२७

पुलस्त्य उवाच ।
समागतान् सुरान् दृष्ट्वा नन्दिराख्यातवान् विभोः ।
अथोत्थाय हरिं भक्त्या परिष्वज्य न्यपीडयत् ॥ २७।१ ॥
ब्रह्मणां शिरसा नत्वा समाभाष्य शतक्रतुम् ।
आलोक्यान्यान् सुरगणान् सम्भावयत् स शङ्करः ॥ २७।२ ॥
गणाश्च जय देवेति वीरभद्रपुरोगमाः ।
शैवाः पाशुपताद्याश्च विविशुर्मन्दरालम् ॥ २७।३ ॥
ततस्तस्मान्महाशैलं कैलासं सह दैवतैः ।
जगाम भगवान् शर्वः कर्तुं वैवाहिकं विधिम् ॥ २७।४ ॥
ततस्तस्मिन् महाशैले देवमातादितिः शुभा ।
सुरभिः सुरसा चान्याश्चक्रर्मण्डनमाकुलाः ॥ २७।५ ॥
महास्थिशेखरी चारुरोचनालिकलो हरः ।
सिंहाजिनी चालिनीलभुजङ्गकृतकुण्डलः ॥ २७।६ ॥
महाहिरत्नवलयो हारकेयूरनूपुरः ।
समुन्नातजटाभारो वृषभस्थो विराजते ॥ २७।७ ॥
तस्याग्रतो गणाः स्वैः स्वैरारूढा यान्ति वाहनैः ।
देवाश्च पृष्ठतो जग्मुर्हुताशनपुरोगमाः ॥ २७।८ ॥
वैनतेयं समारूढः सह लक्ष्म्या जनार्दनः ।
प्रयाति देवपार्श्वस्थो हंसेन च पितामहः ॥ २७।९ ॥
गजाधिरूढो देवेन्द्रश्छत्रं शुक्लपटं विभुः ।
धारयामास विततं शच्या सह सहस्रदृक् ॥ २७।१० ॥
यमुना सरितां श्रेष्ठा बालव्यजनमुत्तमम् ।
श्वेतं प्रगृह्य हस्तेन कच्छपे संस्थिता ययौ ॥ २७।११ ॥
हंसकुन्दन्दुसङ्काशं बालव्याजनमुत्तमम् ।
सरस्वती सरिच्छ्रेष्ठा गजारूढा समादधे ॥ २७।१२ ॥
ऋतवः षट् समादाय कुसुमं गन्धसंयुतम् ।
पञ्चवर्णं महेशानं जग्मुस्ते कामचारिणः ॥ २७।१३ ॥
मत्तमैरावणनिभं गजमारुह्य वेगवान् ।
अनुलेपनमादाय ययौ तत्र पृथूदकः ॥ २७।१४ ॥
गन्धर्वास्तुम्बरुमुखा गायन्तो मधुरस्वरम् ।
अनुजग्मुर्महादेवं वादयन्तश् च किन्नराः ॥ २७।१५ ॥
नृत्यन्त्यो ऽप्सरश्चैव स्तुवन्तो मुनयश्च तम् ।
गन्धर्वा यान्ति देवेशं त्रिनेत्रं शूलपाणिनम् ॥ २७।१६ ॥
एकादश तथा कोट्यो रुद्राणां तत्र वै ययुः ।
द्वादशैवादितेयानामष्टौ कोट्यो वसुनपि ॥ २७।१७ ॥
सप्तषष्टिस्तथा कोट्यो गणानामृषिसत्तम ।
चतुर्विशत् तथा जग्मुरृषीणामूर्ध्वरेतसाम् ॥ २७।१८ ॥
असङ्ख्यातानि यूथानि यक्षकिन्नररक्षसाम् ।
अनुजग्मुर्महेशानं विवाहाय समाकुलाः ॥ २७।१९ ॥
ततः क्षणेन देवेशः क्ष्माधराधिपतेस्तलम् ।
सम्प्राप्तास्त्वागमन् शैलाः कुञ्जरस्थाः समन्ततः ॥ २७।२० ॥
ततो ननाम भगवांस्त्रिनेत्रः स्थावराधिपम् ।
शैलाः प्रणेमुरीशानं ततो ऽसौ मुदितो ऽभवत् ॥ २७।२१ ॥
समं सुरैः पार्षदैश्च विवेश वृषकेतनः ।
नन्दिना दर्शिते मार्गे शैलराजपुरं महत् ॥ २७।२२ ॥
जीमूतकेतुरायात इत्येवं नगरस्त्रियः ।
निजं कर्म परित्यज्य दर्शनव्यापृताभवन् ॥ २७।२३ ॥
माल्यार्द्धमन्या चादाय करेणैकेन भामिनी ।
केशपाशं द्वितीयेन शङ्कराभिमुखी गता ॥ २७।२४ ॥
