३२

पुलस्त्य उवाच ।
सेनापत्ये ऽभिषिक्तस्तु कुमारो दैवतैरथ ।
प्रणिपत्य भवं भक्त्या गिरिजां पावकं शुचिम् ॥ ३२।१ ॥
षट् कृत्तिकाश्च शिरसा प्रणम्य कुटिलामपि ।
ब्रह्माणं च नमस्कृत्य इदं वचनमब्रवीत् ॥ ३२।२ ॥
कुमार उवाच ।
नमो ऽस्तु भवतां देवा ॐ नमो ऽस्तु तपोधनाः ।
युष्मत्प्रसादाज्जेष्यामि शत्रू महिषतारकौ ॥ ३२।३ ॥
शिशुरस्मि न जानामि वक्तुं किञ्चन देवताः ।
दीयतां ब्रह्मणा सार्द्धमनुज्ञ मम साम्प्रतम् ॥ ३२।४ ॥
इत्येवमुक्ते वचने कुमारेण महात्मना ।
मुखं निरीक्षन्ति सुराः स्रेवे विगतसाध्यमाः ॥ ३२।५ ॥
शङ्कपरो ऽपि सुतस्नेहात् समुत्थाय प्रजापतिम् ।
आदाय दक्षिणे पाणौ स्कन्दान्तिकमुपागमत् ॥ ३२।६ ॥
अथोमा प्राह तनयं पुत्र एह्येहि शत्रुहन् ।
वन्दस्व चरणौ दिव्यौ विष्णोर्लोकनमस्कृतौ ॥ ३२।७ ॥
ततो विहस्याह गुहः को ऽयं मातर्वदस्व माम् ।
यस्यादरात् प्रणामो ऽयं क्रियते मद्विधैर्जनैः ॥ ३२।८ ॥
तं माता प्राह वचनं कृते कर्मणि पद्मभूः ।
वक्ष्यते तव यो ऽयं हि महात्मा गरुडध्वजः ॥ ३२।९ ॥
केवलं त्विह मां देवस्त्वत्पिता प्राह शङ्करः ।
नान्यः परतरो ऽस्माद्धि वयमन्ये च देहिनः ॥ ३२।१० ॥
पार्वत्या गदिते स्कन्दः प्रणिपत्य जनार्दनम् ।
तस्थौ कृताञ्जलिपुटस्त्वाज्ञां प्रार्थयते ऽच्युतात् ॥ ३२।११ ॥
कृताञ्जलिपुटं स्कन्दं भगवान् भूतभावनः ।
कृत्वा स्वस्त्ययनं देवो ह्यनुज्ञां प्रददौ ततः ॥ ३२।१२ ॥
नारद उवाच ।
यत्तत् स्वस्त्ययनं पुण्यं कृतवान् गरुडध्वजः ।
शिखिध्वजाय विप्रर्षे तन्मे व्याख्यातुमर्हसि ॥ ३२।१३ ॥
पुलस्त्य उवाच ।
शृणु स्वस्त्ययनं पुण्यं यत्प्राह भगवान् हरिः ।
स्कन्दस्य विजयार्थाय महिषस्य वधाय च ॥ ३२।१४ ॥
स्वस्ति ते कुरुतां ब्रह्म पद्मयोनी रजोगुणः ।
स्वस्ति चक्राङ्कितकरो विष्णुस्ते विदधत्वाजः ॥ ३२।१५ ॥
स्वस्ति ते शङ्करो भक्त्या सपत्नीको वृषध्वजः ।
पावकः स्वस्ति तुभ्यं च करोतु शिखिवाहन ॥ ३२।१६ ॥
दिवाकरः स्वस्ति करोतु तुभ्यं सोमः सभौमः सबुधो गुरुश्च ।
काव्यः सदा स्वस्ति करोतु तुभ्यं शनैश्चरः स्वस्त्ययनं करोतु ॥ ३२।१७ ॥
मरीचिरत्रिः पुलहः पुलस्त्यः क्रतुर्वसिष्ठो भृगुरङ्गिराश्च ।
