पुलस्त्य उवाच ।
चण्डमुण्डौ च निहतौ सैन्यं च विद्रुतम् ।
समादिदेशातिबलं रक्तबीजं महासुरम् ।
अक्षौहिणीनां त्रिंशद्भिः कोटिभिः परिवारितम् ॥ ३०।१ ॥
तमापतन्तं दैत्यानां बलं दृष्ट्वैव चण्डिका ।
मुमोच सिंहनादं वै ताभ्यां सह महेश्वरी ॥ ३०।२ ॥
निनदन्त्यास्ततो देव्या ब्रह्माणी मुखतो ऽभवत् ।
हंसयुक्तविमानस्था साक्षसूत्रकमण्डलुः ॥ ३०।३ ॥
माहेश्वरी त्रिनेत्रा च वृषारूढा त्रिशूलिनी ।
महाहिवलया रौद्रा जाता कुण्डलिनी क्षणात् ॥ ३०।४ ॥
कण्ठादथ च कौमारी बर्हिपत्रा च शक्तिनी ।
समुद्भूता च देवर्षे मयूरवरवाहना ॥ ३०।५ ॥
बाहुभ्यां गरुडारूढा शङ्खचक्रगदासिनी ।
शार्ङ्गबाणधरा जाता वैष्णवी रूपशालिनी ॥ ३०।६ ॥
महोग्रमुशला रौद्रा दंष्ट्रोल्लिखितभूतला ।
वाराही पृष्ठतो जाता शेषनागोपरि श्थिता ॥ ३०।७ ॥
वज्राङ्कुशोद्यतकरा नानालङ्कारभूषिता ।
जाता गजेन्द्रपष्ठस्था माहेन्द्री स्तनमण्डलात् ॥ ३०।८ ॥
विक्षिपन्ती सटाक्षेपैर्ग्रहनक्षत्रतारकाः ।
नखिनी हृदयाज्जाता नारसिंही सुदारुणा ॥ ३०।९ ॥
ताभिर्निपात्यमानं तु निरीक्ष्य बलमासुरम् ।
ननाद भूयो नादान् वै चण्डिका निर्भया रिपून् ।
तन्निनादं महच्छ्रुत्वा त्रैलोक्यप्रतिपूरकम् ॥ ३०।१० ॥
समाजगाम देवेशः शूलपाणिस्त्रिलोचनः ।
अभ्येत्य वन्द्य चैवैनां प्राह वाक्यं तदाम्बिकं ॥ ३०।११ ॥
समायातो ऽस्मि वै दुर्गे देह्याज्ञां किं करोमि ते ।
तद्वाक्यसमकालं च देव्या देहोद्भवा शिवा ॥ ३०।१२ ॥
जाता सा चाह देवेशं गच्छ दौत्येन शङ्कर ।
ब्रूहि शुम्भं निशुम्भं च यदि जीवितुमिच्छथ ॥ ३०।१३ ॥
तद् गच्छध्वं दुराचाराः सप्तमं हि रसातलम् ।
वासवो लभतां स्वर्गं देवाः सन्तु गतव्यथा ॥ ३०।१४ ॥
यजन्तु ब्राह्मणाद्यामी वर्णा यज्ञांश्च साम्प्रतम् ।
नोचेद् बलावलेपेन भवन्तो योद्धुमिच्छथ ॥ ३०।१५ ॥
तदागच्छध्वमव्यग्रा एषाहं विनिषूदये ।
यतस्तु सा शिवं दौत्ये न्ययोजयत् नारद ॥ ३०।१६ ॥
ततो नाम महादेव्याः शिवदूतीत्यजायत ।
ते चापि शङ्करवचः श्रुत्वा गर्वसमन्वितम्। ।
हुङ्कृत्वाभ्यद्रवन् सर्वे यत्र कात्यायनी स्थिता ॥ ३०।१७ ॥
ततः शरैः शक्तिभिरङ्कुर्वरैः परश्वधैः शूलभुशुण्डिपट्टिशैः ।
प्रासैः सुनीक्ष्णैः परिघैश्च विस्तृतैर्ववर्षतुदैत्यवरौ सुरेश्वरीम् ॥ ३०।१८ ॥
सा चापि बाणैर्वरकामुकच्युतैश् चिच्छेद शस्त्राण्यथ बाहुभिः सह ।
जघान चान्यात् रणचण्डविक्रमा महासुरान् बाणशतैर्महेश्वरी ॥ ३०।१९ ॥
मारी त्रिशूलेन जघान चान्यान् खट्वाङ्गपातैरपरांश्च कौशिकी ।
महाजलक्षेपहतप्रभावान् ब्राह्मी तथान्यानसुरांश्चकार ॥ ३०।२० ॥