अन्यालक्तकरागाढ्यं पादं कृत्वाकुलेक्षणा ।
अनलक्तकमेकं हि हरं द्रष्टुमुपागता ॥ २७।२५ ॥
एकेनाक्ष्णाञ्जितेनैव श्रुत्वा भीममुपागतम् ।
साञ्जनां च प्रगृह्यान्या शलाकां सुष्ठु धावति ॥ २७।२६ ॥
अन्या सरसनं वासः पाणिनादाय सुन्दरी ।
उन्मत्तेवागमन्नग्ना हरदर्शनलालासा ॥ २७।२७ ॥
अन्यातिक्रान्तमीशानं श्रुत्वा स्तनभरालसा ।
अनिन्दत रुषा बाला यौवनं स्वं कृशोदरी ॥ २७।२८ ॥
इत्थं स नगरस्त्रीणां क्षोभं सञ्जनयन् हरः ।
जगाम वृषभारूढो दिव्यं श्वशुरमन्दिरम् ॥ २७।२९ ॥
ततः प्रविष्टं प्रसमीक्ष्य शम्भुं शैलेन्द्रवेश्मन्यबला ब्रुवन्ति ।
स्थाने तपो दुश्चरमम्बिकायाश्चीर्णं महानेष सुरस्तु शम्भुः ॥ २७।३० ॥
स एष येनाङ्गमानङ्गतां कृतं कन्दर्पनाम्नः कुसुमायुधस्य ।
क्रतोः क्षयी दक्षविनाशकर्ता भगाक्षिहा शूलधरः पिनाकी ॥ २७।३१ ॥
नमो नमः शङ्कर शूलपाणे मृगारिचर्माम्बर कालशत्रो ।
महाहिहाराङ्कितकुण्डलाय नमो नमः पार्वतिवल्लभाय ॥ २७।३२ ॥
इत्थं संस्तूयमानः सुरापतिविधृतेनातपत्रेण शम्भुः सिद्धैर्वन्द्यः सयक्षैरहिकृतवलयी चारुभस्मोपलिफ्तः ।
अग्रस्थेनाग्रजेन प्रमुदितमनसा विष्णुना चानुगेन वैवाहीं मङ्गलाढ्यां हुतवहमुदितामारुरोहाथ वेदीम् ॥ २७।३३ ॥
आयाते त्रिपुरान्तके सहचरैः सार्धं च स्पतर्षिभिर्व्यग्रो ऽभूद् गिरिराजवेश्मनिजनः काल्याः समालङ्कृतौ ।
व्याकुल्यं समुपागताश्च गिरयः पूजादिना देवताः प्रायोव्याकुलिता भवन्ति सुहृदः कन्याविवाहोत्सुकाः ॥ २७।३४ ॥
प्रसाध्य देवीं गिरिजां ततः स्त्रयो दुकूलशुक्लाभिवृताङ्गयष्चिकाम् ।
भ्रात्रा सुनाबेन तदोत्सवे कृते सा शङ्कराभ्याशमथोपपादिता ॥ २७।३५ ॥
ततः शुभे हर्म्यतले हिरण्मये स्थिताः सुराः सङ्करकालिचेष्टितम् ।
पस्यन्ति देवो ऽपि समं कुशाङ्ग्या लोकानुजुष्टं पदमाससाद ॥ २७।३६ ॥
यत्र क्रीडा विचित्राः सकुसुमतरवो वारिणो बिन्दुपातैर्गन्धाढ्यैर्गन्धचूर्णैः प्रविरलमवनौ गुण्डितौ गुण्डिकायाम् ।
मुक्तादामैः प्रकामं हरगिरितनया क्रीडनार्थं तदाघ्यनत् पश्चात्सिन्दूरपुञ्जैरविरतविततैश् चक्रतुः क्ष्मां सुरक्ताम् ॥ २७।३७ ॥
एवं क्रीडां हरः कृत्वा समं च गिरिकन्यया ।
आगच्छद् दक्षिणां वेदिमृषिभिः सेवितां दृढाम् ॥ २७।३८ ॥
अथाजगाम हिमवान् शुक्ललाम्बरधरः शुचिः ।
पवित्रपाणिरादाय मधुपर्कमथोज्ज्वलम् ॥ २७।३९ ॥
उपविष्टस्त्रिनेत्रस्तु शाक्रीं दिशमपश्यत ।
सप्तर्षिकांश्च शैलन्द्रः सूपविष्टो ऽवलोकयन् ॥ २७।४० ॥
सुखासीनास्य शर्वस्य कृताञ्ज०लिपुटो गिरिः ।
प्रोवाच वचनं श्रीमान् धर्मसाधनमात्मनः ॥ २७।४१ ॥
हिमवानुवाच ।
मत्पुत्रीं भगवन् कालीं पौत्रीं च पुलहाग्रजे ।
