नारद उवाच ।
कथं समहिषः क्रोञ्चो भिन्नः स्कन्देन सुव्रत ।
एतन्मे विस्तराद् ब्रह्मन् कथयस्वामितद्युते ॥ ३१।१ ॥
पुलसत्य उवाच। ।
शृणुष्व कथयिष्यामि कथां पुण्यां पुरातनीम् ।
यशोवृद्धिं कुमारस्य कार्तिकेयस्य नारद ॥ ३१।२ ॥
यत्तत्पीतं हुताशेन स्कन्नं शुक्रं पिनाकिनः ।
तेनाक्रान्तो ऽभवद् ब्रह्मन् मन्दतेजा हुताशनः ॥ ३१।३ ॥
ततो जगाम देवानां सकाशममितद्युतिः ।
तैश्चापि प्रहितस्तूर्णं ब्रह्मलोकं जगाम ह ॥ ३१।४ ॥
स गच्छन् कुटुलां देवीं ददर्श पथि पावकः ।
तां दृष्ट्वा प्राह कुटिले तेज एतत्सुदुर्द्धरम् ॥ ३१।५ ॥
महेश्वरेण सन्त्यक्तं निर्दहेद् भुवनान्यपि ।
तस्मात् प्रतीच्छ पुत्रो ऽयं तव धन्यो भविष्यति ॥ ३१।६ ॥
इत्यग्निना सा कुटिला स्मृत्वा क्वमतमुत्तमम् ।
प्रक्षिपस्वाम्भसि मम प्राह वह्निं महापगा ॥ ३१।७ ॥
ततस्त्वधारयद्देवी शार्वं तेजस्त्वपूपुषत् ।
हुताशनो।पि भगवान् कामचारी परिभ्रमन् ॥ ३१।८ ॥
पञ्चवर्षसहस्राणि धृतवान् हव्यभुक् ततः ।
मांसमस्थीनि रुधिरं मेदोन्त्ररेतसी त्वचः ॥ ३१।९ ॥
रोमश्मश्व्रक्षिकेशाद्याः सर्वे जाता हिरण्मयाः ।
हिरण्यरेता लोकेषु तेन गीतश्च पावकः ॥ ३१।१० ॥
पञ्चवर्षसहस्राणि कुटुला ज्वलनोपमम् ।
धारयन्ती तदा गर्भं ब्रह्मणः स्थानमागता ॥ ३१।११ ॥
तां दृष्टावान् पद्मजन्मा सन्तप्यन्तीं महापगाम् ।
दृष्ट्वा पप्रच्छ गेनायं तव गर्भः समाहितः ॥ ३१।१२ ॥
सा चाह शङ्करं यत्तच्छ्रुक्रं पीतं हि वह्निना ।
तदशक्तेन तेनाद्य निक्षिप्तं मयि सत्तम ॥ ३१।१३ ॥
पञ्जवर्ष सहस्राणि धारयन्त्याः पितामह ।
गर्भस्य वर्त्तते कालो न पपात च कर्हिचित् ॥ ३१।१४ ॥
तच्छ्रुत्वा भगवानाह गच्छ त्वमुदयं गिरिम् ।
तत्रास्ति योजनशतं रौद्रं शरवणं महत् ॥ ३१।१५ ॥
तत्रैव क्षिप सुश्रेणि विस्तीर्णे गिरिसानुनि ।
दशवर्षसहस्रान्ते ततो बालो भविष्यति ॥ ३१।१६ ॥
सा श्रुत्वा ब्रह्मणो वाक्यं रूपिणी गिरिमागता ।
आगत्य गर्भं तत्याज सुखेनैवाद्रिनन्दिनी ॥ ३१।१७ ॥
सा तु सन्त्यज्य तं बालं ब्रह्माणं सहसागमत् ।
आपोमयी मन्त्रवशात् सञ्जाता-कुटिला सती ॥ ३१।१८ ॥
तेजसा चापि शार्वेण रौक्मं शरवणं महत् ।
तन्निवासरताश्चान्ये पादपा मृगपक्षिणः ॥ ३१।१९ ॥
ततो दशसु पूर्णेषु शरद्दशशतेष्वथ ।
बालार्कदीप्तिः सञ्जातो बालः कमललोचनः ॥ ३१।२० ॥
उत्तानशायी भगवान् दिव्ये शरवणे स्थितः ।
मुखे ऽङ्गुष्ठं समाक्षिप्य रुरोद घनराडिव ॥ ३१।२१ ॥
एतस्मिन्नन्तरे देव्यः कृत्तिकाः षट् सुतेजसः ।
