३५

ब्रह्मोवाच ।
परदाराभिगमनं पापीयांसोपसेवनम् ।
पारुष्यं सर्वभूतानां प्रथमं नरकं स्मृतम् ॥ ३५।१ ॥
फलस्तेयं महापापं फलहीनं तथाटनम् ।
छेदनं वृक्षजातीनां द्वितीयं नरकं स्मृतम् ॥ ३५।२ ॥
वर्ज्यादानं तथा दुष्टमवध्यवधबन्धनम् ।
विवादमर्थहेतूत्थं तृतीयं नरकं स्मृतम् ॥ ३५।३ ॥
भयदं सर्वसत्त्वानां भवभूति विनाशनम् ।
भ्रंशनं निजधर्माणां चतुर्थं नरकं स्मृतम् ॥ ३५।४ ॥
मारणं मित्रकौटिल्यं लिथ्याभिशपनं च यत् ।
मिष्टौकाशनमित्युक्तं पञ्चमं तु नृपाचनम् ॥ ३५।५ ॥
यन्त्रः फलादिहरणं यमनं योगनाशनम् ।
यानयुग्यस्य हरणं षष्ठमुक्तं नृपाचनम् ॥ ३५।६ ॥
राजभागहरं मूढं राजजायानिषेवणम् ।
राज्ये त्वहितकारित्वं सप्तमं निरयं स्मृतम् ॥ ३५।७ ॥
लुब्धत्वं लोलुपत्वं च लब्धधर्मार्थनाशनम् ।
लालासङ्कीर्णमेवोक्तमष्टमं नरकं स्मृतम् ॥ ३५।८ ॥
विप्रोष्यं ब्रह्महरणं ब्राह्मणानां विनिन्दनम् ।
विरोधं बन्धुभिश्चोक्तं नवमं नरपाचनम् ॥ ३५।९ ॥
शिष्टाचारविनाशं च शिष्टद्वेषं शिशोर्वधम् ।
शास्त्रस्तेयं धर्मनाशं दशमं परिकीर्तितम् ॥ ३५।१० ॥
षडङ्गनिधनं घोरं षाङ्गुण्यप्रतिषेधनम् ।
एकादशममेवोक्तं नरकं सद्भिरुत्तमम् ॥ ३५।११ ॥
सत्सु नित्यं सदा वैरमनाचारमसत्क्रिया ।
संस्कारपरिहीनत्वमिदं द्वादशमं स्मृतम् ॥ ३५।१२ ॥
हानिर्धर्मार्थकामनामपवर्गस्य हारणम् ।
सम्भेदः संविदामेतत् त्रयोदशममुच्यते ॥ ३५।१३ ॥
कृपणं धर्महीनं च यद् वर्ज्यं यच्च वह्निदम् ।
चतुद्र्दशममोवोक्तं नरकं तद् विगर्हितम् ॥ ३५।१४ ॥
अज्ञानं चाप्यमुयत्वमशौचमशुभावहम् ।
स्मृतं तत् पञ्चदशममस्त्यवचनानि च ॥ ३५।१५ ॥
आलस्यं वै षोडशममाक्रोशं च विशेषतः ।
सर्वस्य चाततायित्वलमावासेष्वग्निदीपनम् ॥ ३५।१६ ॥
इच्छा च परदारेषु नरकाय निगद्यते ।
ईर्षर्याभावश्च सत्येषु उद्धृत्तं तु विगर्हितम् ॥ ३५।१७ ॥
एतैस्तु पापैः पुरुषः पुन्नमाद्यैर्न संशयः ।
संयुक्तः प्रीणयेद् देवं सन्तत्या जगतः पतिम् ॥ ३५।१८ ॥
प्रीतः सृष्ट्या तु शुभया स पापाद्येन मुच्यते ।
पुन्नामनरकं घोरं विनाशयति सर्वतः ॥ ३५।१९ ॥
एतस्मात् कारणात् साध्य सुतः पुत्रेति गद्यते ।
अतः परं प्रवक्ष्यामि शेषपापस्य लक्षणम् ॥ ३५।२० ॥
ऋमं देवर्षिभूतानां मनुष्याणां विशेषतः ।
पितृणां च द्विजश्रेष्ठ सर्वर्वणेषु चैकता ॥ ३५।२१ ॥
