नारद उवाच ।
क्व गतः शङ्करो ह्यासीद्येनाम्बा नन्दिना सह ।
अनधकं योधयामास एतन्मे वक्तुमर्हसि ॥ ३४।१ ॥
पुलस्त्य उवाच ।
यदा वर्षसहस्रं तु महामोहे स्थितो ऽभत् ।
तदाप्रभृति निस्तेजाः क्षीणवीर्यः प्रदृश्यते ॥ ३४।२ ॥
स्वमात्मानं निरीक्ष्याथ निस्तेजोङ्गं महेश्वरः ।
तपोर्थाय तथा चक्रे मतिं मतिमतां वरः ॥ ३४।३ ॥
स महाव्रतमुत्पाद्य समाश्वास्याम्बिकां विभुः ।
शैलादिं स्थाप्य गोप्तारं विचचार महीतलम् ॥ ३४।४ ॥
महामुद्रार्पितग्रीवो महाहिकुतकुण्डलः ।
धारयाणः कटीदेशे महाशङ्खस्य मेखलाम् ॥ ३४।५ ॥
कपालं दक्षिणे हस्ते सव्ये गृह्य कमण्डलुम् ।
एकाहवासी वृक्षे हि शैलसानुनदीष्वटन् ॥ ३४।६ ॥
स्थानं त्रैलोक्यमास्थाय मूलाहारो ऽम्बुभोजनः ।
वाय्वाहारस्तदा तस्थौ नववरिषशतं क्रमात् ॥ ३४।७ ॥
ततो वीटां सुखे क्षिप्य निरुच्छ्वासो ऽभवद् यतिः ।
विस्तृते हिमवत्पुष्ठे रम्ये समशिलातले ॥ ३४।८ ॥
ततो वीटा विदार्यैव कपालं परमेष्ठनः ।
सार्चिष्मती जटामध्यान्निषण्णा धरणीतले ॥ ३४।९ ॥
वीटया तु पतन्त्याद्रिर्दारितः क्ष्मासमो ऽभवत् ।
जातस्तीर्थवरः पुम्यः केदार इति विश्रुतः ॥ ३४।१० ॥
ततो हरो वरं प्रादात् केदाराय वृषध्वजः ।
पुण्यवृद्धिकरं ब्रह्मन् पापघ्नं मोक्षसाधनम् ॥ ३४।११ ॥
ये जलं तावके तीर्थे पीत्वा संयमिनो नराः ॥ ३४।१२ ॥
षण्मासाद् धारयिष्न्ति निवृत्ताः परपाकतः ।
तेषां हृत्पङ्कजेष्वेव मल्लिङ्गं भविता ध्रुवम् ॥ ३४।१३ ॥
न चास्य पापाभिरतिर्भविष्यति कदाचन ।
पितॄणामक्षयं श्राद्धं भविष्यति न संशयः ॥ ३४।१४ ॥
स्नानदानतपांसीह होमजप्यादिकाः क्रियाः ।
भविष्यन्त्यक्षया नॄणां मृतानामपुनर्भवः ॥ ३४।१५ ॥
एतद् वरं हरात् तीर्थं प्राप्य पुष्णाति देवताः ।
पुनाति पुंसां केदारस्त्रिनेत्रवचनं यथा ॥ ३४।१६ ॥
केदाराय वरं दत्त्वा जगम त्वरितो हरः ।
स्नातुं भानुसुतां देवीं कालिन्दीं पापनाशिनीम् ॥ ३४।१७ ॥
तत्र स्नात्वा शुचिर्भूत्वा जगामाथ सरस्वतीम् ।
वृतां तीर्थशतैः पुण्यैः प्लक्षजां पापनाशिनीम् ॥ ३४।१८ ॥
अवतीर्मस्ततः स्नातुं निमग्नश्च महाम्भसि ।
द्रुपदां नाम गायत्रीं जजापान्तर्जले हरः ॥ ३४।१९ ॥
निमग्ने शङ्करे देव्यां सरस्वत्यां कलिप्रिय ।
साग्राः संवत्सरो जातो न चोन्मज्जत ईश्वरः ॥ ३४।२० ॥
एतस्मिन्नन्तरे ब्रह्मन् भुवनाः सप्त सार्णवाः ।