ददृशुः स्वेच्छया यान्त्यो बालं शरवणे स्थितम् ॥ ३१।२२ ॥
कृपायुक्ताः समाजग्मुः यत्र स्कन्दः स्थितो ऽभवत् ।
अहं पूर्वमहं पूर्वं तस्मै स्तन्ये ऽभिचुक्रुशुः ॥ ३१।२३ ॥
विवदन्तीः स ता दृष्टावा षण्मुखः समजायत ।
अबीभरंश्च ताः सर्वाः शिशुं स्नेहाच्च कृत्तिकाः ॥ ३१।२४ ॥
भ्रियमामः स ताभिस्तु बालो वृद्धिमगान्मुने ।
कार्त्तिकेयेति विख्यातो जातः स बलिनां वरः ॥ ३१।२५ ॥
एतस्मिन्नन्तरे ब्रह्मन् पावकं प्राह पद्मजः ।
कियत्प्रमाणः पुत्रस्ते वर्त्तते साम्प्रतं गुहः ॥ ३१।२६ ॥
स तद्वचनमाकर्ण्य अजानंस्तं हरात्मजम् ।
प्रोवाच पुत्रं देवेश न वेद्मि कतमो गुहः ॥ ३१।२७ ॥
तं प्राह भगवान् यत्तु तेजः पीतं पुरा त्वया ।
त्रैयम्बलं त्रिलोकेश जातः शरवणे शिशुः ॥ ३१।२८ ॥
श्रुत्वा पितामहवचः पावकस्त्वरितो ऽभ्यगात् ।
वेगिनं मेषमारुह्य कुटिला तं ददर्श ह ॥ ३१।२९ ॥
ततः पप्रच्छ कुटिला शीघ्रं क्व व्रजसे कवे ।
सो ऽब्रवीत् पुत्रदुष्ट्यर्थं जातं शरवणे शिशुम् ॥ ३१।३० ॥
साब्रवीत् तनयो मह्यं ममेत्याह च पावकः ।
विवदन्तौ ददर्साथ स्वेच्छाचारी जनार्दनः ॥ ३१।३१ ॥
तौ पप्रच्छ किमर्थं वा विवादमिह चक्रथः ।
तावूचतुः वुत्रहेतो रुद्रशुक्रोद्भवाय हि ॥ ३१।३२ ॥
तावुवाच हरिर्देवो गच्छ तं त्रिपुरान्तकम् ।
स यदा वक्ष्यति देवेशस्तत्कुरुध्वमसंशयम् ॥ ३१।३३ ॥
इत्युक्तौ वासुदेवेन कुटिलाग्नी हरान्तिकम् ।
सम्भ्येत्योचतुस्तथ्यं कस्य पुत्रेति नारद ॥ ३१।३४ ॥
रुद्रस्तद्वाक्यमाकर्ण्य हर्षनिर्भरमानसः ।
दिष्ट्या दिष्ट्येति गिरिजां प्रोद्भूतपुलको ऽब्रवीत् ॥ ३१।३५ ॥
ततो ऽम्बिका प्राह हरं देव गच्छाम शिशुम् ।
प्रष्टुं समाश्रयेद् यं स तस्य पुत्रो भविष्यति ॥ ३१।३६ ॥
बाढमित्येव भगवान् समुत्तस्थौ वृषध्वजः ।
सहोमया कुटिलया पावकेन च धीमता ॥ ३१।३७ ॥
सम्प्राप्तास्ते शरवणं हराग्निकुटिलाम्बिकाः ।
ददृशुः शिशुकं तं च कृत्तिकोत्सङ्गशायिनम् ॥ ३१।३८ ॥
ततः स बालकस्तेषां मत्वा चिन्तितमादरात् ।
योगी चतुर्मूर्तिरभूत् षण्मुखः स शिशुस्त्वपि ॥ ३१।३९ ॥
कुमारः शङ्करमगाद् विशाखो गौरिमागमत् ।
कुटिलामगमच्छाखो महासेनो ऽग्निमभ्ययात् ॥ ३१।४० ॥
ततः प्रीतियुतो रुद्र उमा च कुटिला तथा ।
पावकश्चापि देवेशः परां मुदमवाप च ॥ ३१।४१ ॥
ततो ऽब्रुवन् कृत्तिकास्ताः षण्मुखः किं हरात्मजः ।
ता अब्रवीद्धरः प्रतीत्या विधिवद् वचनं मुने ॥ ३१।४२ ॥