ओङ्कारादपि निर्वृत्तिः पापकार्यकृतश्च यः ।
मत्स्यादश्च महापापमगम्यागमनं तथा ॥ ३५।२२ ॥
घृतादिविक्रयं घोरं चण्डालादिपरिग्रहः ।
स्वदोषाच्छादनं पापं परदोषप्रकाशनम् ॥ ३५।२३ ॥
मत्सरित्वं वाग्दुष्टत्वं निष्टुरत्वं तथा परम् ।
टाकित्वं तालवादित्वं नाम्ना वाचाप्यधर्मजम् ॥ ३५।२४ ॥
दारुणत्वमधार्मिक्यं नरकावहमुच्यते ।
एतैश्च पापैः संयुक्तः प्रीणयेद् यदि शङ्करम् ॥ ३५।२५ ॥
ज्ञानाधिरमशेषेण शेषपापं जयेत् ततः ।
शारीरं वाचिकं यत् तु मानसं कायिकं तथा ॥ ३५।२६ ॥
पितृमातृकृतं यच्च कृतं यच्चाश्रितैर्नरैः ।
भ्रातृभिर्बान्धवैश्चापि तस्मिन् जन्मनि धर्मज ॥ ३५।२७ ॥
तत्सर्वं विलयं याति स धर्मः सुतशिष्ययोः ।
विपरीते भवेत् साध्य विपरीतः पदक्रमः ॥ ३५।२८ ॥
तस्मात् पुत्रश्च शिष्यश्च विधातव्यौ विपश्चिता ।
एतदर्थमभिध्याय शिष्याच्छ्रेष्ठतरः सुतः ।
सेषात् तारयते शिष्यः सर्वतो ऽपि हि पुत्रकः ॥ ३५।२९ ॥
पुलस्त्य उवाच ।
पितामहवचः श्रुत्वा साध्यः प्राह तपोधनः ।
त्रिः सत्यं तव पुत्रो ऽहं देव योगं वदस्व मे ॥ ३५।३० ॥
तमुवाच महायोगी त्वन्मातापिररौ यदि ।
दास्येते च ततः सूनुर्दायादो मे ऽसि पुत्रक ॥ ३५।३१ ॥
सनत्कुमारः प्रोवाच दायादपरिकल्पना ।
येयं हि भवता प्रोक्ता तां मे व्याख्यातुमर्हसि ॥ ३५।३२ ॥
तदुक्तं साध्यमुख्येन वाक्यं श्रुत्वा पितामहः ।
प्राह प्रहस्य भगवान् क्श्रुणु वत्सेति नारद ॥ ३५।३३ ॥
ब्रह्मोवाच ।
औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च ।
गुढोत्पन्नो ऽपविद्धश्च दायादा बान्धवास्तु षट् ॥ ३५।३४ ॥
अमीषु षट्पु पुत्रेषु ऋमपिण्डधनक्रियाः ।
गोत्रस्म्यं कुले वृत्तिः प्रतिष्ठ शाश्वती तथा ॥ ३५।३५ ॥
कानीनश्च सहोढश्च क्रीतः पौनर्भवस्तथा ।
स्वयेदत्तः पारशवः षडदायादबन्धवाः ॥ ३५।३६ ॥
अमीभिरृणपिण्डादिकथा नैवेह विद्यते ।
नामधारका एवेह न गोत्रकुलसम्मताः ॥ ३५।३७ ॥
तत् तस्य वचनं श्रुत्वा ब्रह्मणः सनकाग्रजः ।
उवाचैषां विशेषं मे ब्रह्मन् व्याख्यातुमहसि ॥ ३५।३८ ॥
ततो ऽब्रवीत् सुरपतिर्विशेषं शृणु पुत्रक ।
औरसो यः स्वयं जातः प्रतिबिम्बमिवात्मनः ॥ ३५।३९ ॥
क्लीबोन्मत्ते व्यसनिनि पत्यौ तस्याज्ञया तु या ।
भार्या ह्यनातुरा पुत्रं जनयेत् क्षेत्रजस्तु सः ॥ ३५।४० ॥