चेलुः पेतुर्धरण्यां च नक्षत्रास्तारकैः सह ॥ ३४।२१ ॥
आसनेभ्यः प्रचलिता देवाः शक्रपुरोगमाः ।
स्वस्त्यस्तु लोकेभ्य इति जपन्तः परमर्षयः ॥ ३४।२२ ॥
ततः क्षुब्धेषु लोकेषु देवा ब्रह्माणमागमन् ।
दृष्ट्वोचुः किमिदं लोकाः क्षुब्धाः संशयमागताः ॥ ३४।२३ ॥
तानाह पद्मसम्भूतो नैतद् वेद्मि च कारणम् ।
तदागच्छत वो युक्तं द्रष्टुं चक्रगदाधरम् ॥ ३४।२४ ॥
पितामहेनैवमुक्ता देवाः शक्रषुरोगमाः ।
पितामहं पुरस्कृत्य मुरारिसदनं गताः ॥ ३४।२५ ॥
नारद उवाच ।
को ऽसौ सुरारिर्देवर्षे देवो यक्षो नु किन्नरः ।
दैत्यो राक्षसो वापि पार्थिवो वा तदुच्यताम् ॥ ३४।२६ ॥
पुलस्त्य उवाच ।
यो ऽसौ मुरारिर्देवर्षे देवो यक्षो नु किन्नरः ।
दैत्यो राक्षसो वापि पार्थिवो वा तदुच्यताम् ॥ ३४।२७ ॥
नारद उवाच ।
यौऽसौ मुर इति ख्यातः कस्य पुत्रः स गीयते ।
कथं च नहतः सङ्ख्ये विष्णुना तद् वदस्व मे ॥ ३४।२८ ॥
पुलस्त्य उवाच ।
श्रुयतां कथयिष्यामि मुरासुरनिबर्हणम् ।
विचित्रमिदमाख्यानं पुण्यं पापप्रणाशनम् ॥ ३४।२९ ॥
कश्यपस्यौरसः पुत्रो मुरो नाम दनुद्भवः ।
स ददर्श रणे शस्तान् दितिपुत्रान् सुरोत्तमैः ॥ ३४।३० ॥
ततः स मरणाद् भीतस्तप्त्वा वर्षगणान्बहून् ।
आराधयामास विभुं ब्रह्माणमपराजितम् ॥ ३४।३१ ॥
ततो ऽस्य तुष्टो वरदः प्राह वत्स वरं वृणु ।
स च वव्रे वरं दैत्यो वरमेनं पितामहात् ॥ ३४।३२ ॥
यं यं करतलेनाहं स्पृशेयं समरे विभो ।
स स मद्धस्तसंस्पृष्टस्त्वमरो ऽपि मरत्वतः ॥ ३४।३३ ॥
बाढमित्याह भगवान् ब्रह्म लोकपितामहः ।
ततो ऽभ्यागान्महातेजा मुरः सुरगिरिं बली ॥ ३४।३४ ॥
समेत्याह्वयते देवं यक्षं किन्नरमेव वा ।
न कश्चिद् युयुधे तेन समं दैत्येन नारद ॥ ३४।३५ ॥
ततो ऽमरावतीं ऋद्धः स गत्वा शक्रमाह्वयत् ।
न चास्य सह योद्धुं वै मतिं चक्रे पुरन्दरः ॥ ३४।३६ ॥
ततः स करमुद्यम्य प्रविवेशामरावतीम् ।
प्रविशन्तं न तं कश्चिन्निवारयितुमुत्सहेत् ॥ ३४।३७ ॥
स गत्वा शक्रसदनं प्रोवाचेन्द्रं मुरस्तदा ।
देहि युद्धं सहस्राक्ष नो चेत् स्वर्गं परित्यज ॥ ३४।३८ ॥
इत्येवमुक्तो मुरुणा ब्रह्मन् हरिहयस्तदा ।
स्वर्गराज्यं परित्यज्य भूचरः समजायत ॥ ३४।३९ ॥
ततो गजेन्द्रकुलिशौ हृतौ शक्रस्य शत्रुणा ।
सकलत्रो महातेजाः सह देवैः सुतेन च ॥ ३४।४० ॥
कालिन्दाया दक्षिमे कूले निवेश्य स्वपुरं स्थितः ।