नाम्ना तु कार्त्तिकेयो हि युष्माकं तनयस्त्वसौ ।
कुटुलायाः कुमारेति पुत्रो ऽयं भविताव्ययः ॥ ३१।४३ ॥
स्कन्द इत्येव विख्यातो गौरीपुत्रो भवत्वसौ ।
गुह इत्येव नाम्ना च ममासौ तनयः स्मृतः ॥ ३१।४४ ॥
माहासेन इति ख्यातो हुताशस्यास्तु पुत्रकः शारद्वत इति ख्यातः सुतः शरवणस्य च ॥ ३१।४५ ॥
एवमेव महायोगी पृथिव्यां ख्यातिमेष्यति ।
षडास्यत्वान् महाबाहुः षण्मुखो नाम गीयते ॥ ३१।४६ ॥
इत्येवमुक्त्वा भगवान् शूलपाणिः पितामहम् ।
सस्मार दैवतैः सार्द्ध ते ऽप्याजग्मुस्त्वरान्विताः ॥ ३१।४७ ॥
प्रणिपत्य च कामारिमुमां च गिरिनन्दिनीम् ।
दृष्ट्वा हुताशनं प्रीत्या कुटिलां कृत्तिकास्तथा ॥ ३१।४८ ॥
ददृशुर्बालमत्युग्रं षण्मुखं सूर्यसन्निभम् मुष्णन्तमिव चक्षुंषि तेजसा स्वेन देवताः ॥ ३१।४९ ॥
कौतुकाभिवृताः सर्वे एवमूचुः सुरोत्तमाः ।
देवकार्यं त्वया देव कृतं देव्याग्निना तथा ॥ ३१।५० ॥
तदुत्तष्ठ व्रजामो ऽद्य तीर्थमौजसमव्ययम् ।
कुरुक्षेत्रे सरस्वत्यामभिष्ञ्चाम षण्मुखम् ॥ ३१।५१ ॥
सेनायाः पतिरस्त्वेष देवगन्धर्वकिन्नराः ।
महिषं घातयत्वेष तारकं च सुदारुणम् ॥ ३१।५२ ॥
बाढमित्यब्रवीच्छर्वः समुत्तस्थुः सुरास्ततः ।
कुमारसहिता जग्मुः कुरुक्षेत्रं महाफलम् ॥ ३१।५३ ॥
तत्रैव देवताः सेन्द्रा रुद्रब्रह्मजनार्दनाः ।
यत्नमस्याभिषेकार्तं चक्रुर्मुनिगणैः सह ॥ ३१।५४ ॥
ततो ऽम्बुना सप्तसमुद्रवाहिनीनदीजलेनापि महाफलेन ।
वरौषधीभिश्च सहस्रमूर्त्तिभिस्तदाभ्यषिञ्चन् गुमच्युताद्याः ॥ ३१।५५ ॥
अभिषिञ्चति सेनान्यां कुमारे दिव्यरूपिणि ।
जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः ॥ ३१।५६ ॥
अभिषिक्तं कुमारं च गिरिपुत्री निरीक्ष्य हि ।
स्नेहादुत्सङ्गगं स्कन्दं मूर्ध्न्यजिघ्रन्मुर्हुर्मुहुः ॥ ३१।५७ ॥
जिघ्रती कार्त्तिकेयस्य अभिषेकार्द्रमाननम् ।
भात्यद्रिजा यथेन्द्रस्य देवमातादितिः पुरा ॥ ३१।५८ ॥
तदाभिषिक्तं तनयं दृष्ट्वा शर्वो मुदं ययौ ।
पावकः कृत्तिकाश्चैव कुटिला च यशस्विनी ॥ ३१।५९ ॥
ततो ऽभिषिक्तास्य हरः सेनापत्ये गुहस्य तु ।
प्रमथांश्चतुरः प्रदाच्छक्रतुल्यपराक्रमान् ॥ ३१।६० ॥
घण्टाकर्ण लोहिताक्षं नन्दिसेनं च दारुणम् ।
चतुर्थं बलिनां मुख्यं ख्यातं कुमुदमालिनम् ॥ ३१।६१ ॥
हरदत्तान् गणान् दृष्ट्वा देवाः स्कन्दस्य नारद ।
प्रददुः प्रमथान् स्वान् स्वान् सर्वे ब्रह्मपुरोगमाः ॥ ३१।६२ ॥
स्थाणुं ब्रह्म गणं प्रादाद् विष्णुः प्रादाद् गणत्रयम् ।