मृकण्डुजस्ते कुरुतां हि स्वस्ति स्वस्ति सदा सप्त महर्षयश्च ॥ ३२।१८ ॥
विश्वेश्विनौ साध्यमरुद्गणाग्नयो दिवाकराः शूलधरा महेश्वराः ।
यक्षाः पिशाचा वसवो ऽथ किन्नराः ते स्वस्ति कुर्वन्तु सदोद्यतास्त्वमी ॥ ३२।१९ ॥
नागाः सुपर्णाः सरितः सरांसि तीर्थानि पुण्यायतनाः समुद्राः ।
महाबला भूतगणा गणेन्द्राः ते स्वस्ति कुर्वन्तु सदा समुद्यताः ॥ ३२।२० ॥
स्वस्ति द्विपादिकेभ्यस्ते चतुष्पादेभ्य एव च ।
स्वस्ति ते बहुपादेभ्यस्त्वपादेभ्यो ऽप्यनामयम् ॥ ३२।२१ ॥
प्राचीं दिग् रक्षतां वज्री दक्षिणां दण्डनायकः ।
पाशी प्रतीचीं रक्षतु लक्ष्मामशुः पातु चोत्तराम् ॥ ३२।२२ ॥
वह्निर्दक्षिमपूर्वा च कुबेरो दक्षिणापराम् ।
प्रतीचीमुत्तरां वायुः शिवः पूर्वोत्तरामपि ॥ ३२।२३ ॥
उवरिष्टाद् ध्रुवः शिवः पुर्वोत्तरामपि ।
मुसती लाङ्गली चक्री धनुष्मानन्तरेषु च ॥ ३२।२४ ॥
वाराहो ऽम्बुनिधौ पातु दुर्गे पातु नृकेसरी ।
सामवेदध्वनिः श्रीमान् सर्वलतः पातु माधवः ॥ ३२।२५ ॥
पुलस्त्य उवाच ।
एवं कृतस्वस्त्ययनो गुहः शक्तिधरो ऽग्रणीः ।
प्रणिपत्य सुरान् सर्वान् समुत्पतत भूतलात् ॥ ३२।२६ ॥
तमन्वेव गणाः सर्वे दत्ता ये मुदितैः सुरैः ।
अनुजग्मुः कुमारं ते कामरूपा विहङ्गमाः ॥ ३२।२७ ॥
मातरश्च तथा सर्वाः समुत्पेतुर्नभस्तलम् ।
समं स्कन्देन बलिना हन्तुकामा महासुरान् ॥ ३२।२८ ॥
ततः सुदीर्घमध्वानं गत्वा स्कन्दो ऽब्रवीद् गणान् ।
भूम्यां तूर्णं महावीर्याः कुरुध्वमवतारणम् ॥ ३२।२९ ॥
गणा गुहवचः श्रुत्वा अवतीर्य महीतलम् ।
आरात् पतन्तस्तद्देशं नादं चक्रुर्भयङ्करम् ॥ ३२।३० ॥
तन्निनादो महीं सर्वामापूर्य च नभस्तलम् ।
विवेशार्णवरन्ध्रेण पातालं दानवालयम् ॥ ३२।३१ ॥
श्रुतः स महिषेणाथ तारकेम च धीमता ।
विरोजनेन जम्भेन कुजम्भेनासुरेण च ॥ ३२।३२ ॥
ते श्रुत्वा सहसा नादं वज्रपातोपमं दृढम् ।
किमेतदिति सञ्चिन्त्य तूर्णं जग्मुस्तदान्धकम् ॥ ३२।३३ ॥
ते समेत्यान्धकेनैव समं दानवपुङ्गवाः ।
मन्त्रयामासुरुद्विग्नास्तं शब्दं प्रति नारद ॥ ३२।३४ ॥
मन्त्रयत्सु च दैत्येषु भूतलात् सूकराननः ।
पातालकेतुर्दैत्येन्द्रः सम्प्राप्तो ऽथ रसातलम् ॥ ३२।३५ ॥
स बाणविद्धो व्यथितः कम्पमानो मुहुर्मुहुः ।