माहेश्वरी शूलविदारितोरसश् चकार दग्धानपरांश्च वैष्णवी ।
शक्त्या कुमारी कुलिशेन चैन्द्री तुण्डेन चक्रेण वराहरूपिणी ॥ ३०।२१ ॥
नखैर्विभिन्नानपि नालसिंही अट्टाट्टहासैपि रुद्रदुती ।
रुद्रस्त्रिशूलेन तथैव चान्यान् विनायकश्चापि परश्वधेन ॥ ३०।२२ ॥
एवं हि देव्या विविधैस्तु रूपैर्निपात्यमाना दनुपुगवास्ते ।
पेतुः पृथिव्यां भुवि चापि भूतैस्ते भक्ष्यमाणाः प्रलयं प्रजग्मुः ॥ ३०।२३ ॥
ते वध्यमानास्त्वथ देवताभिर्महासुरा मातृभिराकुलाश्च ।
विमुक्तकेशास्तरलेक्षणा भयात् ते रक्तबीजं शरणं हि जग्मुः ॥ ३०।२४ ॥
स रक्तबीजः सहसाभ्युपेत्य वरास्त्रमादाय च मातृमण्डतम् ।
विद्रावयन् भूतगणान् समन्ताद् विवेश कोपात् स्फुरिताधरश्च ॥ ३०।२५ ॥
तमापतन्तं प्रसमीक्ष्य मातरः शस्त्रैः शिताग्रैर्दितजं ववर्षुः ।
यो रक्तबिन्दुर्न्यपतत् पृथिव्यां स तत्प्रमाणस्त्वसुरो ऽपि जज्ञे ॥ ३०।२६ ॥
ततस्तदाश्चर्यमयं निरीक्ष्य सा कौशिकी केशिनिमभ्युवाच ।
पिबस्व चण्डे रुधिरं त्वरातेर्वितत्य वक्त्रं वडवानलाभम् ॥ ३०।२७ ॥
सा त्वेवमुक्ता वरदाम्बिका हि वितत्य वक्त्रं विकरालमुग्रम् ।
ओष्ठं नभस्पृक् पृथिवीं स्पूशन्तं कृत्वाधरं तिष्ठति चर्ममुण्डा ॥ ३०।२८ ॥
ततो ऽम्बिका केशविकर्षणाकुलं कृत्वा रिपुं प्राक्षिपत स्ववक्त्रे ।
बिभेद शूलेन तथाप्युरस्तः क्षतोद्भवान्ये न्यपतंश्च वक्त्रे ॥ ३०।२९ ॥
ततस्तु शोषं प्रजगाम रक्तं रक्तक्षये हीनबलो बभूव ।
तं हीनवीर्यं शतधा चकार चक्रेण चामीकरभूषितेन ॥ ३०।३० ॥
तस्मिन् विशस्ते दनुसैन्यनाते ते दानवा दीनतरं विनेदुः ।
हा तात ह भ्रातरिति ब्रुवन्तः क्त यासि तिष्ठस्व मुहूर्त्तमेहि ॥ ३०।३१ ॥
तथापरे विलुलितकेशपाशा विशीर्णवर्माभरणा दिगम्बराः ।
निपातिता धरणितले मृडान्या प्रदुद्रुवुर्गिरिवरमुह्य दैत्याः ॥ ३०।३२ ॥
विशीर्णवर्मायुधभूषणं तत् बलं निरीक्ष्यैव हि दानवेन्द्रः ।
विशीर्मचक्राक्षरथो निशुम्भः क्रोधान्मृडानीं समुपाजगाम ॥ ३०।३३ ॥
खड्गं समादाय च चर्म भास्वरं धुन्वन् शिरः प्रेक्ष्य च रूपमस्याः ।
संस्तम्भमोहज्वरपीडिते ऽथ चित्रे यथासौ लिखितो बभूव ॥ ३०।३४ ॥
तं स्तम्भितं वीक्ष्य सुरामग्रे प्रोवाच देवी वचनं विहस्य ।
अनेन वीर्येण सुरास्त्वया जिता अनेन मां प्रार्थयसे बलेन ॥ ३०।३५ ॥
श्रुत्वा तु वाक्यं कौशिक्या दानवः सुचिरादिव ।
प्रोवाच चिन्तयित्वाथ वचनं वदतां वरः ॥ ३०।३६ ॥
सुकुमाररीरो ऽथं मच्छस्त्रपतनादपि ।
शतधा यास्यते भीरु आमपात्रमिवाम्भसि ॥ ३०।३७ ॥
एतद् विचिन्तयन्नर्थ त्वां प्रहर्त्तु न सुन्दरि ।
करोमि बुद्धि तस्मात् त्वं मां भजस्वायतेक्षणे ॥ ३०।३८ ॥