मातापितृभ्यां यो दत्तः स दत्तः परिगीयते ।
मित्रपुत्रं मित्रदत्तं कृत्रिमं प्राहुरुत्तमाः ॥ ३५।४१ ॥
न ज्ञायते गृहे केन जातस्त्विति स गूञकः ।
बाह्मतः स्वयमानीतः सो ऽपविद्धः प्रकीर्तितः ॥ ३५।४२ ॥
कन्याजातस्तु कानीनः सगर्भोढः सहोकः ।
मूल्यैर्गृहीतः क्रीतः स्याद् द्विविधः स्यात् पुनर्भवः ॥ ३५।४३ ॥
दत्त्वैकस्य च या कन्या हृत्वान्यस्य प्रदीयते ।
तज्जालस्तनयो ज्ञेयो लोके पौनर्भवो मुने ॥ ३५।४४ ॥
दुर्भिक्षे व्यसने चापि येनात्मा विनिवेदितः ।
स स्वयन्दत्त इत्युस्तथान्यः कारणान्तरैः ॥ ३५।४५ ॥
ब्राह्मणस्य सुतः शूद्रयां जायते यस्तु सुव्रत ।
ऊढायां वाप्यनूढायां स पारशव उच्यते ॥ ३५।४६ ॥
एतस्मात् कारणात् पुत्र न स्वयं दातुमर्हसि ।
स्वमात्मानं गच्छ शीघ्रं पितरौ समुपाह्वय ॥ ३५।४७ ॥
ततःस मातापितरौ सस्मार वचनाद् विभोः ।
तावाजग्मतुरीशानं द्रष्टुं वै दम्पती मुने ॥ ३५।४८ ॥
धर्मो ऽहिंसा च देवेशं प्रणिपत्य न्यषीदताम् ।
उपविष्टौ सुखासीनौ साध्यो वचनमब्रवीत् ॥ ३५।४९ ॥
सनत्कुमार उवाच ।
योगं जिगमिषुस्तात व्रह्माणं समचूचुदम् ।
स चोक्तवान् मां पुत्रार्थे तस्मात् त्वं दातुमर्हसि ॥ ३५।५० ॥
तावेवमुक्तौ पुत्रेण योगाचार्यं पितामहम् ।
उक्तवन्तौ प्रभो ऽयं हि आवयोस्तनयस्तव ॥ ३५।५१ ॥
अद्यप्रभृत्ययं पुत्रस्तव ब्रह्मन् भविष्यति ।
इत्युक्त्वा जग्मतुर्सूर्ण येनैवाब्यागतौ यथा ॥ ३५।५२ ॥
पितामहो ऽपि तं पुत्रं साध्यं सद्धिनयान्वितम् ।
सनत्कुमारं प्रोवाच योगं द्वादशपत्रकम् ॥ ३५।५३ ॥
शिखासंश्थं तु ओङ्कारं मेषो ऽस्य शिरसि स्थितः ।
मासो वैशाखनामा च प्रथमं पत्रकं स्मृतम् ॥ ३५।५४ ॥
नकारो मुखसंस्थो हि वृषस्तत्र प्रकीर्तितः ।
ज्येष्ठमासाश्च तत्पत्रं द्वितीयं परिकीर्तितम् ॥ ३५।५५ ॥
मोकारो भुजयोर्युग्मं मिथुनस्तत्र संस्थितः ।
मासो आषाढनामा च तृतीयं पत्रकं स्मृतम् ॥ ३५।५६ ॥
भकारं नेत्रयुगलं तत्र कर्कटकः स्थितः ।
मासः श्रावण इत्युक्तश्चतुर्थं पत्रकं स्मृतम् ॥ ३५।५७ ॥
गकारं हृदयं प्रोक्तं सिंहो वसति तत्र च ।
मासो भाद्रस्तथा प्रोक्तः पञ्चमं पत्रकं स्मृतम् ॥ ३५।५८ ॥
वकारं कवचं विद्यात् कन्या तत्र प्रतिषिठता ।
मासश्चाश्वयुजो नाम ष्ष्ठं तत् पत्रकं स्मृतम् ॥ ३५।५९ ॥
तेकारमस्त्रग्रामं च तुलाराशिः कृताश्रयः ।
