२८

पुलस्त्य उवाच ।
ततो गिरौ वसन् रुद्रः स्वेच्छया विचरन् मुने ।
विश्वकर्माणमाहूय प्रोवाच कुरु मे गुहम् ॥ २८।१ ॥
ततश्चकार शर्वस्य गृहं स्वस्तिकलक्षणम् ।
योजनानि चतुःषष्टिः प्रमाणेन हिरण्मयम् ॥ २८।२ ॥
दन्ततोरमनिर्व्यूहं मुक्ताजालान्तरं शुभम् ।
शुद्धस्फटिकसोपानं वैडूर्यकृतपरूपकम् ॥ २८।३ ॥
सप्तकक्षं सुविस्तीर्णं सर्वैः समुदितं गुणैः ।
ततो देवपतिश्चक्रे यज्ञं गार्हस्थ्यलक्षणम् ॥ २८।४ ॥
तं पूर्वचरितं मार्गमनुयाति स्म शङ्करः ।
तथा सतस्त्रिनेत्रस्य महान् कालो ऽभ्यगान्मुने ॥ २८।५ ॥
रमतः सह पार्वत्या धर्मापेक्षो जगत्पतिः ।
ततः कदाचिन्नर्मार्थं कालीत्युक्ता भवेन हि ॥ २८।६ ॥
पार्वती मन्युनाविष्टा शङ्करं वाक्यमब्रवीत् ।
संरोहतीषुणा विद्धं वनं परशुना हतम् ।
वाचा दुरुक्तां बीभत्सं न प्ररोहति वाक्क्षतम् ॥ २८।७ ॥
वाक्सायका वदनान्निष्पतन्ति तैराहतः शोचति रात्र्यहानि ।
न तान् विमुञ्चेत हि पण्डितो जनस्तमद्य धर्म वितथं त्वया कृतम् ॥ २८।८ ॥
तस्माद् व्रजामि देववेश तपस्तप्तुमनुत्तमम् ।
तथा यतिष्ये यथा भवान् कालीति वक्ष्यति ॥ २८।९ ॥
इत्येवमुक्त्वा गिरिजा प्रणम्य च महेश्वरम् ।
अनुज्ञाता त्रिरिजा दिवमेवोत्पपात ह ॥ २८।१० ॥
समुत्पत्य च वेगेन हिमाद्रिशिखरं शिवम् ।
टङ्कच्छिन्नं प्रयत्नेन विधात्रा निर्मितं तथा ॥ २८।११ ॥
ततो ऽवतीर्य सस्मार जयां च विजयां तथा ।
जयन्तीं च महापुण्यां चतुर्थोमपराजिताम् ॥ २८।१२ ॥
ताः संस्मृताः समाजग्मुः कालीं द्रष्टुं हि देवताः ।
अनुज्ञातास्तथा देव्या शुश्रूषां चक्रिरे शुभाः ॥ २८।१३ ॥
ततस्तपसि पार्वत्यां स्थितायां हिमवद्वनात् ।
समाजगाम तं देशं व्याघ्रो दंष्ट्रानखायुधः ॥ २८।१४ ॥
एकपादस्थितायां तु देव्यां व्याघ्रस्त्वचिन्तयत् ।
यदा पतिष्यते चेयं तदादास्यामि वै अहम् ॥ २८।१५ ॥
इत्येवं चिन्तयन्नेव दत्तदृष्टिर्मृगाधिपः ।
पश्यमानस्तु वदनमेकदृष्टिरजायत ॥ २८।१६ ॥
ततो वर्षशतं देवी गृणन्ती ब्रह्ममः पदम् ।
तपो ऽवर्षशतं देवी गृणन्ती ब्रह्म त्रिभुवनेश्वरः ॥ २८।१७ ॥
पितामहस्ततोवाच देवीं प्रीतो ऽस्मि शास्वते ।
तपसा धूतपापासि वरं वृणु यथेप्सितम् ॥ २८।१८ ॥
अथोवाच वचः काली व्याघ्रस्य कमलोद्भव ।
वरदो भव तेनाहं यास्ये प्रीतिमनुत्तमाम् ॥ २८।१९ ॥
ततः प्रादाद् वरं ब्रह्मा व्याग्रस्याद्भुतकर्मणः ।