अब्रवीद् वचनं दीनं समभ्येत्यान्धकासुरम् ॥ ३२।३६ ॥
पातालकेतुरुवाच ।
गतो ऽहमासं दैत्येन्द्र गालवस्याश्रमं प्रति ।
तं विध्वंसयितुं यत्नं समारब्धं बलान्मया ॥ ३२।३७ ॥
यावत्सूकरूपेण प्रविशामि तमाश्रमम् ।
न जाने तं नरं राजन् येन मे प्रहितः शरः ॥ ३२।३८ ॥
शरसम्भिन्नजत्रुश्च भयात् तस्य महाजवः ।
प्रणष्ट आश्रमात् तस्मात् स च मां पृष्ठतो ऽन्वगात् ॥ ३२।३९ ॥
तुरङ्गखुरनिर्घोषः श्रूयते परमो ऽसुर ।
तिष्ठ तिष्ठेति वदतस्तस्य शूरस्य पृष्ठतः ।
तद्भयादस्मि जलधिं सम्प्राप्तो दक्षिणार्णवम् ॥ ३२।४० ॥
यावत्पस्यामि तत्रस्थान् नानावेषाकृतीन् नरान् ।
केचिद् गर्जन्ति घनवत् प्रतिगर्जन्ति चापरे ॥ ३२।४१ ॥
अन्ये चोचुर्वयं नूनं निघ्नामो महिषासुरम् ।
तारकं घातयामो ऽद्य वदन्त्यन्ये सुतैजसः ॥ ३२।४२ ॥
तच्छ्रुत्वा सुतरां त्रासो मम जातो ऽसुरेश्वर ।
महार्णवं परित्यज्य पतितो ऽस्मि भयातुरः ॥ ३२।४३ ॥
धरण्यां विवृतं गर्तं स मामन्वपतद् बली ।
तद्भयात् सम्परित्यज्य हिरण्यपुरमात्मनः ॥ ३२।४४ ॥
तवान्तिकमनुप्राप्तः प्रसादं कर्तुमर्हसि ।
तच्छ्रत्वा चान्धको वाक्यं प्राह मेघस्वनं वचः ॥ ३२।४५ ॥
न भेतव्यं त्वया तस्मात् सत्यं गोप्तास्मि दानव ।
महिषस्तारकश्चोभौ बाणश्च बलिनां वरः ॥ ३२।४६ ॥
अनाख्यायैव ते वीरास्त्वन्धकं महिषादयः ।
स्वपरिग्रहसंयुक्ता भूमिं युद्धाय निर्ययुः ॥ ३२।४७ ॥
यत्र ते दारुमाकारा गणाश्चक्रुर्महास्वनम् ।
तत्र दैत्याः समाजग्मुः सायुधाः सबला मुने ॥ ३२।४८ ॥
दैत्यानापततो दृष्ट्वा कार्तिकेयगणास्ततः ।
अभ्यद्रवन्त सहसा स चोग्रो मातृमण्डलः ॥ ३२।४९ ॥
तेषां पुरस्सरः स्थाणुः प्रगृह्य परिघं बली ।
निषूदयत् परबलं क्रुद्धो रुद्रः पशूनिव ॥ ३२।५० ॥
तं निघ्नन्तं महादेवं निरीक्ष्य कलशोदरः ।
कुठारं पाणिनादाय हन्ति सर्वान् महासुरान् ॥ ३२।५१ ॥
ज्वालामुखो भयकरः करेणादाय चासुरम् ।
सरथं सगजं साश्वं विस्तृते वदने ऽक्षिपत ॥ ३२।५२ ॥
दण्डकश्चापि सङ्क्रुद्धः प्रासपाणिर्महासुरम् ।
सवाहनं प्रक्षिपति समुत्पाट्य महार्मवे ॥ ३२।५३ ॥
शङ्कुकर्णश्च मुसली हलेनाकृष्य दानवान् ।
सञ्चूर्णयति मन्त्रीव राजानं प्रासभृद् वशी ॥ ३२।५४ ॥
