२९

पुलस्त्य उवाच ।
कश्यपस्य दनुर्नाम भार्यासीद् द्विजसत्तम ।
तस्याः पुत्रत्रयं चासीत् सहस्राक्षाद् बलाधिकम् ॥ २९।१ ॥
ज्येष्ठः सुम्भ इति ख्यातो निशुम्भश्चापरो ऽसुरः ।
तृतीयो नमुचिर्नाम महाबलसमन्वितः ॥ २९।२ ॥
यो ऽसौ नमुचिरित्येवं ख्यातो दनुसुतो ऽसुरः ।
तं हन्तुमिच्छति हरिः प्रगृह्य कुलिशं करे ॥ २९।३ ॥
त्रिदिवेशं समायान्तं नमुचिस्तद्भयादथ ।
प्रविवेश रथं भानोस्ततो नाशकदच्युतः ॥ २९।४ ॥
शक्रस्तेनाथ समयं चक्रे सह महात्मना ।
अवध्यत्वं वरं प्रादाच्छस्त्रैरस्त्रैश्च नारद ॥ २९।५ ॥
ततो ऽवध्यत्वमाज्ञाय शस्त्रादास्त्राच्च नरद ।
सन्त्यज्य भास्कररथं पातालमुपयादथ ॥ २९।६ ॥
स निमज्जन्नपि जले सामुद्रं फेनसुत्तमम् ।
ददृशे दानवपतिस्तं प्रगृह्येदमब्रवीत् ॥ २९।७ ॥
यदुक्तं देवपतिना वासवेन वचो ऽस्तु तत् ।
अयं स्पृशतु मां फेनः पराभ्यां गृह्य दानवः ॥ २९।८ ॥
मुखनासाक्षिकार्णादीन् सम्ममार्ज्ज यथेच्छया ।
तस्मिञ्छक्रो ऽजद् वज्रमन्तर्हितमपीश्वरः ॥ २९।९ ॥
तेनासौ भग्ननासास्यः पपात च ममार च ।
समये च तथा नष्टे ब्रह्महत्यास्पृशद्धरिम् ॥ २९।१० ॥
स वै तीर्थं समासाद्य स्नातः पापादमुच्यत ।
ततो ऽस्य भ्रातरौ वीरौ क्रुद्धौ सुम्भनिशुम्भकौ ॥ २९।११ ॥
उद्योगं सुमहत्कृत्वा सुरान् बाधितुमागतौ ।
सुरास्ते ऽपि सहस्राक्षं पुरस्कृत्य विनिर्ययुः ॥ २९।१२ ॥
जितास्त्वाक्रम्य दैत्याभ्यां सबलाः सपदानुगाः ।
शक्रस्याहृत्य च गजं याम्यं च महिषं बलात् ॥ २९।१३ ॥
वरुणस्य मणिच्छत्रं गदां वै मारुततस्य च ।
निधनः पद्मशङ्खाद्या हृतास्त्वाक्रम्य दानवैः ॥ २९।१४ ॥
त्रैलोक्यं वशगं चास्ते ताभ्यां नारद सर्वतः ।
तदाजग्मुर्महीपृष्ठं ददृशुस्ते महासुरम् ॥ २९।१५ ॥
रक्तबीजमथोचुस्ते को भवानिति सो ऽब्रवीत् ।
स चाह दैत्यो ऽस्मि विभो सचिवो महिषस्य तु ॥ २९।१६ ॥
रक्तबीजेति विख्यातो महावीर्यो महाभुजः ।
अमात्यौ रुचिरौ वीरौ चण्डमुण्डाविति श्रुतौ ॥ २९।१७ ॥
तावारतां सलिले मग्नौ भयाद् देव्या महाभुजौ ।
यस्त्वासीत् प्रभूरस्माकं महिषो नाम दानवः ॥ २९।१८ ॥
निहतः स महादेव्या विन्ध्यशैले सुविस्तृते ।