सङ्क्रमं विक्रमं चैव तृतीयं च पराक्रमम् ॥ ३१।६३ ॥
उत्केसं पङ्कजं शक्रो रविर्दण्डकपिङ्गलौ ।
चन्द्रो मणिं वसुमणिमश्विनौ वत्सनन्दिनौ ॥ ३१।६४ ॥
ज्योतिर्हुताशनः प्रादाज्जवलज्जिह्वं तथापरम् ।
कुन्दं मुकुन्दं कुसुमं त्रीन् धातानुचरान् ददौ ॥ ३१।६५ ॥
चक्रानुचक्रौ त्वष्टां च वेधातिस्थिरसुस्थिरौ ।
पाणित्यजं कालकञ्च प्रादात् पूषा महाबलौ ॥ ३१।६६ ॥
स्वर्णमालं घनाह्वं च हिमवान् प्रमथोत्तमौ ।
प्रादादेवोच्छ्रितो विन्ध्यस्त्वतिशृङ्गं च पार्षदम् ॥ ३१।६७ ॥
सुवर्चसं च वरुणः प्रददौ चातिवर्चसम् ।
सङ्ग्रहं विग्रहं चाब्धिर्नागा जयमहाजयौ ॥ ३१।६८ ॥
उन्मादं शुङ्कुर्ण च पुष्पदन्तं तथाम्बिका ।
घसं चातिघसं वायुः प्रादादनुचरावुभौ ॥ ३१।६९ ॥
परिघं चटकं भीमं दहतिदहनौ तथा ।
प्रददावंशुमान् पञ्च प्रमथान् षण्मुखाय हि ॥ ३१।७० ॥
यमः प्रमाथमुन्माथं कालसेनं महामुखम् ।
तालपत्रं नाडिजङ्घं षडेवानुचरान् ददौ ॥ ३१।७१ ॥
सुप्रभं च सुकर्माणं ददौ धाता गणेश्वरौ ।
सुव्रतं सत्यसन्धं च मित्रः प्रदाद द्विजोत्तम ॥ ३१।७२ ॥
अनन्तः शङ्कुपीठश्च निकुम्भः कुमुदो ऽम्बुजः ।
एकाक्षः कुनटी चक्षुः किरीटी कलशोदरः ॥ ३१।७३ ॥
सूचीवक्त्रः कोकनदः प्रहासः प्रियको ऽच्युतः ।
गणाः पञ्चदशैते हि यक्षैर्दत्ता गुहस्य तु ॥ ३१।७४ ॥
कालिन्द्याः कालकन्दश्च नर्मदाया रणोत्कटः ।
गोदावर्याः सिद्धयात्रस्तमसायाद्रिकम्पकः ।
३१।७५ सहस्रबाहुः सीताया वञ्जूलायाः सितोदरः ।
मन्दाकिन्यास्तथा नन्दो विपाशायाः प्रियङ्करः ॥ ३१।७६ ॥
ऐरावत्याश्चतुर्द्दष्ट्रः षोडशाक्षो वितस्तया ।
मार्जारं सौशिकी प्रादात् क्रथक्रौञ्चौ च गौतमी ॥ ३१।७७ ॥
बाहुदा शतसीर्षं च वाहा गोनन्दनन्दिकौ ।
भीमं भीमरथी प्रादाद् वेगारिं सरयूर्ददौ ॥ ३१।७८ ॥
अष्टबाहुं ददौ काशी सुबाहुमपि गण्डकी ।
महानदी चित्रदेवं चित्रा चित्ररथं ददौ ॥ ३१।७९ ॥
कुहूः कुवलयं प्रादान्मधुवर्णं मधूदका ।
जम्बूकं धूतपापा च वेणा श्वेताननं ददौ ॥ ३१।८० ॥
श्रुतवर्म च पर्मासा रेवा सागरवेगिनम् ।
प्रभावार्थं सहं प्रादात् काञ्चना कनकेक्षणम् ॥ ३१।८१ ॥
गृध्रपत्रं च विमला चारुवक्त्रं मनोहरा ।
धूतपापा महारावं कर्णा विद्रुमसन्निभम् ॥ ३१।८२ ॥
सुप्रसादं सुवेणुश्च जिष्णुमेघवती ददौ ।
यज्ञबाहुं विशाला च सरस्वत्यो ददुर्गणान् ॥ ३१।८३ ॥
कुटिला तनयस्यादाद दश शक्रबलान् गणान् ।
करालं सितकेशं च कृष्णकेशं जटाधरम् ॥ ३१।८४ ॥
मेघनादं चतुर्द्दष्ट्रं विद्युजिह्वं दशाननम् ।