मुरुश्चापि महाभोगान् बुभुजे स्वर्गसंस्थितः ॥ ३४।४१ ॥
दानवाश्चापरे रौद्रा मयतारपुरोगमाः ।
मुरमासाद्य मोदन्ते स्वर्गे सुकुतिनो यथा ॥ ३४।४२ ॥
स कदाचिन्महीपृष्ठं समायातो महासुरः ।
एकाकी कुञ्जरारूढं सरयूं निम्नगां प्रति ॥ ३४।४३ ॥
स सरय्वास्तटे वीरं राजानं सूर्यवंशजम् ।
ददृशो रघुनामानं दीक्षितं यज्ञकर्मणि ॥ ३४।४४ ॥
तमुपोत्याव्रवीद् दैत्यो युद्धं मे दीयतामिति ।
नो चेन्निवर्ततां यज्ञो नेष्टव्या देवतास्त्वया ॥ ३४।४५ ॥
तमुपेत्य महातेजा मित्रावरुमसम्भवः ।
प्रोवाच बुद्धिमान् ब्रह्मन् वसिष्ठस्तपतां वरः ॥ ३४।४६ ॥
किं ते जितैर्नरैर्दैत्य अजिताननुशासय ।
प्रहर्तुमिच्छसि यदि तं निवारय चान्तकम् ॥ ३४।४७ ॥
स बली शासनं तुभ्यं न करोति महासुर ।
तस्मिञ्जिते हि विजितं सर्वं मन्यस्व भूतलम् ॥ ३४।४८ ॥
स तद् वसिष्ठवचनं निशम्य दनुपुङ्गवः ।
जगाम धर्मराजानं विजेतुं दण्डपाणिनम् ॥ ३४।४९ ॥
तमायान्तं यमः श्रुत्वा मत्वावध्यं च संयुगे ।
स समारुह्य महिषं केशवान्तिकमागमत् ॥ ३४।५० ॥
समेत्य चाभिवाद्यैनं प्रोवाच मुरचेष्टितम् ।
स चाह गच्छ मामद्य प्रेपयस्व महासुरम् ॥ ३४।५१ ॥
स वासुदेववचनं श्रुत्वाभ्यागात् त्वरान्वितः ।
एतस्मिन्नन्तरे दैत्यः सम्प्राप्तो नगरीं मुरः ॥ ३४।५२ ॥
तमागतं यमः प्राह किं मुरो कर्त्तुमिच्छसि ।
वदस्व वचनं कर्त्ता त्वदीयं दानवेश्वर ॥ ३४।५३ ॥
मुरुरुवाच ।
यम प्रजासंयमानन्निवृत्तिं कर्त्तुमर्हसि ।
नो चेत् तवाद्य छित्त्वाहं मूर्धानं पातये भुवि ॥ ३४।५४ ॥
तमाह धर्मराड् ब्रह्मन् यदि मां संयमाद् भवान् ।
गोपायति मुरो सत्यं करिष्ये वचनं तव।छ ।
३४।५५ मुरस्तमाह भवतः कः संयन्ता वदस्व माम ।
अहमेन पराजित्य वारयामि न संशयः ॥ ३४।५६ ॥
यमस्तं प्राहं मां विष्णुर्देवश्चक्रगदाधरः ।
श्वेतद्वीपनिवासी यः स मां संयमते ऽव्ययः ॥ ३४।५७ ॥
तमाह दैत्यशार्दूलः क्वासौ वसति दुर्जयः ।
स्वयं तत्र गमिष्यामि तस्य संयमनोद्यतः ॥ ३४।५८ ॥
तमुवाच यमो गच्छ क्षीरोदं नाम सागरम् ।
तत्रास्ते भगवान् विष्णुर्लोकनाथो जगन्मयः ॥ ३४।५९ ॥
मुरस्तद्वाक्यमाकर्ण्य प्राह गच्छामि केशवम् ।
किं तु त्वया न तावद्धि संयम्या धर्म मानवाः ॥ ३४।६० ॥
स प्राह गच्छ त्वं तावत् प्रवर्तिष्ये जयं प्रति ।
संयन्तुर्वा यथा स्याद्धि ततो युद्धं समाचर ॥ ३४।६१ ॥