खड्गचर्मधरो वीरः पुष्पदन्तो गणेश्वरः ।
द्विधा त्रिधा च बहुधा चक्रे दैतेयदानवान् ॥ ३२।५५ ॥
पिङ्गलो दण्डमुद्याम्य यत्र यत्र प्रधावति ।
तत्र तत्र प्रदृश्यन्ते राशयः शावदानवैः ॥ ३२।५६ ॥
सहस्रनयनः शूलं भ्रामयन् वै गणाग्रणीः ।
निजघानासुरान् वीरः सवाजिरथकुञ्जरान् ॥ ३२।५७ ॥
भीमो भीमशिलावर्षै स पुरस्सरतो ऽसुरान् ।
निजघान यथैवेन्द्रो वज्रवृष्ट्या नगोत्तमान् ॥ ३२।५८ ॥
रौद्रः शकटचक्राक्षो गणः पञ्चशिखो बली ।
भ्रामयन् मुद्गरं वेगान्निजघान बलाद् रिपून् ॥ ३२।५९ ॥
गिरिभेदी तलेनैव सारोहं कुञ्जरं रणे ।
भस्म चक्रे महावेगो रथं च रथिना सह ॥ ३२।६० ॥
नाडीजङ्घो ऽङ्घ्रिपातैश्च मुष्टिभिर्जानुनासुरान् ।
कीलभिर्वज्रतुल्याभिर्जघान बलवान् मुने ॥ ३२।६१ ॥
कूर्मग्रीवो ग्रीवयैव शिरमा चरणेन च ।
लुण्ठनेन तता दैत्यान् निजघान सवाहनान् ॥ ३२।६२ ॥
पिण्डारकस्तु तुण्डेन शृङ्गाभ्यां च कलिप्रिय ।
विदारयति सङ्ग्रामे दानवान् समरोद्धतान् ॥ ३२।६३ ॥
ततस्तत्सैन्यमतुलं वध्यमानं गणेश्वरैः ।
प्रदुद्रावाथ महिषस्तारकश्च गणाग्रणीः ॥ ३२।६४ ॥
ते हन्यमानाः प्रमथा दानवाभयां वरायुधैः ।
परिवार्य समन्तात् ते युयुधुः कुपितास्तदा ॥ ३२।६५ ॥
हंसास्यः पट्टिशेनाथ जघान महिषासुरम् ।
षोटशाक्षस्त्रिशूलेन शतशीर्षो वरासिना ॥ ३२।६६ ॥
श्रुतायुधस्तु गदया विशोको मुसलेन तु ।
बन्धुदत्तस्तु शूलेन मूर्ध्नि दैत्यमताडयत् ॥ ३२।६७ ॥
तथान्यैः पार्षदैर्युद्धे शूलशक्त्यृष्टिपट्टिशैः ।
नाकम्पत् ताड्यमानो ऽपि मैनाक इव पर्वतः ॥ ३२।६८ ॥
तारको भद्रकाल्या च तथोलूखलया रणे ।
वध्यते चैकचूडाया दार्यते परमायुधैः ॥ ३२।६९ ॥
तौ ताड्यमानौ प्रमथैर्मातृभिश्च महासुरौ ।
न क्षोभं जग्मतुर्विरौ क्षोभयन्तौ गणानपि ॥ ३२।७० ॥
महिषो गदया तूर्णं प्रहारैः प्रमथानथ ।
पराजित्य पराधावत् कुमारं प्रति सायुधः ॥ ३२।७१ ॥
तमापतन्तं महिषं सुचक्राक्षो निरीक्ष्य हि ।
चक्रमुद्यम्य सङ्क्रुद्धो रुरोध दनुनन्दनम् ॥ ३२।७२ ॥
गदाचक्राङ्कितकरौ गणासुरमहारथै ।
अयुध्येतां तद ब्रह्मन् लघु चित्रं च सुष्ठु च ॥ ३२।७३ ॥
गदां मुमोच महिषः समाविध्य गणाय तु ।
सुचक्राक्षो निजं चक्रमुत्ससर्जासुरं प्रति ॥ ३२।७४ ॥