सोमाप्ययनमेवोग्रं देवयाजिनमेव च ॥ ३१।८५ ॥
हंसास्यं कुण्डजठरं बहुग्रीवं हयाननम् ।
कूर्मग्रीवं च पञ्चैतान् ददुः पुत्राय कृत्तिकाः ॥ ३१।८६ ॥
स्थाणुजङ्घं कुम्भवक्त्रं लोहजङ्घं महाननम् ।
पिण्डाकारं च पञचैतान् ददुः स्कन्दायट चर्षयः ॥ ३१।८७ ॥
नागजिह्वं चन्द्रभासं पाणिकूर्मं शशीक्षकम् ।
चाषवक्त्रं च जम्बूकं ददौ तीर्थः पृथूदकः ॥ ३१।८८ ॥
चक्रतीर्थं सुचजक्राक्षं मकराश्रं गयाशिरः ।
गणं पञ्चशिखं नाम ददौ कनखलः स्वकम् ॥ ३१।८९ ॥
बन्धुदत्तं वाजिशिरो बाहुशालं च पुष्करम् ।
सर्वौञ्जसं माहिषकं मानसः पिङ्गलं यथा ॥ ३१।९० ॥
रुद्रमौशनसः प्रादात् ततो ऽन्ये मातरो ददुः ।
वसुदामां सोमतीर्थः प्रभासो नन्दिनीमपि ॥ ३१।९१ ॥
इन्द्रतीर्थं विशोकां च उदपानो घनस्वनाम् ।
सप्तसारस्वतः प्रादान्मातरश्चतुरोद्भुताः ॥ ३१।९२ ॥
गीतप्रियां माधवीं च तीर्थनेमिं स्मिताननाम् ।
एकचूडां नागतीर्थः कुरुक्षेत्रं पलासदाम् ॥ ३१।९३ ॥
ब्रह्मयोनिश्चण्डशिलां भद्रकालीं त्रिविष्टपः ।
चौण्डीं भैण्डीं योगभैण्डीं प्रादाच्चरणपावनः ॥ ३१।९४ ॥
सोपानीयां मही प्रादाच्छालिकां मानसो ह्रदः ।
शकघण्टां शतानन्दां तथोलूखलमेखलाम् ॥ ३१।९५ ॥
पद्मावती माधवीं च ददौ बदरिकाश्रमः ।
सुषमामैकचूडां च देवीं धमधमां तथा ॥ ३१।९६ ॥
उत्क्राथनीं वेदमित्रां केदारो मातरो ददौ ।
सुनक्षत्रां कद्रुलां च सुप्रभातां मुङ्गलाम् ॥ ३१।९७ ॥
देवमित्रां चित्रसेनां ददौ रुद्रमहालयः ।
कोटरामूर्ध्वणीं च श्रीमतीं बहुपुत्रिकाम् ॥ ३१।९८ ॥
पलितां कमलाक्षीं च प्रयागो मातरो ददौ ।
सूपलां मधुकुम्भां च ख्यातिं दहदहां पराम् ॥ ३१।९९ ॥
प्रादात् खटकटां चान्यां सर्वपापविमोचनः ।
सन्तानिकां विकलिकां क्रमश्चत्वरवासिनीम् ॥ ३१।१०० ॥
जलेश्वरीं कुक्कुटिकां सुदामां लोहमेखलाम् ।
वपुष्मत्युत्मुकाक्षी च कोकनामा महाशनी ।
रौद्रा कर्कटिका तुण्डा श्वेततीर्थो ददौ त्विमाः ॥ ३१।१०१ ॥
एतानि भूतानि गणांश्च मातरो दृष्ट्वा महात्मा विनतातनूजः ।
ददौ मयूरं स्वसुतं महाजवं तथारुणस्ताम्रचूडं च पुत्रम् ॥ ३१।१०२ ॥
शक्ति हुताशो ऽद्रिसुता च वस्त्रं दण्डं गुरुः सा कुटिला कमण्डलुम् ।
मालां हरिः शूलधरः पताकां कण्ठे च हारं मघवानुरस्तः ॥ ३१।१०३ ॥
गणैर्वृतो मातृबिरन्वयातो मयूरसंस्थो वरशक्तिपाणिः ।
सैन्याधिपत्ये स कृतो भवेन रराज सूर्येव महावपुष्मान् ॥ ३१।१०४ ॥
इति श्रीवामनपुराणे एकत्रिंशो ऽध्यायः