इत्येवामुक्त्वा वचनं दुग्धाब्धिमगमन्मुरः ।
यत्रास्ते शेषपर्यङ्के चतुर्मूर्तिर्जनार्दनः ॥ ३४।६२ ॥
नारद उवाच ।
चतुर्मूर्त्तिः कथं विष्णुरेक एव निगद्यते ।
सर्वगत्वात् कथमपि अव्यक्तत्वाच्च तद्वद ॥ ३४।६३ ॥
पुलस्त्य उवाच ।
अव्यक्तः सर्वगो ऽपीह एक एव महामुने ।
चतुर्मूर्तिर्जगन्नाथो यता ब्रह्मंस्तथा शृणु ॥ ३४।६४ ॥
अप्रतर्क्यमनिर्देश्यं शुक्लं शान्तं परं पदम् ।
वासुदेवाख्यमाव्यक्तं स्मृतं द्वादशपत्रकम् ॥ ३४।६५ ॥
नारद उवाच ।
कथं शुक्लं कथं शान्तमप्रतर्क्यमनिन्दितम् ।
कान्यस्य द्वादशैवोक्ता पत्रका तानि मे वद ॥ ३४।६६ ॥
पुलस्त्य उवाच ।
शृणुष्व गुह्यं परमं परमेष्ठिप्रभाषितम् ।
श्रतं सनत्कुमारेम तेनाख्यातं च तन्मम ॥ ३४।६७ ॥
नारद उवाच ।
को ऽयं सनत्कुमारेति यस्योक्तं ब्रह्मणा स्वयम् ।
तवापि तेन गदितं वद मामनुपूर्वशः ॥ ३४।६८ ॥
पुलस्त्य उवाच। ।
धर्मस्य भार्याहिंसाख्या तस्यां पुत्रचतुष्टयम् ।
सञ्जातं मुनिसार्दुल योगशास्त्रविचारकम् ॥ ३४।६९ ॥
ज्येष्ठः सनत्कुमारो ऽभूद् द्वितीयश्च सनातनः ।
तृतीयः सनको नाम चतुर्थश्च सनन्दनः ॥ ३४।७० ॥
साङ्ख्येवेत्तारमपरं कपिलं वोढुमासुरिम् ।
दृष्ट्वा पञ्चशिखं श्रेष्ठं योगयुक्तं तपोनिधिम् ॥ ३४।७१ ॥
ज्ञानयोगं न ते दद्युर्ज्यायांसो ऽपि कनीयसाम् ।
मानमुक्तं महायोगं कपिलादीनपासतः ॥ ३४।७२ ॥
सनत्कुमारश् चाभ्येत्य ब्रह्माणं कमलोद्भवम् ।
अपृच्छद् योगविज्ञानं तमुवाच प्रजापतिः ॥ ३४।७३ ॥
ब्रह्मोवाच ।
कथयिष्यामि ते साध्य यदि पुत्रत्वमिच्छसि ।
यस्य कस्य न वक्तव्यं तत्सत्यं नान्यथेति हि ॥ ३४।७४ ॥
सनत्कुमार उवाच। ।
पुत्र एवास्मि देवेश यतः शिष्यो ऽस्म्यहं विभो ।
न विसेषो ऽस्ति पुत्रस्य शिष्यस्य च पितामह ॥ ३४।७५ ॥
ब्रह्मोवाच ।
विशेषः शिष्यपुत्राभ्यां विद्यते धर्मनन्दन ।
धर्मकर्मसमायोगे तथापि गदतः श्रुणु ॥ ३४।७६ ॥
पुन्नाम्नो नरकात् त्राति पुत्रस्तेनेह गीयते ।
सेषपापहरः शिष्य इतीयं वैदिकी श्रुतिः ॥ ३४।७७ ॥
सनत्कुमार उवाच ।
को ऽयं पुन्नामको देव नरकात् त्राति पुत्रकः ।
कस्माच्छेषं ततः पापं हरेच्छिष्यश्च तद्वद ॥ ३४।७८ ॥
ब्रह्मोवाच ।
एतत् पुराणं परमं महर्षे योगाङ्गयुक्तं च सदैव यच्च ।
तथैव चोग्रं भयहारि मानवं वदामि ते साध्य निशामयैनम् ॥ ३४।७९ ॥
इति श्रीवामनपुराणे चतुस्त्रिंशो ऽध्यायः