पितॄणामपि दौहित्रीं प्रतीच्छेमां मयोद्यताम् ॥ २७।४२ ॥
पुलस्त्य उवाच ।
इत्येवमुक्त्वा शैलेन्द्रो हस्तं हस्तेन योजयन् ।
प्रादात् प्रतीच्छ भगवन् इदमुच्चैरुदीरयन् ॥ २७।४३ ॥
हि उवाच ।
न मे ऽस्ति माता न पिता तथैव न ज्ञातयो वापि च बानधवाश्च ।
निराश्रयो ऽहं किरिशृङ्गवासी सुतां प्रतीच्छासि तवाद्रिराज ॥ २७।४४ ॥
इत्येवमुक्त्वा वरदो ऽवपीडयत् करं करेणाद्रिकुमारिकायाः ।
सा चापि संस्पर्शमवाप्य शम्भोः परां मुदं लब्धवती सुरर्षे ॥ २७।४५ ॥
तथाधिरूढो वरदो ऽथ वेदिं सहाद्रिपुत्र्या मधुपर्कमश्नन ।
दत्त्वा च लाजान् कलमस्य शुक्लांस्ततो विरिञ्चो गिरिजामुवाच ॥ २७।४६ ॥
कालि पस्यस्व वदनं भर्तुः शशधरप्रभम् ।
समदृष्टिः स्थिरा भूत्वा कुरुष्वाग्नेः प्रदक्षिणम् ॥ २७।४७ ॥
ततो ऽम्बिका हरमुखे दृष्टे शैत्यमुपागता ।
यथार्करश्मिसन्तप्ता प्राप्य वृष्टिमिवावनिः ॥ २७।४८ ॥
भूयः प्राह विभोर्वक्त्रमीक्षस्वेति पितामहः ।
लज्जया सापि दृष्टेति शनैर्ब्रह्माणमब्रवीत् ॥ २७।४९ ॥
समं गिरिजया तेन हुताशस्त्रिःप्रदक्षिणम् ।
कृतो लाजाश्च हविषा समं क्षिप्ता हुताशने ॥ २७।५० ॥
ततो हराङ्घ्रिर्मालिन्या गृहीतो हायकारणात् ।
किं याचसि च दास्यामि मुञ्चस्वेति हरो ऽब्रवीत् ॥ २७।५१ ॥
मालिनी शङ्करं प्राह मत्सख्या देहि शङ्कर ।
सौभाग्यं निजगोत्रीयं ततो मोक्षमवाप्स्यसि ॥ २७।५२ ॥
अथोवाच महादेवो दत्तं मालिनि मुञ्च माम् ।
सौभाग्यं निजगोत्रीयं यो ऽस्यास्तं शृणु वच्मि ते ॥ २७।५३ ॥
यो ऽसौ पीताम्बरधरः शङ्खधृक् मधुसूदनः ।
एतदीयो हि सौभाग्यो दत्तो ऽस्मद्गोत्रमेव हि ॥ २७।५४ ॥
इत्येवमुक्ते वचने प्रमुमोच वृषध्वजम् ।
मालिनी निजगोत्रस्य शुभचारित्रमालिनी ॥ २७।५५ ॥
यदा हरो हि मालिन्या गृहीतश्चरणे शुभे ।
तदा कालीमुखं ब्रह्म ददर्श शशिनो ऽधिकम् ॥ २७।५६ ॥
तद् दृष्ट्वा क्षोभमगमत् शुक्रच्युतिमवाप च ।
तच्छुक्रं बालुकायां च खिलीचक्रे ससाध्वसः ॥ २७।५७ ॥
ततो ऽब्रवीद्वरो ब्रह्मन् न द्विजान् हन्तुमर्हसि ।
अमी महर्षयो धन्या वालखिल्याः पितामह ॥ २७।५८ ॥
ततो महेशवाक्यान्ते समुत्तस्थुस्तपस्विनः ।
अष्टाशीतिसहस्राणि वालखिल्या इति स्मृताः ॥ २७।५९ ॥
ततो विवाहे निर्वृत्ते प्रविष्टः कौतुकं हरः ।
रेमे सहोमया रात्रिं प्रभाते पुनरुत्थितः ॥ २७।६० ॥
ततो ऽद्रपुत्रीं समवाप्य शम्भुः सरैः समं भूतगणैश् च हृष्टः ।
सम्पूजितः पर्वतपार्थिवेन स मन्दरं शीघ्रमुपादजगाम ॥ २७।६१ ॥
ततः सुरान् ब्रह्महरीन्द्रमुख्यान् प्रणम्य सम्पूज्य यथाविभागम् ।
विसर्ज्य भूतैः सहितो महीध्रमध्यावसन्मन्दरमष्टमूर्तिः ॥ २७।६२ ॥