गदां छित्त्वा सुतीक्ष्णारं चक्रं महिषमाद्रवत् ।
तत उच्चुक्रुशुर्दैत्या हा हतो महिषस्तिवति ॥ ३२।७५ ॥
तच्छ्रुत्वाभ्यद्रवद् बाणः प्रासमाविध्य वेगवान् ।
जघान चक्रं रक्ताक्षः पञ्जमुष्टिशतेन हि ॥ ३२।७६ ॥
पञ्चबाहुशतेनापि सुचक्राक्षं बबन्ध सः ।
बलवानपि बाणेन निष्प्रयत्नगतिः कृतः ॥ ३२।७७ ॥
सुचक्राक्षं सचक्रं हि बद्धं बाणासुरेण हि ।
दृष्ट्वाद्रवद्गदापाणिर्मकराक्षो महाबलः ॥ ३२।७८ ॥
गदया मूर्ध्नि बाणं हि निजघान महाबलः ।
वेदनार्त्तो मुमोचाथ सुचक्राक्षं महासुरः ।
स चापि तेन संयुक्तो व्रीडायुक्तो महामनाः ॥ ३२।७९ ॥
स सङ्ग्रामं परित्यज्य सालिग्राममुपाययौ ।
बाणो ऽपि मकाराक्षेण ताडितो ऽभूत्पराङ्मुखः ॥ ३२।८० ॥
प्रभज्यत बलं सर्वं दैत्यानां सुरतापस ।
ततः स्वबलमीक्ष्यैव प्रभग्नं तारको बली ।
खड्गोद्यतकरो दैत्यः प्रदुद्राव गणेश्वरान् ॥ ३२।८१ ॥
ततस्तु तेनाप्रतिमेन सासिना ते हंसवक्त्रप्रमुखा गणेश्वराः ।
समातरश्चापि पराजिता रणे स्कन्दं भयार्त्ताः शरणं प्रपेदिरे ॥ ३२।८२ ॥
भगनान् गणान् वीक्ष्य महेश्वरात्मजस्तं तारकं सासिनमापतन्तम् ।
दृष्ट्वैव शक्त्या हृदये बिभेद स भिन्नमर्मा न्यपतत् पृथिव्याम् ॥ ३२।८३ ॥
तस्मिन्हते भ्रातरि भग्नदर्पो भयातुरो ऽभून्महिषो महर्षे ।
सन्त्यज्य सङ्ग्रामशिरो दुरात्मा जगाम शैलं स दिमाचलाख्यम् ॥ ३२।८४ ॥
बाणो ऽपि वीरे निहते ऽथ तारके गते हिमाद्रिं महिषे भयात्ते ।
भयाद् विवेशोग्रमपां निधानं गर्णैर्बले वध्यति सापराधे ॥ ३२।८५ ॥
हत्वा कुमारो रणमुर्ध्नि तारकं प्रगृह्य शक्तिं महता जवेन ।
मयूरमारुह्य शिखण्डमण्डितं ययौ निहन्तुं महिषासुरस्य ॥ ३२।८६ ॥
स पृष्ठतः प्रेक्ष्य शिकण्डिकेतनं समापतन्तं वरशक्तिपाणिनम् ।
कैलासमुत्सृज्य हिमाचलं तथा क्रौञ्चं समभ्येत्व गुहं विवेश ॥ ३२।८७ ॥
दैत्यं प्रविष्टं स पिनाकिसूनुर्जुगोप यत्नाद् भगवान् सुहो ऽपि ।
स्वबन्धुहन्ता भविता कथं त्वहं सञ्चिन्तयन्नेव ततः स्थितो ऽभूत् ॥ ३२।८८ ॥
ततो ऽभ्यगात् पुष्करसम्भवस्तु हरो मुरारिस्त्रिदसेश्वरश्च ।
अभ्येत्य चोचुर्महिषं सशैलं भिन्दस्व शक्त्या कुरु देवकार्यम् ॥ ३२।८९ ॥
तत् कार्तिकेयः प्रियमेव तथ्यं श्रुत्वा वचः प्राह सुरान् विहस्य ।