मम खङ्गनिपातं हि नेन्द्रो धारयितुं क्षमः ।
निवर्त्तय मतिं युद्धाद् भार्या मे भव साम्प्रतम् ॥ ३०।३९ ॥
इत्थं निशुम्भवचनं श्रुत्वा योगीश्वरी मुने ।
विहस्य भावगम्भीरं निशुम्भं वाक्यमब्रवीत् ॥ ३०।४० ॥
नाजिताहं रणे वीर भवे भार्या हि कस्यचित् ।
भवान् यदिह भार्यार्थो ततो मां जय संयुगे ॥ ३०।४१ ॥
इत्येवमुक्ते वचने खङ्गमुद्यम्य दानवः ।
प्रचिक्षेप तदा वेगात् कौशिकीं प्रति नारद ॥ ३०।४२ ॥
तमापतन्तं निस्त्रिंशं षड्भिर्बर्हिणराजितैः ।
चिच्छेद चर्मणा सार्द्ध तदद्भुतमिवाभवत् ॥ ३०।४३ ॥
खड्गे सचर्मणि छिन्ने गदां गृह्य महासुरः ।
समाद्रवत् कोशभवां वायुवेगसमो जवे ॥ ३०।४४ ॥
तस्यापतत एवाशु करौ श्लिष्टौ समौ दृढौ ।
गदया सह चिच्छेद क्षुरेप्रेण रणे ऽम्बिका ॥ ३०।४५ ॥
तस्मिन्नपतिते रौद्रे सुरशत्रौ भयङ्करे ।
चण्डाद्य मातरो हृष्टाश्चक्रुः किलकिलाध्वनिम् ॥ ३०।४६ ॥
गगनस्थास्ततो देवाः शतक्रतुपुरोगमाः ।
जयस्व विजयेत्यूचुर्हृष्टाः शत्रौ निपातिते ॥ ३०।४७ ॥
ततस्तूर्याण्यवाद्यन्त भूतसङ्घैः समन्ततः ।
पुष्पवृष्टिं च मुमुचुः सुराः कात्यायनीं प्रति ॥ ३०।४८ ॥
निशुम्भं पतितं दृष्ट्वा शुम्भः क्रोधान्महामुने ।
वृन्दारकं समारुह्य पाशपाणिः समभ्यगात् ॥ ३०।४९ ॥
तमापतन्तं दृष्ट्वाथ सगजं दानवेश्वरम् ।
जग्रा ह चतुरो वाणांश्चन्द्रार्धाकरवर्चसः ॥ ३०।५० ॥
क्षुरप्राभ्यां समं पादौ द्वौ चिच्छेद द्विपस्य सा ।
द्वाभ्यां कुम्भे जघानाथ हसन्ती लीलयाम्बिका ॥ ३०।५१ ॥
निकृत्ताभ्यां गजः पद्म्यां निपपात तथेच्छया ।
शक्रवज्रसमाक्रान्तं शैलराजशिरो यथा ॥ ३०।५२ ॥
तस्यावर्जितनागस्य शुम्भस्याप्युत्पतिष्यतः ।
शिरश्चिच्छेद बाणेन कुण्डलालङ्कृतं शिवा ॥ ३०।५३ ॥
छिन्ने शिरसि दैत्येन्द्रो निपपात सकुञ्जरः ।
यथा समहिषः क्रोञ्चो महासेनसमाहतः ॥ ३०।५४ ॥
श्रुत्वा सुराः सुररिपु निहतौ मृडान्या सेन्द्राः ससूर्यमरुदश्विवसुप्रधानाः ।
आगत्य तं गिरिवरं विनयावनम्रा देव्यास्तदा स्तुतिपदं त्विदमीरयन्तः ॥ ३०।५५ ॥
देवा ऊचुः। ।
नमो ऽस्तु ते भगवति पापनाशिनि नमो ऽस्तु ते सुररिपुदर्पशातनि ।
नमो ऽस्तु ते हरिहरराज्यदायिनि नमो ऽस्तु ते मखभुजकार्यकारिणि ॥ ३०।५६ ॥
नमो ऽस्तु ते त्रिदशरिपुक्षयङ्करि नमो ऽस्तु ते शतमखपादपूजिते ।
नमो ऽस्तु ते महिषविनासकारिणि नमो ऽस्तु ते हरिहरभास्करस्तुते ॥ ३०।५७ ॥
नमो ऽस्तु ते ऽष्टादशबाहुशालिनि नमो ऽस्तु ते शुम्भनिशुम्भघातिनि ।
नमो ऽस्तु लोकार्त्तिहरे त्रिशूलिनि नमो ऽस्तु नारायणि चक्रधारिणि ॥ ३०।५८ ॥
नमो ऽस्तु वाराहि सदा धराधरे त्वां नारसिंहि प्रणता नमो ऽसुत ते ।