भवन्तौ कस्य तनयौ कौ वा नाम्ना पिरश्रुतौ ।
किंवीर्यौ किम्प्रभावौ च एतच्छंसितुमर्हथः ॥ २९।१९ ॥
शुम्भनिशुम्भावूचतुः ।
अहं शुम्भ इति ख्यातो दनोः पुत्रस्तथौरसः ।
निशुम्भो ऽयं मम भ्राता कनीयान् शत्रुपूगहा ॥ २९।२० ॥
अनेन हगुशो देवाः सेन्द्ररुद्रदिवाकराः ।
समेत्य निर्जिता वीरा ये ऽन्ये च बलवत्तराः ॥ २९।२१ ॥
तदुच्यतां कया दैत्यो निहतो महिषासुरः ।
यावत्तां घातयिष्यावः स्वसैन्यपरिवारितौ ॥ २९।२२ ॥
इत्थं तोस्तु वदतोर्नर्मदायास्तटे मुने ।
जलवासाद् विनिष्क्रान्तौ चण्डमुण्डौ च दानवौ ॥ २९।२३ ॥
ततो ऽभ्येत्यासुरश्रेष्ठौ रक्तबीजं समाश्रितौ ।
ऊचतुर्वचनं श्लक्ष्णं को ऽयं तव पुरस्सरः ॥ २९।२४ ॥
स चोभौ प्राह दैत्यो ऽसौ शुम्भो नाम सुरार्दनः ।
कनीयानस्य च भ्राता द्वितीयो हि निशुम्भकः ॥ २९।२५ ॥
एतावाश्रित्य तां दुष्टां महिषघ्नीं न संशयः ।
अहं विवाहयिष्यामि रत्नभूतां जगत्त्रये ॥ २९।२६ ॥
चण्ड उवाच ।
न सम्यगुक्तां भवता रत्नार्हे ऽसि न साम्प्रतम् ।
यः प्रभुः स्यात्स रत्नार्हस्तस्माच्छुम्भाय योज्यताम् ॥ २९।२७ ॥
तदाचचक्षे शुम्भाय निसुम्भाय च कौशिकीम् ।
भूयो ऽपि तद्विधां जातां कौशिकीं रूपशालिनीम् ॥ २९।२८ ॥
ततः शुम्भो निजं दूतं सुग्रीवं नाम दानवम् ।
दैत्यं च प्रेषयामास सकाशं विन्ध्यवासिनीम् ॥ २९।२९ ॥
स गत्वा तद्वचः श्रुत्वा देव्यागत्य महासुरः ।
निशुम्भशुम्बावाहेदं मन्युनाबिपरिप्लुतः ॥ २९।३० ॥
सुग्रीव उवाच ।
युवयोर्वचनाद् देवीं प्रदेष्टुं दैत्यनायकौ ।
गतवानहमद्यैव तामहं वाक्यमब्रुवम् ॥ २९।३१ ॥
यथा शुम्भो ऽतिविख्यातः ककुद्मी दानवेष्वपि ।
स त्वां प्राह महाभागे प्रभुरस्मि जगत्त्रये ॥ २९।३२ ॥
यानि स्वर्गे महीष्टष्ठे पाताले चापि सुन्दरि ।
रत्नानि सन्ति तावन्ति मम वेश्मनि नित्यशः ॥ २९।३३ ॥
त्वमुक्ता चण्डमुण्डाभ्यां रत्नभूता कृशोदरि ।
तस्माद् भजस्वमां वा त्वं नुशुम्भंवा ममानुजम् ॥ २९।३४ ॥
सा चाह मां विहसती शृणु सुग्रीव मद्वचः ।
सत्यमुक्तं त्रिलोकेशः शुम्भो रत्नार्ह एव च ॥ २९।३५ ॥
किं त्वस्ति दुर्विनीताया हृदये मे मनोरथः ।
