जगत्सङ्क्षुब्धिकारणम् ॥ ३६।१ ॥
तच्छ्रुत्वा भगवान् प्राह गच्छामो हरमन्दिरम् ।
स तव्त्स्यति महाज्ञानी जगत्क्षुब्धं चरचरम् ॥ ३६।२ ॥
तयोक्ता वासुदेवेनन देवाः शक्रपुरोगमाः ।
जनार्दनं पुरस्कृत्य प्रजाग्मुर्मन्दरं गिरिम् ।
न तत्र देवं न वृषं न देवीं न च नन्दिनम् ॥ ३६।३ ॥
शून्यं गिरिमपश्यन्त अज्ञानतिमिरावृताः ।
तान् मूढदृष्टीन् सम्प्रोक्ष्य देवान् विष्णुर्महाद्युतिः ॥ ३६।४ ॥
प्रोवाच किं न पश्यध्वं महेशं पुरतः स्थितम् ।
तमूचुर्नैव देवेशं पश्यामो गिरिजापतिम् ॥ ३६।५ ॥
न विद्मः कारणं तच्च येन दृष्टिर्हता हि नः ।
तानुवाच जगन्मूर्तिर्यूयं देवस्य सागसः ॥ ३६।६ ॥
पापिष्ठा गर्भहन्तारो मृडान्याः स्वार्थतत्पराः ।
तेन ज्ञानविवेको वै हृतो देवेवन शूलिना ॥ ३६।७ ॥
येनाग्रतः स्थितमपि पश्यन्तो ऽपि न पश्यथ ।
तस्मात् कायविशुद्ध्यर्थं देवदृष्ट्यर्थमादरात् ॥ ३६।८ ॥
तप्तकृच्छ्रेम संशुद्धाः कुरुध्वं स्नानमीश्वरे ।
क्षीरस्नाने प्रयुञ्जीत सार्द्ध कुम्भशतं सुराः ॥ ३६।९ ॥
दधिस्नाने चुतःषष्टिर्द्वात्रिंशद्धविषोर्ऽहणे ।
पञ्चगव्यस्य शुद्धस्य कुम्भाः षोडश कीर्तिताः ॥ ३६।१० ॥
मदुनो ऽष्टौ जलस्योक्ताः सर्वे ते द्विगुणाः सुराः ।
ततो रोचनया देवमष्टोत्तरशतेन हि ॥ ३६।११ ॥
अनुलिम्पेत् कुङ्कुमेन चन्दनेन च भक्तितः ।
बिल्वपत्रैः सकमलैः धत्तूरसुरचन्दनैः ॥ ३६।१२ ॥
मन्दारैः पारिजातैश्च अतिमुक्तैस्तथार्ऽचयेत् ।
अगुरुं सह कालेयं चन्दनेनापि धूपयेत् ॥ ३६।१३ ॥
जप्तव्यं शतरूद्रीयं ऋग्वेदोक्तैः पदक्रमैः ।
एवं कृते तु देवेशं पश्यध्वं नेतरेण च ॥ ३६।१४ ॥
इत्युक्ता वासुदेवेन देवाः केशवमब्रुवन् ।
विधानं तप्तकृच्छ्रस्य कथ्यतां मधुसूदन ।
यस्मिश्चिर्णे कायशुद्धिर्भवते सार्वकालिकी ॥ ३६।१५ ॥
वासुदेव उवाच ।
त्र्यहमुष्णं पिबेदापः त्र्यहमुष्णं पयः पिवेत् ।
त्र्यहमुष्णं पिबेत्सर्पिर्वायुभक्षो दिनत्रयम् ॥ ३६।१६ ॥
पला द्वादश तोयस्य पलाष्टौ पयसः सुराः ।
षट्पलं सर्पिषः प्रोक्तं दिवसे दिवसे पिबेत् ॥ ३६।१७ ॥
पुलस्त्य उवाच ।
इत्येवमुक्ते वचने सुराः कायविशुद्धये ।
तप्तकृच्छ्ररहस्यं वै चक्रुः शक्रपुरोगमाः ॥ ३६।१८ ॥
ततो व्रते सुराश्चीर्णे विमुक्ताः पापतो ऽभवन् ।
विमुक्तपापा देवेशं वासुदेवमथाब्रुवन् ॥ ३६।१९ ॥
क्वासौ वद जगन्नाथ शम्भुस्तिष्ठति केशव ।
यं क्षीराद्यभिषेकेण स्नापयामो विधानतः ॥ ३६।२० ॥
अथोवाच सुरान्विष्णुरेव तिष्ठति शङ्करः ।
