३३

नारद उवाच ।
यो ऽसौ मन्त्रयतां प्राप्तो दैत्यानां शरताडितः ।
स केन वद निर्भिन्नः शरेण दितिजेश्वरः ॥ ३३।१ ॥
पुलस्त्य उवाच ।
आसीन्नृपो रघुकुले रिपुजिन्महर्षे तस्यात्मजो गुमगणैकनिर्धिर्महात्मा ।
सूरो ऽसैन्यदमनो बलवान् सुहृत्सु विप्रान्धदीनकृपणेषु समानभावः ॥ ३३।२ ॥
ऋतध्वजो नाम महान् महीयान् स गालवार्थे तुरगाधिपूढः ।
पातालकेतुं निजघान पृष्ठे बाणेन चन्द्रार्धनिभेन वेगात् ॥ ३३।३ ॥
नारद उवाच। ।
किमर्थं गालवस्यासौ साधयामास सत्तमः ।
येनासौ पत्रिणा दैत्यं निजघान नृपात्मजः ॥ ३३।४ ॥
पुलस्त्य उवाच ।
पुरा तपस्तप्यति गालवर्षिर्महाश्रमे स्वे सततं निविष्टः ।
पपातालकेतुस्तपसो ऽस्य विघ्नं करोति मौढ्यात् स समाधिभङ्गम् ॥ ३३।५ ॥
न चेष्यतऽसौ तपसो व्ययं हि शक्तो ऽपि कर्त्तु त्वथ भस्मसात् तम् ।
आकाशमीक्ष्याथ स दीर्घमुष्णं मुमोच निःश्वासमनुत्तमं हि ॥ ३३।६ ॥
ततो ऽम्बराद् वाजिवरः पपात बभूव वाणी त्वशरीरिणी च ।
असौ तुरङ्गो बलवान् क्रमेत अह्ना सहस्राणि तु योजनानाम् ॥ ३३।७ ॥
स तं प्रगृह्यश्ववरं नरेन्द्रं ऋतध्वजं योज्य तदात्तशस्त्रम् ।
स्थितस्तपस्येव ततो महर्षिर्दैत्यं समेत्य विशिखैर्नृपजो बिभेद ॥ ३३।८ ॥
केनाम्बरतलाद् वाजी निसृष्टो वद सुव्रत ।
वाक् कस्यादेहिनी जाता परं कौतूहलं मम ॥ ३३।९ ॥
पुलस्त्य उवाच ।
विश्ववसुर्नाम महेन्द्रगायनो गन्धर्वराजो बलवान् यशस्वी ।
निसृष्टवान् भूवलये तुरङ्गं ऋतध्वजस्यैव सुतार्थमाशु ॥ ३३।१० ॥
नारद उवाच ।
कोर्ऽथो गन्धर्वराजस्य येनाप्रैषीन्महाजवम् ।
राज्ञः कुवलयाश्वस्य कोर्ऽथो नृपसुतस्य च ॥ ३३।११ ॥
पुलस्त्य उवाच ।
विश्ववसोः शीलगुणोपपन्ना आसीत्पुरन्ध्रीषु वरा त्रिलोके ।
लावण्यराशिः शशिकान्तितुल्या मदालसा नाम मदालसैव ॥ ३३।१२ ॥
तां नन्दने देवरिपुस्तरस्वी सङ्क्रीडतीं रूपवतीं ददर्श ।
पातालकेतुस्तु जहार तन्वीं तस्यार्थतः सो ऽश्ववरः प्रदत्तः ॥ ३३।१३ ॥
हत्वा च दैत्यं नृपतेस्तनूजो लब्ध्वा वरोरूमपि संस्थितो ऽभूत् ।
दृष्टो यथा देवपतिर्महेन्द्रः शच्या तथा राजसुतो मृगाक्ष्या ॥ ३३।१४ ॥
नारद उवाच ।
एवं निरस्ते महिषे तारके च महासुरे ।
हिरण्याक्षसुतो धीमान् किमचेष्टत वै पुनः ॥ ३३।१५ ॥
पुलस्त्य उवाच ।
तारकं निहतं दृष्ट्वा महिषं च रणे ऽन्धकः ।
क्रोधं चक्रे सुदुर्बुद्धिर्देवानां देवसैन्यहा ॥ ३३।१६ ॥
ततः स्वल्पपरीवारः प्रगृह्य परिघं करे ।
निर्जगामाथ पातालाद् विचचार च मेदिनीम ॥ ३३।१७ ॥
ततो विचरता तेन मन्दरे चारुकन्दरे ।
दृष्टा गौरी च गिरिजा सखीमध्ये स्थिताशुभा ॥ ३३।१८ ॥
ततो ऽभूत् कामबाणार्त्तः सहसैवान्धको ऽसुरः ।
तां दृष्ट्वा चारुसर्वाङ्गीं गिरिराजसुतां वने ॥ ३३।१९ ॥
अथोवाचासुरो मूढो वचनं मन्मथान्धकः ।
कस्येयं चारुसर्वाङ्गी वने चरति सुन्दरी ॥ ३३।२० ॥
इयं यदि भवेन्नैव ममान्तःपुरवासिनि ।
तन्मदीयेन जीवेन क्रियते निष्फलेन किम् ॥ ३३।२१ ॥
यदस्यास्तनुमध्याया न पिरष्वङ्गवानहम् ।
अतो धिङ् मम रूपेण किं स्थिरेण प्रयोजनम् ॥ ३३।२२ ॥
स मे बन्धुः स सचिवः स भ्राता साम्परायिकः ।
यो मामसितकेशां तां योजयेन् मृगलोचनाम् ॥ ३३।२३ ॥