कथं हि मातामहनप्तृकं वधे स्वभ्रातरं भ्रातृसुतं च मातुः ॥ ३२।९० ॥
एषा श्रुतिश्चापि पुरातनी किल गायन्ति यां वेदविदो महर्षयः ।
कृत्वा च यस्या मतमुत्तमायाः स्वर्गं व्रजन्ति त्वतिपापिनो ऽपि ॥ ३२।९१ ॥
गां ब्राह्मणं वृद्धमथाप्तवाक्यं बालं स्वबन्धुं ललनामदुष्टाम् ।
कृतापराधा अपि नैव वध्या आचार्यमुख्या गुरवस्तथैव ॥ ३२।९२ ॥
एवं जानन् धर्ममग्र्यं सुरेन्द्रा नाहं हन्यां भातरं मातुलेयम् ।
यदा दैत्यो निर्गामिष्यद् गुहान्तः तदा शक्त्या घातायिष्यामि शत्रुम् ॥ ३२।९३ ॥
श्रुत्वा कुमारवचनं भगवान्महर्षे कृत्वा मतिं स्वहृदये गुहमाह शक्रः ।
मत्तो भवान् न मतिमान् वदसे किमर्थं वाक्यं शृणुष्व हरिणा गदितं हि पूर्वम् ॥ ३२।९४ ॥
नैकस्यार्थे बहून् हन्यादिति शास्त्रेषु निश्चयः ।
एकं हन्याद् बहुभ्योर्ऽथे न पापी तेन जायते ।

३२।९५ एतच्छ्रुत्वा मया पूर्वं समयस्थेन चाग्निज ।
निहतो नमुचिः पूर्वं सोदरो ऽपि ममानुजः ॥ ३२।९६ ॥
तस्मात् बहूनामर्थाय सक्रोञ्चं महिषासुरम् ।
घातयस्व पराक्रम्य शक्त्या पावकदत्तया ॥ ३२।९७ ॥
पुरन्दरवचः श्रुत्वा क्रोधादारक्तलोचनः ।
कुमारः प्राह वचनं कम्पमानः शतक्रतुम् ॥ ३२।९८ ॥
मूढ किं ते बलं बाह्वोः शारीरं चापि वृत्रहन् ।
येनाधिक्षिपसे मां त्वं ध्रुवं न मतिमानसि ॥ ३२।९९ ॥
तमुवाच सहस्राक्षस्त्वत्तो ऽहं बलवान् गुह ।
तं गृहः प्राह एह्येहि युद्ध्यस्व बलवान् यदि ॥ ३२।१०० ॥
शक्रः प्राहाथ बलवान् ज्ञायते कृत्तिकासुत ।
प्रदक्षिणं शीघ्रतरं यः कुर्यात् क्रौञ्चमेव हि ॥ ३२।१०१ ॥
श्रुत्वा तद्वचनं स्कन्दो मयूरं प्रोह्य वेगवान् ।
प्रदक्षिणं पादचारी कर्त्तु तूर्णतरो ऽब्यगात् ॥ ३२।१०२ ॥
शक्रो ऽवतीर्य नागेन्द्रात् पादेनाथ प्रदक्षिणम् ।
कृत्वा तस्थौगुहो ऽभ्येत्य मूढङ्किं संस्थितो भवान् ॥ ३२।१०३ ॥
तमिन्द्रः प्राह कौटिल्यं मया पूर्वं प्रदक्षिणः ।
कृतो ऽस्य न त्वया पूर्वं कुमारः शक्रमब्रवीत् ॥ ३२।१०४ ॥
मया पूर्वं मया पूर्वं विवदनतौ परस्परम् ।
प्राप्योचतुर्महेशाय ब्रह्मणे माधवाय च ॥ ३२।१०५ ॥
अथोवाच हरिः स्कन्दं प्रष्टुमर्हसि पर्वतम् ।
यो ऽयं वचक्ष्यति पूर्वं क्रौञ्चमभ्येत्य पावकिः ।