मद्देहे किं न पश्यध्वं योगाश्चायं प्रतिष्ठितः ॥ ३६।२१ ॥
तमूचुर्नैव पश्यामस्त्वत्तो वै त्रिपुरान्तकम् ।
सत्यं वद सुरेशान महेशानः क्व तिष्ठति ॥ ३६।२२ ॥
ततो ऽव्ययात्मा स हरिः स्वहृत्पङ्कजशायिनम् ।
दर्शयामास देवानां मुरारिर्लिङ्गमैश्वरम् ॥ ३६।२३ ॥
ततः सुराः क्रमेणैव क्षीरादिभिरनन्तरम् ।
स्नापयाञ्चक्रिरे लिङ्गं शाश्वतं ध्रुवमव्ययम् ॥ ३६।२४ ॥
गोरोचनया त्वालिप्य चन्दनेन सुगन्धिना ।
बिल्वपत्राम्बुजैर्देवं पूजयामासुरञ्जसा ॥ ३६।२५ ॥
प्रधूप्यागुरुणा भक्त्या निवेद्य परमैषधीः ।
जप्त्वाष्टशतनामानं प्रणामं चक्रिरे ततः ॥ ३६।२६ ॥
इत्येवं चिन्तयन्तश्च देवावेतौ हरीश्वरौ ।
कथं योगत्वमापन्नौ सत्त्वान्धतमसोद्भवौ ॥ ३६।२७ ॥
सुराणां चिन्तितं ज्ञात्वा विश्वमूर्तिभूद्विभुः ।
सर्वलक्षणसंयुक्तः सर्वायुधधरो ऽव्ययः ॥ ३६।२८ ॥
सार्द्धं त्रिनेत्रं कमलाहिकुण्डलं जटागुडाकेशखगर्षभध्वजम् ।
समाधवं हारभुजङ्गवक्षसं पीताजिनाच्छन्नकटिप्रदेशम् ॥ ३६।२९ ॥
चक्रासिहस्तं हलशार्ङ्गपाणिं पिनाकशूलाजगवान्वितं च ।
कपर्दखट्वाङ्गकपालघण्टासशङ्खटङ्काररवं महर्षे ॥ ३६।३० ॥
दृष्ट्वैव देवा हरिशङ्करं तं नमो ऽस्तु ते सर्वगताव्ययेति ।
प्रोक्त्वा प्रणामं कमलासनाद्याश्चक्रुर्मतिं चैकतरां नियुज्य ॥ ३६।३१ ॥
तानेकचित्तान् विज्ञाय देवान् देवपतिर्हरिः ।
प्रगृह्याभ्यद्रवत्तूर्णं कुरुक्षेत्रं स्वमाश्रमम ॥ ३६।३२ ॥
ततो ऽपश्यन्त देवेशं स्थाणुभूतं जले शुचिम् ।
दृष्ट्वानमः स्थाणवेति प्रोक्त्वा सर्वेह्युपाविशन् ॥ ३६।३३ ॥
ततो ऽब्रवीत् सुरपतिरेह्येहि दीयतां वरः ।
क्षुब्धं जगज्जगन्नाथ उन्मज्जस्व प्रियातिथे ॥ ३६।३४ ॥
ततस्तां मधुरां वाणीं शुश्राव वृषभध्वजः ।
श्रुत्वोत्तस्थौ च वैगेन सर्वव्यापी निरञ्जनः ॥ ३६।३५ ॥
नमो ऽस्तु स्र्वदेभ्यः प्रोवाच प्रहसन् हरः ।
स चागतः सुरैः सेन्द्रः प्रणतो विनयान्वितैः ॥ ३६।३६ ॥
तमूचुर्देवताः सर्वस्त्यज्यतां शङ्करद्रत्म् ।
महाव्रतं त्रयो लोकाः क्षुब्धास्त्वत्तेसावृताः ॥ ३६।३७ ॥
अथोवाच महादेवो मया त्यक्तो महाव्रतः ।
ततः सुरा दिवं जग्मुर्हृष्टाः प्रयतमानसाः ॥ ३६।३८ ॥
ततो ऽपि कम्पते पृथ्वी साब्धिद्वीपाचला मुने ।
ततो ऽभिचिन्तयद्रुद्रः किमर्थं क्षुभिता मही ॥ ३६।३९ ॥
ततः पर्यचरच्छूली कुरुक्षेत्रं समन्ततः ।
ददर्शोघवतीतीरे उशनसं तपोनिधिम् ॥ ३६।४० ॥
ततो ऽब्रवीत्सुरपतिः किमर्थं तप्यते तपः ।
जगत्क्षोभकरं विप्र तच्छीघ्रं कथ्यतां मम ॥ ३६।४१ ॥
उशना उवाच ।