गाणपत्यं विभौ भक्तिमजेयत्वं च धर्मिताम् ॥ २८।२० ॥
वरं व्याघ्राय दत्वैवं शिवकान्तामथाब्रवीत् ।
वृणीष्व वरमव्यग्रा वरं दास्ये तवाम्बिके ॥ २८।२१ ॥
ततो वरं गिरिसुता प्राह देवी पितामहम् ।
वरः प्रदीयतां मह्यं वर्णं कनकसन्निभम् ॥ २८।२२ ॥
तथेत्युक्त्वा गतो ब्रह्मा पर्वती चाभवत् ततः ।
कोशं कृष्णं परित्यज्य पद्मकिञ्जल्कसन्निभाः ॥ २८।२३ ॥
तस्मात् कोशाच्च सञ्जाता भूयः कात्यायनी मुने ।
तामभ्येत्य सहस्राक्षः प्रतिजग्राह दक्षिणाम् ।
प्रोवाच गिरिजां देवो वाक्यं स्वार्थाय वासवः ॥ २८।२४ ॥
इन्द्र उवाच ।
इयं प्रदीयतां मह्यं भगिनी मे ऽस्तु कौशिकी ।
त्वत्कोशसम्भवा चेयं कौशिकी कौशिको ऽप्यहम् ॥ २८।२५ ॥
तां प्रादादिति संश्रुत्य कौशिकीं रूपसंयुताम् ।
सहस्राक्षो ऽपि तां गृह्य विन्ध्यं वेगाज्जगाम च ॥ २८।२६ ॥
तत्र गत्वा त्वथोवाच तिष्ठस्वात्र महाबले ।
पूज्यमाना सुरैर्नाम्ना ख्याता त्वं विन्ध्यवासिनी ॥ २८।२७ ॥
तत्र स्थाप्य हरिर्देवीं दत्त्वा सिंहं च वाहनम् ।
भवामरारिहन्त्रीति उक्त्वा स्वर्गमुपागमत् ॥ २८।२८ ॥
उमापि तं वरं लब्ध्वा मन्दरं पुनेत्य च ।
प्रणम्य च महेशानं स्थिता सविनयं मुने ॥ २८।२९ ॥
ततो ऽमरगुरुः श्रीमान् पार्वत्या सहितो ऽव्ययः ।
तस्थौ व्रषसहस्रं हि महामोहनके मुने ॥ २८।३० ॥
महामोहस्थिते रुद्रे भुवनाश्चेलुरुद्धताः ।
चक्षुभुः सागराः सप्त देवाश् च भयमागमन् ॥ २८।३१ ॥
ततः सुराः सहेन्द्रेण ब्रह्मणः सदनं गताः ।
प्रणम्योचुर्महेशानं जगत् क्षुब्धं तु किं त्विदम् ॥ २८।३२ ॥
तानुवाच भवो नूनं महामोहनके स्थितः ।
तेनाक्रान्तास्त्विमे लोका जग्मुः क्षोभं दुरत्ययम् ॥ २८।३३ ॥
इत्युक्त्वा सो ऽभवत् तूष्णीं ततो ऽप्यूचुः सुरा हरिम् ।
आगच्छ शक्रर् गच्छामो यावत् तन्न समाप्यते ॥ २८।३४ ॥
समाप्ते मोह्वने बालो यः समुत्पस्यते ऽव्ययः ।
स नूनं देवराजस्य पदमैन्दं हरिष्यति ॥ २८।३५ ॥
ततो ऽमराणां वचनाद् विवेको बलघातिनः ।
भयाज्ज्ञानं ततो नष्टं भाविकर्मप्रचोदनात् ॥ २८।३६ ॥
ततः शक्रः सुरैः सार्धं वह्निना च सहस्रदृक् ।
जगाम मन्दरगिरिं तच्छृङ्गे न्यविशत्ततः ॥ २८।३७ ॥
अशक्ताः सर्व एवैते प्रवेष्टुं तद्भवाजिरम् ।
चिन्तयित्वा तु सुचिरं पावकं ते व्यसर्जयन् ॥ २८।३८ ॥
स चाभ्येत्य सुरश्रेष्ठो दृष्ट्वा द्वारे च नन्दिनम् ।