मासश्च कार्तिको नाम सप्तमं पत्रकं स्मृतम् ॥ ३५।६० ॥
वाकारं नाभिसंयुक्तं स्थितस्तत्र तु वृश्चिकः ।
मासो मार्गशिरो नाम त्वष्टमं पत्रकं स्मृतम् ॥ ३५।६१ ॥
सुकारं जघनं प्रोक्तं तत्रस्थश्च धनुर्धरः ।
पौषति गदितो मासो नवमं परिकीर्तितम् ॥ ३५।६२ ॥
देकारश्चोरुयुगलं मकरो ऽप्यत्र संस्थितः ।
माघो निगदितो मासः पत्रकं दशमं स्मृतम् ॥ ३५।६३ ॥
वाकारो जनुयुग्मं च कुम्भस्तत्रादिसंस्थितः ।
पत्रकं फाल्गुनं प्रोक्तं तदेकादशमुत्तमम् ॥ ३५।६४ ॥
पादौ यकारो मीनो ऽपि स चैत्रे वसते मुने ।
इदं द्वादशमं प्रोक्तं पत्रं वै केशवस्य हि ॥ ३५।६५ ॥
द्वादशारं तथा चक्रं षष्णाभि द्वियुतं तथा ।
त्रिव्यूहमेकमूर्तिश्च तथोक्तः परमेश्वरः ॥ ३५।६६ ॥
एतत् तवोक्तं देवस्य रूपं द्वादशपत्रकम् ।
यस्मिन् ज्ञाते मुनिश्रेष्ठ न भूयो मरणं भवेत् ॥ ३५।६७ ॥
द्वितीयमुक्तं सत्त्वाढ्यं चतुर्वर्णं चतुर्मुखम् ।
चतुर्बाहुमुदाराङ्गं श्रीवत्सधरमव्ययम् ॥ ३५।६८ ॥
तृतीयस्तमसो माम शेषमूर्तिः सहस्रपात् ।
सहस्रवदनः श्रीमान् प्रजाप्रलयकारकः ॥ ३५।६९ ॥
चतुर्थो राजसो नाम रक्तवर्णश्चतुर्मुखः ।
द्विभुजो धारयन् मालं सृष्टिकृच्चादिपूरुषः ॥ ३५।७० ॥
अव्याक्तात् मभवन्त्येते त्रयो व्यक्ता महामुने ।
अतो मरीचिप्रमुखास्तथान्ये ऽपि सहस्रशः ॥ ३५।७१ ॥
एतत् तवोक्तं मुनिवर्य रूपं विभोः पुराणं मतिपुष्टिवर्धनम् ।
चुतुर्भुजं तं स मुरुर्दुरात्मा कृतान्तवाक्यात् पुनराससाद ॥ ३५।७२ ॥
तमागतं प्राह मुने मधुघ्नः प्राप्तो ऽसि केनासुर कारणेन ।
स प्राह योद्धुं सह वै त्वयाद्य तं प्राह भूयः सुरशत्रुहन्ता ॥ ३५।७३ ॥
यदीह मां योद्धुमुपागतो ऽसि तत् कम्पेत ते हृदयं किमर्थम् ।
ज्वरातुरस्येव मुहुर्मुहुर्वै तन्नास्मि योत्स्ये सह कातरेण । ।
३५।७४ इत्येवमुक्तो मधुसूदनेन मुरुस्तदा स्वे हृदये स्वहस्तम् ।
कथं क्व कस्येति मुहुस्तथोक्त्वा निपातयामास विपन्नबुद्धिः ॥ ३५।७५ ॥
हरिश्च चक्रं मृदुलाघवेन मुमोच तद्धतकमलस्य शत्रोः ।
चिच्छेद देवास्तु गतव्यथाभवन् देवं प्रसंसन्ति च पद्मनाभम् ॥ ३५।७६ ॥
एतत् तवोक्तं मुरदैत्यनाशनं कृतं हि युक्त्या शितचक्रपाणिना ।
अतः प्रसिद्धिं समुपाजगाम मुरारिरित्येव विभुर्नृसिंहः ॥ ३५।७७ ॥

इति श्रीवामनपुराणे पञ्चत्रिंशो