तवाराधनकामार्थं तप्यते हि महत्तपः ।
सञ्जीवनीं शुभां विद्यां ज्ञातुमिच्छे त्रिलोचन ॥ ३६।४२ ॥
हर उवाच ।
तपसा परितुष्टो ऽस्मि सुतप्तेन तपोधन ।
तस्मात् सञ्जीवनींविद्यां भवान् ज्ञास्यति तत्तवत्तः ॥ ३६।४३ ॥
वरं लब्ध्वा ततः शुक्रस्तपसः सन्न्यवर्त्तत ।
तथापि चलते पृथ्वी साब्धिभूभृन्नगावृता ॥ ३६।४४ ॥
ततो ऽगमन्महादेवः सप्तसारस्वतं शुचिः ।
ददर्श नृत्यमानं च ऋषिं मङ्कणसञ्ज्ञितम् ॥ ३६।४५ ॥
भावेन पोप्लूयति बालवत् स भुजौ प्रसार्यैव ननर्त्त वेगात् ।
तस्यैव वेगेन समाहता तु चचाल भूर्भूमिधरैः सहैव ॥ ३६।४६ ॥
तं शङ्गरो ऽभ्येत्य करे निगृह्य प्रोवाच वाक्यं प्रहसन् महर्षे ।
किं भावितो नृत्यसि केन हेतुना वदस्व मामेत्य किमत्र तुष्टिः ॥ ३६।४७ ॥
स ब्राह्मणः प्राह ममाद्य तुष्टिर्येनेह जाता शृणु तद् द्विजेन्द्र ।
बहून् गणान् वै मम तप्यतस्तपः संवत्सरान् कायविशोषणार्थम् ॥ ३६।४८ ॥
ततो ऽनुपश्यामि करात् क्षतोत्थं निर्गच्छते शाकरसं ममेह ।
तेनाद्य तुष्टो ऽस्मि भृशं द्विजेन्द्र येनास्मि नृत्यामि सुभावितात्मा ॥ ३६।४९ ॥
तं प्राह शम्भुर्द्विज पश्य मह्यं भस्म प्रवृत्तो ऽङ्गुलितो ऽतिशुक्लम् ।
सन्ताडनादेव न च प्रहर्षो ममास्ति नृनं हि भवान् प्रमत्तः ॥ ३६।५० ॥
श्रुत्वाथ वाक्यं वृषभध्वजस्य मत्वा मुनिर्मङ्कणको महर्षे ।
नृत्यं परित्यज्य सुविस्मितो ऽथ ववन्द पादौ विनयावनम्रः ॥ ३६।५१ ॥
तमाह शम्भुर्द्विज गच्छ लोकं तं ब्रह्मणो दुर्गममव्ययस्य ।
इदं च तीर्थं प्रवरं पृथिव्यां पृथूदकस्यास्तु समं फलेन ॥ ३६।५२ ॥
सान्निध्यमत्रैव सुरासुराणां गन्धर्वविद्याधरकिन्नराणाम् ।
सदास्तु धर्मस्य निधानमग्र्यं सारस्वतं पापमलापहारि ॥ ३६।५३ ॥
सुप्रभा काञ्चानाक्षी च सुवेणुर्विमलोदका ।
मनोहरा चौघवती विशाला च सरस्वती ॥ ३६।५४ ॥
एताः सप्त सरस्वत्यो निविसिष्यन्ति नित्यशः ।
सोमपालफलं सर्वाः प्रयच्छन्ति सुपुण्यदाः ॥ ३६।५५ ॥
भवानपि कुरुक्षेत्रे मूर्तिं स्थाप्य गरीयसीम् ।
गमिष्यति महापुण्यं ब्रह्मलोकं सुदुर्गमम् ॥ ३६।५६ ॥
इत्येवमुक्तो देवेन शङ्करेम तपोधनः ।
मूर्त्ति स्थाप्य कुरुक्षेत्रे ब्रह्मलोकमगाद् वशी ॥ ३६।५७ ॥
गते मङ्कणके पृथ्वी निश्चला समजायत ।
अथागान्मन्दरं शम्भुर्निजमावसथं शुचिः ॥ ३६।५८ ॥
एतत् तवोक्तं द्विज शङ्करस्तु गतस्तदासीत् तपसे ऽथ शैले ।
शून्ये ऽभ्यगाद् दृष्टमतिर्हि देव्या संयोधितो येन हि कारणेन ॥ ३६।५९ ॥

इति श्रीवामनपुराणे षट्त्रिशोध्यायः