दुष्प्रवेशं च तं मत्वा चिन्तां वह्निः परां गतः ॥ २८।३९ ॥
स तु चिन्तार्णवे मग्नः प्रापश्यच्छम्भुसद्मनः ।
निष्क्रामनतीं महापङ्क्तिं हंसानां विमलां तथा ॥ २८।४० ॥
असावुपाय इत्युक्त्वा हंसरूपो हुताशनः ।
वञ्चयित्वा प्रतीहारं प्रविवेश हराजिरम् ॥ २८।४१ ॥
प्रविश्य सूक्ष्ममूर्तिश्च शिरोदेसे कपर्दिनः ।
प्राह प्रहस्य गम्भीरं देवा द्वारि स्थिता इति ॥ २८।४२ ॥
तच्छ्रत्वा सहसोत्थाय परित्यज्य गिरेः सुताम् ।
विनिष्क्रन्तो ऽजिराच्छर्वो वह्निना सह नारद ॥ २८।४३ ॥
विनिष्क्रान्ते सुरपतौ देवा मुदितमानसाः ।
शिरोभिरवनीं जग्मुः सेन्द्रार्कशशिपावकाः ॥ २८।४४ ॥
ततः प्रीत्या सुरानाह वदध्वं कार्यमाशु मे ।
प्रणामावनतानां वो दास्ये ऽहं वरमुत्तमम् ॥ २८।४५ ॥
देवा ऊचुः ।
यदि तुष्टो ऽसि देवानां वरं दातुमिहेच्छसि ।
तदिदं त्यज्यतां तावन्महामैथुनमीश्वर ॥ २८।४६ ॥
ईश्वर उवाच ।
एवं भवतु सन्त्यक्तो मया भावो ऽमरोत्तमाः ।
ममेदं तेज उद्रिक्तं कश्चिद् देवः प्रतीच्छतु ॥ २८।४७ ॥
पुलस्त्य उवाच ।
इत्युक्ताः शम्भुना देवाः सेन्द्रचन्द्रदिवाकराः ।
असीदन्त यथा मग्नाः पङ्के वृन्दारका इव ॥ २८।४८ ॥
सीदस्तु दैवतेष्वेवं हुतासो ऽभ्येत्य शङ्करम् ।
प्रोवाच मुञ्च तेजस्त्वं प्रतीच्छाम्येष शङ्कर ॥ २८।४९ ॥
ततो मुमोच भगवांस्तद्रेतः स्कन्नमेव तु ।
जलं तृषानते वै यद्वत् तैलपानं पिपासितः ॥ २८।५० ॥
ततः पीते तेजसि वै शार्वे देवेन वह्निना ।
स्वस्थाः सुराः समामन्त्र्य हरं जग्मुस्त्रिविष्टपम् ॥ २८।५१ ॥
सम्प्रयातेषु देवेषु हरो ऽपि निजमन्दिरम् ।
समभ्येत्य महादेवीमिदं वचनमब्रवीत् ॥ २८।५२ ॥
देवि देवैरिहाभ्येत्य यत्नात् प्रेष्य हुताशनम् ।
नीतः प्रोक्तो निषिद्धस्तु पुत्रोत्पत्तिं तवोदरात् ॥ २८।५३ ॥
सापि भर्तुर्वचः श्रुत्वा क्रुद्धा रक्तान्तलोचना ।
शशाप दैवतान् सर्वान् नष्टपुत्रोद्भवा शिवा ॥ २८।५४ ॥
यस्मान्नेच्छन्ति ते दुष्टा मम पुत्रमथौरसम् ।
तस्मात् ते न जनष्यन्तिस्वासुयोषित्सु पुत्रकान् ॥ २८।५५ ॥
एवं शप्त्वा सुरान् गौरी शौचशालामुपागमत् ।
आहूय मालिनीं स्वनातुं मतिं चक्रे तपोधना ॥ २८।५६ ॥
मालिनी सुरभिं गृह्य श्लक्ष्णमुद्वर्तनं शुभा ।
देव्यङ्गमुद्विर्तयते कराभ्यां कनकप्रभम् ।
तत्स्वेदं पार्वती चैव मेने कीदृग्गुणेन हि ॥ २८।५७ ॥
मालिनी तूर्णमगमद् गृहं स्नानस्य कारणात् ।