यो मां विजयते युद्धे स भता स्यान्महासुर ॥ २९।३६ ॥
मया चोक्तावलिप्तासि यो जयेत् ससुरासुरान् ।
स त्वां कथं न जयते सा त्वमुत्तिष्ठ भामिनी ॥ २९।३७ ॥
साथ मां प्राह किं कुर्मि यदनालोचितः कृतः ।
मनोरथस्तु तद् गच्छ सुम्भाय त्वं निवेदय ॥ २९।३८ ॥
तयैवमुक्तस्त्वभ्यागां त्वत्सकाशं महासुर ।
सा चाग्निकोटिसदृशी मत्वैवं कुरु यत्क्षमम् ॥ २९।३९ ॥
पुलस्त्य उवाच। ।
इति सुग्रीववचनं निशम्य स महासुरः ।
प्राह दूरस्थितं सुम्भो दानवं धूम्रलोचनम् ॥ २९।४० ॥
शुम्भ उवाच ।
धूम्राक्ष गच्छ तां दुष्टां केशाकर्षणविह्वलाम् ।
सापराधां यता दासीं कृत्वा शीघ्रमिहानय ॥ २९।४१ ॥
यश्चास्याः पक्षकृत् कश्चिद् भविष्यति महाबलः ।
स हन्तव्यो ऽविचार्यैव यदि हि स्यात् पितामहः ॥ २९।४२ ॥
स एवमुक्तः शुम्भेन धूम्राक्षो ऽक्षौहिणीशतैः ।
वृतः षड्भिर्महातेजा विन्ध्यं किरिमुपाद्रवत् ॥ २९।४३ ॥
स तत्र दृष्ट्वा तां दुर्गां भ्रान्तदृष्टिरुवाच ह ।
एह्येहि मूढे भर्तारं शुम्भमिच्छस्व कौशिकी ।
न चेद् बलान्नयिष्यामि केशाकर्षणविह्वलाम् ॥ २९।४४ ॥
श्रीदेव्युवाच ।
प्रेषितो ऽसीह शुम्भेन बलान्नेतुं हि मां किल ।
तत्र किं ह्यबला कुर्याद् यथेच्छसि तथा कुरु ॥ २९।४५ ॥
पुलस्त्य उवाच। ।
एवमुक्तो विभावर्या बलावान् धूम्रलोचनः ।
सम्भ्यधावत् त्वरितो गदामादाय वीर्यवान् ॥ २९।४६ ॥
तमापतन्तं सगदं हुङ्कारेणैव कौशिकी ।
सबलं भस्मसाच्चक्रे शुष्कमग्निरिवेन्धनम् ॥ २९।४७ ॥
ततो हाहाकृतमभूज्जगत्यस्मिश्चराचरे ।
सबलं भस्मसान्नीतं कौशिक्या वीक्ष्य दानवम् ॥ २९।४८ ॥
तच्च शुम्भो ऽपि शुश्राव महच्छब्दमुदीरितम् ।
अथादिदेश बलिनौ चण्डमुण्डौ महासुरौ ॥ २९।४९ ॥
रुरुं च बलिनां श्रेष्ठं तथा जग्मुर्मुदान्विताः ।
तेषां च सैन्यमतुलं गजाश्वरथसङ्कुलम् ॥ २९।५० ॥
समाजगाम सहसा यत्रास्ते कोशसम्भवा ।
तदायान्तं रिपुबलं दृष्ट्वा कोटिशतावरम् ॥ २९।५१ ॥
सिंहो ऽद्रवद् धुतसटः पाटयन् दानवान् रणे ।
कांश्चित् करप्रहारेण कांश्चिदास्येन लीलया ॥ २९।५२ ॥
नखरैः कांश्चिदाक्रम्य उरसा प्रममाथ च ।
ते वध्यमानाः सिंहेन गिरिकन्दरवासिना ॥ २९।५३ ॥