पप्रच्छाद्रिमिदं केन कृतं पूर्वं प्रदक्षिणम् ॥ ३२।१०६ ॥
तन्माधववचः श्रुत्वा क्रौञ्चमभ्येत्य पावकिः ।
पप्रच्छाद्रिमिदं केन कृतं पूर्वं प्रदक्षिणम् ॥ ३२।१०७ ॥
इत्येवमुक्तः क्रौञ्चस्तु प्राह पूर्वं महामतिः ।
चकार गोत्रभित् पश्चात्त्वाया कृतमथो गुह ॥ ३२।१०८ ॥
एवं ब्रुवन्तं क्रौञ्चं स क्रोधात्प्रस्फुरिताधरः ।
बिभेद शक्त्या कौटिल्यो महिषेण समं तदा ॥ ३२।१०९ ॥
तस्मिन्हते ऽथ तनये बलवान् सुनाभो वेगेन भूमिधरपार्थिवस्तथागात् ।
ब्रह्मेन्द्ररुद्रश्विवसुप्रधाना जग्मुर्दिवं महिषमीक्ष्य हतं गुहेन ॥ ३२।११० ॥
स्वमातुलं बीक्ष्य बली कुमारः शक्तिं समुत्पाट्य निहन्तुकामः ।
निवारितश्चक्रधरेण वेगादालिङ्ग्य दोर्भ्या गुरुरित्युदीर्य ॥ ३२।१११ ॥
सुनाभमभ्येत्य हिमाचलस्तु प्रगृह्य हस्ते ऽन्यत एव नीतवान् ।
हरिः कुमारं सशिखण्डिनं नयद्वेगाद्दिवं पन्नगशत्रुपत्रः ॥ ३२।११२ ॥
ततो गुहः प्राह हरिं सुरेशं मोहेन नष्टो भगवन् विवेकः ।
भ्राता मया मातुलजो निरस्तस्तस्मात् करिष्ये स्वशरीरशोषम् ॥ ३२।११३ ॥
तं प्राह विष्णुर्व्रज तीर्थवर्थं पृथूदकं पापतरोः कुठारम् ।
स्नात्वौघवत्यां हरमीक्ष्य भक्त्या भविष्यसे सूर्यसमप्रभावः ॥ ३२।११४ ॥
इत्येवमुक्तो हरिणा कुमारस्त्वभ्येत्य तीर्थं प्रसमीक्ष्य शम्भुम् ।
स्नात्वार्च्य देवान् स रविप्रकाशो जगाम शैलं सदनं हरस्य ॥ ३२।११५ ॥
सुचक्रनेत्रो ऽपि महाश्रमे तपश्चचार शैले पवनाशनस्तु ।
आराधयानो वृषभध्वजं तदा हरो ऽस्य तुष्टो वरदो बभूव ॥ ३२।११६ ॥
देवात् स वव्रे वरमायुधार्थे चक्रं तथा वै रिपुबाहुषण्डम् ।
छिन्द्याद्यथा त्वप्रतिमं करेण बाणस्य तन्मे भगवान् ददातु ॥ ३२।११७ ॥
तमाह शम्भुर्व्रज दत्तमेतद् वरं हि चक्रस्य तवायुधास्य ।
बाणस्य तद्बाहुबलं प्रवृद्धं सञ्छेत्स्यते नात्र विचारणास्ति ॥ ३२।११८ ॥
वरे प्रदत्ते त्रिपुरान्तकेन गणेश्वरः स्कन्दमुपाजगाम ।
निपत्य पादौ प्रतिवन्द्य हृष्टो निवेदयामास हरप्रसादम् ॥ ३२।११९ ॥
एवं तवोक्तं महिषासुरस्य वधं त्रिनेत्रात्मजशक्तिभेदात् ।
क्रौञ्चस्य मृत्युः शरणागतार्थं पापापहं पुण्यविवर्धनं च ॥ ३२।१२० ॥

इति श्रीवामनपुराणे द्वात्रिंशो ऽध्यायः