इत्थं वदति दैत्येन्द्रे प्रह्लादो बुद्धिसागरः ।
पिधाय कर्णो हस्ताभ्यां शिरःकम्पं वचो ऽब्रवीत् ॥ ३३।२४ ॥
मा मैवं वद दैत्येन्द्र जगतो जननी त्वियम् ।
लोकनाथस्य भार्योयं शङ्करस्य त्रिशूलिनः ॥ ३३।२५ ॥
मा कुरुष्व सुदुर्बुद्धिं सद्यः कुलविनाशिनीम् ।
भवतः परदारोयं मा निमज्ज रसातले ॥ ३३।२६ ॥
सत्सु कुत्सितमेवं हि असत्स्वपि हि कुत्सितम् ।
शत्रवस्ते प्रकुर्वन्तु परदारावगाहनम् ॥ ३३।२७ ॥
किञ्चित् त्वया न श्रुतं दैत्यनाथ गीतं श्लोकं गाधिना पार्थिवेन ।
दृष्ट्वा सैन्यं विप्रधेनुप्रसक्तं तथ्यं पथ्यं सर्वलोके हितं च ॥ ३३।२८ ॥
वरं प्राणास्त्याज्या न च पिशुनवादेष्वभिरतिः वरं मौनं कार्यं न च वचनमुक्तं यदनृतम् ।
वरं क्लीबैर्भाव्यं न च परकगलत्राभिगमनं वरं भिक्षार्थित्वं न च परधनास्वादमसकृत् ॥ ३३।२९ ॥
स प्रह्लादवचः श्रुत्वा क्रोदान्धो मदनार्दितः ।
इयं सा शत्रुजननीत्येवमुक्त्वा प्रदुद्रुवे ॥ ३३।३० ॥
ततो ऽन्वधावन् दैतेया यन्त्रमुक्ता इवोपलाः ।
तान् रुरोध बलान्नन्दी वज्रोद्यतकरो ऽव्ययः ॥ ३३।३१ ॥
मयतारपुरोगास्ते वारिता द्रावितास्तथा ।
कुलिशोनाहतास्तूर्णं जग्मुर्भीता दिशो दश ॥ ३३।३२ ॥
तानर्दितान् रणे दृष्ट्वा नन्दिनान्धकदानवः ।
परिघेण समाहत्य पातयामास नन्दिनम् ॥ ३३।३३ ॥
शैलादिं पतितं दृष्ट्वा धावमानं तथान्धकम् ।
शतरूपाभवद् गौरी भयात् तस्य दुरात्मनः ॥ ३३।३४ ॥
ततः स देवीगणमध्यसंस्थितः परिभ्रमन्न भाति महासुरेन्द्रः ।
यथा वने मत्तकरी परिभ्रमन् करेणुमध्ये मदलोलदृष्टिः ॥ ३३।३५ ॥
न पिरज्ञातवांस्तत्र का तु सा गिरिकन्यका ।
नात्राश्चर्यं न पश्यन्ति चत्वारो ऽमी सदैव हि ॥ ३३।३६ ॥
न पश्यतीह जात्यन्धो रागान्धो ऽपि न पश्यति ।
न पश्यति मदोन्मत्तो लोभाक्तान्तो न पश्यति ।
सो ऽपश्यमानो गिरिजां पश्यन्नपि तदान्धकः ॥ ३३।३७ ॥
प्रहारं नाददत् तासां युवत्य इति चिन्तयन् ।
ततो देव्या स दुष्टात्मा शतवर्या निराकृतः ॥ ३३।३८ ॥
कुट्टितः प्रवरैः शस्त्रैर्निपपात महीतले ।
वीक्ष्यान्धकं निपतितं शतरूपा विभावरी ॥ ३३।३९ ॥
तस्मात् स्थानादपाक्रम्य गतान्तर्धानमम्बिका ।
पतितं चान्धकं दृष्ट्वा दैत्यदानवयूथपाः ॥ ३३।४० ॥
कुर्वान्तः सुमहाशब्दं प्राद्रवन्त रणार्थिनः ।
तेषामापततां शब्दं श्रुत्वा तस्थौ गणेश्वरः ॥ ३३।४१ ॥
आदाय वज्रं बलवान् मघवानिव गणेश्वरः ॥ ३३।४२ ॥
सम्भ्येत्याम्बिकां दृष्ट्वा ववन्दे चरणौ शुभौ ।
देवी च ता निजा मूर्तिः प्राह गच्छध्वमिच्छया ॥ ३३।४३ ॥
विहरध्वं महीपृष्ठे पूज्यमाना नरैरिह ।
वसतिर्भवतीनां च उद्यानेषु वनेषु च ॥ ३३।४४ ॥
वनस्पतिषु वृक्षेषु गच्छध्वं प्रणिपत्याम्बिकां क्रमात् ॥ ३३।४५ ॥
दक्षु सवासु जग्मुस्ताः स्तूयमानाश्च किन्नरैः ।
अन्धको ऽपि स्मृतिं लब्ध्वा अपश्यन्नद्रिनन्दिनीम् ।
स्वबलं निर्जितं दृष्ट्वा ततः पातालमाद्रवात् ॥ ३३।४६ ॥
ततो दुरात्मा स तदान्धको मुने पातालमभ्येत्य दिवा न भुङ्क्ते ।
रात्रौ न शेते मदनेषुताडितो गौरीं स्मरन्कामबलाभिपन्नः ॥ ३३।४७ ॥

इति श्रीवाम्नपुराणे त्रयस्त्रिंशोंऽध्यायः