नमो ऽस्तु नारसिंहि प्रणता नमो ऽस्तु ते ।
नमो ऽस्तु ते वज्रधरे गजध्वजे नमो ऽसुत कौमारि मयूरवाहिनि ॥ ३०।५९ ॥
नमो ऽस्तु पैतामहहंसवाहने नमो ऽस्तु मालाविकटे सुकेशिनि ।
नमऽस्तु मालाविकटे सुकेशिनि ।
नमो ऽस्तु ते रासभपृष्ठवाहिनि नमो ऽस्तु सर्वार्त्तिहरे जगन्मये ॥ ३०।६० ॥
नमो ऽस्तु विश्वेश्वरि पाहि विश्वं निषूदयारीन् द्विजदेवतानाम् ।
नमो ऽस्तु ते सर्वमयि त्रिनेत्रे नमो नमस्ते वरदे प्रसीद ॥ ३०।६१ ॥
ब्रह्माणी त्वं मृडानी वरशिखिगमना शक्तिहस्ता कुमारी वाराही त्वं सुवक्त्रा खगपतिगमना वैष्णवी त्वं सशार्ङ्गो ।
दुर्दृश्या नारसिंही घुरघुरितरवा त्वं तथैन्द्री सवज्रा त्वं मारी चर्ममुण्डाशवगमनरता योगिनी योगसिद्धा ॥ ३०।६२ ॥
नमस्ते त्रिनेत्रे भगवति तवचरणानुषिता ये अहरहर्विनतशिरसो ऽवनताः ।
नहि नहि परिभवमस्त्यशुभं च स्तुतिबलिकुसुमकराः सततं ये ॥ ३०।६३ ॥
एवं स्तुता सुरवरैः सुरशत्रुनाशिनी प्राह प्रहस्य सुरसिद्धमहर्षिवर्यान् ।
प्राप्तो मयाद् भुततमो भवतां प्रसादात् सङ्ग्राममूर्ध्वि सुरशत्रुजयः प्रमर्दात् ॥ ३०।६४ ॥
इमां स्तुतिं भक्तिपरा नरोत्तमा भवद्भिरुक्तामनुकीर्त्तयन्ति ।
दुःस्वप्ननाशो भविता न संशयो वरस्तथान्यो व्रियतामभीप्सितः ॥ ३०।६५ ॥
देवा ऊचुः ।
यदि वरदा भवती त्रिदशानां द्विजशिशुगोषु यतस्व हिताय ।
पुनरपि देवरिपूनपरांस्त्वं प्रदह हुताशनतुल्यशरीरे ॥ ३०।६६ ॥
देव्युवाच। ।
भूयो भविष्याम्यसृगुक्षितानना हराननस्वेदजलोद्भवा सुराः ।
अन्धासुरस्याप्रतिपोषणे रता नाम्ना प्रसिद्धा भुवनेषु चर्चिका ॥ ३०।६७ ॥
भूयो वधिष्यामि सुरारिमुत्तमं सम्भूय नन्दस्य गृहे यशोदया ।
तं विप्रचित्तिं लवणं तथापरौ शुम्भं निशुम्भं दशनप्रहारिमी ॥ ३०।६८ ॥
भूयः सुरास्तिष्ययुगे निराशिनी निरीक्ष्य मारी च गृहे शतक्रतोः ।
सम्भूय देव्यामितसत्यधामया सुरा भरिष्यामि च शाकम्भरी वै ॥ ३०।६९ ॥
भूयो विपक्षक्षपणाय देवा विन्ध्ये भविष्यम्यृषिरक्षणार्थम् ।
दुर्वृत्तचेष्टान् विनिहत्य दैत्यान् भूयः समेष्यामि सुरालयं हि ॥ ३०।७० ॥
यदारुणाक्षो भविता महासुरः तदा भविष्यामि हिताय देवाताः ।
महालिरूपेण विनष्टजीवितं कृत्वा समष्यामि पुनस्त्रिविष्टपम् ॥ ३०।७१ ॥
पुलस्त्य उवाच ।
इत्येवमुक्त्वा वरदा सुराणां कृत्वा प्रणामं दिवजपुङ्गवानाम् ।
विसृज्य भूतानि जगाम देवी खं सिद्धसङ्घैरनुगम्यमाना ॥ ३०।७२ ॥
इदं पुराणं परमं पवित्रं देव्या जयं मङ्गलदायि पुंसाम् ।
श्रोतव्यमेतन्नियतैः सदैव रक्षोघ्नमेतद्भगवानुवाच ॥ ३०।७३ ॥
इति श्रीवामनपुराणे त्रिंशोध्यायः