भूतैश् च देव्यनुचरैश्चण्डमुण्डौ समाश्रयन् ।
तावार्त्तं स्वबलं दृष्ट्वा कोपप्रस्फुरिताधरौ ॥ २९।५४ ॥
समाद्रवेतां दुर्गां वै पतङ्गविव पावकम् ।
तावापतन्तौ रौद्रौ वै दृष्ट्वा क्रोधपरिप्लुता ॥ २९।५५ ॥
त्रिसाखां भ्रुकुटीं वक्त्रे चकार परमेश्वरी ।
भ्रुकुटीकुटुलाद् देव्या ललाटफलकाद् द्रुतम् ।
काली करालवदना निःसृता योगिनी शुबा ॥ २९।५६ ॥
खट्वाङ्गमादाय करेण रौद्रमसिञ्च कालाञ्जनकोशमुग्रम् ।
संशुष्कगात्रा रुधिराप्लुताङ्गीनरेन्द्रमूर्ध्ना स्रजमुद्वहन्ती ॥ २९।५७ ॥
कांश्चित् खड्गेन चिच्छेद खट्वाङ्गेन परान् रणे ।
न्यषूदयद् भृशं क्रुद्धा सरताश्वगजान् रिपून् ॥ २९।५८ ॥
चर्माङ्कुशं मुद्गरं च सधनुष्कं सघण्टिकम् ।
कुञ्जरं सह यन्त्रेण प्रतिक्षेप मुके ऽम्बिका ॥ २९।५९ ॥
सचक्रकूबररथं ससारथितुरङ्गमम् ।
समं योधेन वदने क्षिप्य चर्वयते ऽम्बिका ॥ २९।६० ॥
एकं जग्राह केशेषु ग्रीवायमपरं तथा ।
पादेनाक्रम्य चैवान्यं प्रेषयामास मृत्यवे ॥ २९।६१ ॥
ततस्तु तद् बलं देव्या भक्षितं सबलाधिपम् ।
रुरुर्दृष्ट्वा प्रदुद्राव तं चण्डि ददृशे स्वयम् ॥ २९।६२ ॥
आजघानाथ शिरसि खट्वाङ्गेन महासुरम् ।
स पपात हतो भूम्यां छिन्नमूल इव द्रुमः ॥ २९।६३ ॥
ततस्तं पतितं दृष्ट्वा पशोरिव विभावरी ।
कोशमुत्कर्तयामास कर्णादिचरणान्तिकम् ॥ २९।६४ ॥
सा च कोशं समादाय वबन्ध विमला जटाः ।
एका न बन्धमगमत् तामुत्पाट्याक्षिपद् भुवि ॥ २९।६५ ॥
सा जाता सुतरां रौद्री तैलाभ्यक्तशिरोरुहा ।
कुष्णार्धमर्धशुक्लं च धारयन्ती स्वकं वपुः ॥ २९।६६ ॥
साब्रवीदं वरमेकं तु मारयामि महासुरम् ।
तस्या नाम तदा चक्रे चण्डमारीति विश्रुतम् ॥ २९।६७ ॥
प्राह गच्छस्व सुभगे चण्डमुण्डाविहानय ।
स्वयं हि मारयिष्यामि तावानेतुं त्वमर्हसि ॥ २९।६८ ॥
श्रुत्वैवं वचनं देव्याः साभ्यद्रवत् तावुभौ ।
प्रदुद्रुवतुर्भयार्त्तौ दिशमाश्रित्य दक्षिणाम् ॥ २९।६९ ॥
ततस्तावपि वेगेन प्राधावत् त्यक्तवाससौ ।
साधिरुह्य महावेगं रासभं गरुडोपमम् ॥ २९।७० ॥
यतो गतौ च तौ दौत्यौ तत्रैवानुययौ शिवा ।
सा ददर्श तदा पौण्ड्रं महिषं वै मस्य च ॥ २९।७१ ॥