तस्यां गतायां शैलेयी मलाच्चक्रे गजाननम् ॥ २८।५८ ॥
चतुर्भुजं पीनवक्षं पुरुषं लक्षणान्वितम् ।
कृत्वोत्ससर्ज भूम्यां च स्थिता भद्रासने पुनः ॥ २८।५९ ॥
मालिनी तच्छिरःक्नानं ददौ विहसती तदा ।
ईषद्धासामुमा दृष्ट्वा मालिनीं प्राह नारद ॥ २८।६० ॥
किमर्थं भीरु शनकैर्हससि त्वमतीव च ।
साथोवाच हसाम्येवं भवत्यास्तनयः किल ॥ २८।६१ ॥
भविष्यतीति देवेन प्रोक्तो नन्दी गणाधिपः ।
तच्छुत्वा मम हासो ऽयं सञ्जातो ऽद्य कृशोदरि ॥ २८।६२ ॥
यस्माद् देवैः पुत्रकामः शङ्करो विनिवारितः ।
एतच्छ्रुत्वा वचो देवी सस्नौ तत्र विधानतः ॥ २८।६३ ॥
स्नात्वार्च्य शङ्करं भक्त्या समभ्यागाद् गृहं प्रति ।
ततः शम्भुः समागत्य तस्मिन् भद्रासने त्वपि ॥ २८।६४ ॥
स्नातस्तस्य ततो ऽधस्तात् स्थितः स मलपूरुषः ।
उमास्वेदं भवस्वेदं जलभूतिसमन्वितम् ॥ २८।६५ ॥
तत्सम्पर्कात् समुत्तस्थौ फूत्कृत्य करमुत्तम् ।
अपत्यं हि विदित्वा च प्रीतिमान् भुवनेश्वरः ॥ २८।६६ ॥
तं चादाय हरो नन्दिमुवाच भगनेत्रहा ।
रुद्रः स्नात्वर्च्य देवादीन् वाग्भिरद्भिः पितृनपि ॥ २८।६७ ॥
जप्त्वा सहस्रनामानमुमापार्श्वमुपागतः ।
समेत्य देवीं विहसन् शङ्करः शूलधृग् वः ॥ २८।६८ ॥
प्राह त्वं पश्य शैलेयि स्वसुतं गुमसंयुतम् ।
इत्युक्ता पर्वतसुता समेत्यापस्यदद्भुतम् ॥ २८।६९ ॥
यत्तदङ्गमलाद्दिव्यं कृतं गजमुखं नरम् ।
ततः प्रीति गिरिसुता तं पुत्रं परिषष्वजे ॥ २८।७० ॥
मूर्ध्नि चैनमुपाघ्राय ततः शर्वो ऽब्रवीदुमाम् ।
नायकेन विना देवि तव भूतो ऽपि पुत्रकः ॥ २८।७१ ॥
यस्माज्जातस्ततो नाम्ना भविष्यति विनायकः ।
एष विघ्नसहस्राणि सुरादीनां करिष्यति ॥ २८।७२ ॥
पूजयिष्यन्ति चैवास्य लोका देवि चराचराः ।
इत्येवमुक्त्वा देव्यास्तु दत्तवांस्तनयाय हि ॥ २८।७३ ॥
सहायं तु गणश्रेष्ठं नाम्ना ख्यातं घटोदरम् ।
तथा मातृगणा घोरा भूता विघ्नकराश्च ये ॥ २८।७४ ॥
ते सर्वे परमेशेन देव्याः प्रीत्योपपादिताः ।
देवी च स्वसुतं दृष्ट्वा परां मुदमवाप च ॥ २८।७५ ॥
रेमे ऽथ शम्भुना सार्धं मन्दरे चारुकन्दरे ।
एवं भूयो ऽभवद् देवी इयं कात्यायनी विभो ।
या जघान महादैत्यै पुरा शुम्भनिशुम्भकौ ॥ २८।७६ ॥
एतत् तवोक्तं वचनं शुभाख्यं यथोद्भवं पर्वततो मृडान्याः ।
स्वर्ग्यं यशस्यं च तथाघहारि आख्यनमूर्जस्करमद्रिपुत्र्याः ॥ २८।७७ ॥

इति श्रीवामनपुराणे अष्टाविंशो ऽध्यायः