सा तस्योत्पाटयामास विषाणं भुजगाकृतिम् ।
तं प्रगृह्य करेणैव दानवावन्वगाज्जवात् ॥ २९।७२ ॥
तौ चापि भूमिं सन्त्यज्य जग्मतुर्गगनं तदा ।
वेगेनाबिसृता सा च रासभेन महेश्वरी ॥ २९।७३ ॥
ततो ददर्श गरुडं पन्नगेन्द्रं चिषादिषुम ।
कर्कोटकं स दृष्ट्वा ऊर्ध्वरोमा व्यजायत ॥ २९।७४ ॥
भयान्मार्यश्च गरुडो मांसपिण्डोपमो बभौ ।
न्यपतंस्तस्य पत्राणि रौद्राणि हि पतत्त्रिणः ॥ २९।७५ ॥
खगेन्द्रपत्राण्यादाय नागं कर्कोटकं तथा ।
वेगेनानुसरद् देवी चण्डमुण्डौ भयातुरौ ॥ २९।७६ ॥
सम्प्राप्तौ च तदा देव्या चण्डमुण्डौ महासुरौ ।
बद्धौ कर्कोटकेनैव बद्ध्वा विन्ध्यमुपागमत् ॥ २९।७७ ॥
निवेदयित्वा कौशिक्यै कोशमादाय भेरवम् ।
शिरोभिर्दानवेन्द्राणां तार्क्ष्यपत्रैश्च शोभनैः ॥ २९।७८ ॥
कृत्वा स्रजमनौपम्यां चण्डिकायै न्यवेदयत् ।
घर्घरां च मृगेन्द्रस्य चर्मणः सा समार्पयत् ॥ २९।७९ ॥
स्रजमन्यैः खगेन्द्रस्य पत्रैर्मूर्घ्नि निबध्य च ।
आत्मना सा पपौ पानं रुधिरं दानवेष्वपि ॥ २९।८० ॥
चण्डा त्वादाय चण्डं च मुण्डं चासुरनायकम् ।
चकार कुपिता दुर्गा विशिरस्कौ महासुरौ ॥ २९।८१ ॥
तयोरेवाहिना देवी शेखरं सुष्करेवती ।
कृत्वा जगाम कौशिक्याः सकाशं मार्यया सह ॥ २९।८२ ॥
समेत्य साब्रवीद् देवि गृह्यतां शेखरोत्तमः ।
ग्रथितो दैत्यशीर्षाभ्यां नागराजेन वेष्टितः ॥ २९।८३ ॥
तं शेखरं शिवा गृह्य चण्डाया मूर्ध्नि विस्तृतम् ।
बबन्ध प्राह चैवैनां कृतं कर्म सुदारुणम् ॥ २९।८४ ॥
शेखरं चण्डमुण्डाभ्यां यस्माद् धारयसे शुभम् ।
तस्माल्लोके तव ख्यातिश्चामुण्डेति भविष्यति ॥ २९।८५ ॥
इत्येवमुक्त्वा वचनं त्रिनेत्रा मा चण्डमुण्डस्रजधारिणीं वै ।
दिग्वाससं चाभ्यवदत् प्रतीता निषूदय खारिबलान्यमूनि ॥ २९।८६ ॥
सा त्वेवमुक्ताथ विषाणकोट्या सुवेगयुक्तेन च रासभेन ।
निषूदयन्ती रिपुसैन्यमुग्रं चचार चान्यानसुरांश्चखाद ॥ २९।८७ ॥
ततो ऽम्बिकायास्त्वथ चर्ममुण्डया मार्या च सिंहेन च भूतसङ्घैः ।
निपात्यमाना दनुपुङ्गवास्ते ककुद्मिनं शुम्भमुपाश्रयन्त ॥ २९।८८ ॥

इति श्रीवामनपुराणे एकोनत्रिंशोध्यायः