पुलस्त्य उवाच ।
ततः सम्पूजितो रुद्रः शैलेन प्रीतिमानभूत् ।
सस्मार च महर्षिस्तु अरुन्धत्या समं ततः ॥ २६।१ ॥
ते संस्मृतास्तु ऋषयः शङ्करेण महात्मना ।
समाजग्मुर्महाशैलं मन्दरं चारुकन्दरम् ॥ २६।२ ॥
तानागतान् समीक्ष्यैव देवस्त्रिपुरनाशनः ।
अभ्युत्थायाभिपूज्यैतानिदं वचनमब्रवीत् ॥ २६।३ ॥
धन्यो ऽयं पर्वतश्रेष्ठः श्लाघ्यः पूज्यश्च दैवतैः ।
धूतपापस्तथा जातो भवतां पादपङ्कजैः ॥ २६।४ ॥
स्थीयतां विस्तृते रम्ये गिरिप्रस्थे समे शुभे ।
शिलासु पद्मवार्णासु श्लक्ष्णासु च मृदुष्वपि ॥ २६।५ ॥
पुलस्त्य उवाच ।
इत्येवमुक्ता देवेन सङ्करेण महर्षयः ।
सममेव त्वरुन्धत्या विविशुः शैलसानुनि ॥ २६।६ ॥
उपविष्टेषु ऋषिषु नन्दी देवगणाग्रणीः ।
अर्घ्यादिना समभ्यर्च्य स्थितः प्रयतमानसः ॥ २६।७ ॥
ततो ऽब्रवीत् सुरपतिर्धर्म्य वाक्यं हितं सुरान् ।
आत्मनो यशसो वृद्ध्यै सप्तर्षीन् विनयान्वितान् ॥ २६।८ ॥
हर उवाच ।
कश्यपात्रे वारुणेय गाधेय शृणु गौतम् ।
भरद्वाज शृणुष्व त्वमङ्गिरस्त्वं शृणुष्व च ॥ २६।९ ॥
ममासीद् दक्षतनुजा प्रिया सा दक्षकोपतः ।
उत्ससर्ज सती प्राणान् योगदृष्ट्य पुरा किलः ॥ २६।१० ॥
साद्य भूयः समुद्भूता शैलराजसुता उमा ।
सा मदर्थाय शैलेन्द्रो याच्यतां द्विजसत्तमाः ॥ २६।११ ॥
पुलस्त्य उवाच ।
सप्तर्षयस्त्वेवमुक्ता बाढमित्यब्रुवन् वचः ।
ओन्नमः शङ्करायेति प्रोक्त्वा जग्मुर्हिमालयम् ॥ २६।१२ ॥
ततो ऽप्यरुन्धतीं शर्वः प्राह गच्छस्व सुन्दरि ।
पुरन्ध्र्यो हि पुरन्ध्रीणां गतिं धर्मस्य वे विदुः ॥ २६।१३ ॥
इत्येवमुक्ता दुर्लङ्घ्यं लोकाचारं त्वरुन्धती ।
नमस्ते रुद्र इत्युक्त्वा जगाम पतिना सह ॥ २६।१४ ॥
गत्वा हिमाद्रिशिखरमोषधिप्रस्थमेव च ।
ददृशुः शैलराजस्य पुरीं सुरपुरीमिव ॥ २६।१५ ॥
ततः सम्पूज्यमानास्ते शैलयोषिद्भिरादरात् ।
सुनाभादिभिरव्यग्रैः पुज्यमानास्तु पर्वतैः ॥ २६।१६ ॥
गन्धर्वैः किन्नरैर्यक्षैस्तथान्यैस्तत्पुरस्सरैः ।
विविशुर्भवनं रम्यं हिमाद्रेर्हाटकोज्जवलम् ॥ २६।१७ ॥
ततः सर्वे महात्मानास्तपसा धौतकल्मषाः ।
समासाद्य महाद्वारं सन्तस्थुर्द्वाःस्थकारणात् ॥ २६।१८ ॥
ततस्तु त्वरितो ऽभ्यागाद् द्वाःस्थो ऽद्रिर्गन्धमादनः ।
धारयन् वै करे दण्डं पद्मरागमयं महत् ॥ २६।१९ ॥
ततस्तमूचुर्मुनयो गत्वा शैलपतिं शुभम् ।
निवेदयास्मान् सम्प्राप्तान् महत्कार्यर्थिनो वयम् ॥ २६।२० ॥
इत्येवमुक्तः शैलेन्द्रो ऋषिभिर्गन्धमादनः ।
जगाम तत्र यत्रास्ते शैलराजो ऽद्रिभिर्वृतः ॥ २६।२१ ॥
निषण्णो भुवि जानुभ्यां दत्त्वा हस्तौ मुखे गिरिः ।
दण्डं निक्षिप्य कक्षायामिदं वचनमब्रवीत् ॥ २६।२२ ॥
गन्धमादन उवाच ।
इमे हि ऋषयः प्राप्ताः शैलराज तवार्थिनः ।
द्वारे स्थैताः कार्यिणस्ते तव दर्शनलालसाः ॥ २६।२३ ॥
पुलस्त्य उवाच ।
द्वाःस्थवाक्यं समाकर्ण्य समुत्थायाचलेश्वरः ।
स्वयमभ्यागमद् द्वारि समादायार्घ्यमुत्तमम् ॥ २६।२४ ॥
तान्र्च्यार्घ्यादिना शैलः समानीय सभातलम् ।
उवाच वाक्यं वाक्यज्ञः कृतासनपरिग्रहान् ॥ २६।२५ ॥
हिमवानुवाच ।
अनभ्रवृष्टिः किमियमुताहो ऽकुसुमं फलम् ।
अप्रतर्क्यमचिन्त्यं च भवदागमनं त्विदम् ॥ २६।२६ ॥
अद्यप्रभृति धन्यो ऽस्मि शैलराडद्य सत्तमाः ।
संशुद्धदेहो ऽस्मयद्यैव यद् भवन्तो ममाजिरम् ॥ २६।२७ ॥
आत्मसंसर्गसंशुद्धं कृतवन्तो द्विजोत्तमाः ।
दृष्टिपूतं पदाक्रान्तं तीर्थं सारस्वतं यथा ॥ २६।२८ ॥
दासो ऽहं भवतां विप्राः कृतपुण्यश् च साम्प्रतम् ।
येनार्थिनो हि ते यूयं तन्ममाज्ञातुमर्हथ ॥ २६।२९ ॥
सदारो ऽहं समं पुत्रैर्भृत्यैर्नप्तृभिरव्ययाः ।
किङ्करो ऽस्मि स्थितो युष्मदाज्ञाकारी तदुच्यताम् ॥ २६।३० ॥
पुलस्त्य उवाच ।
शैलराजवचः श्रुत्वा ऋषयः संशितव्रतः ।
ऊचुरङ्गिरसं वृद्धं कार्यमद्रौ निवेदय ॥ २६।३१ ॥
इत्येवं चोदितः सर्वैरृषिबिः कश्यपादिभिः ।
प्रत्युवाच परं वाक्यं गिरिराजं तमङ्गिराः ॥ २६।३२ ॥
अङ्गिरा उवाच ।
श्रूयतां पर्वतश्रेष्ठ येन कार्येण वै वयम् ।
समागतास्त्वत्सदनमरुन्धत्या समं गिरे ॥ २६।३३ ॥
यो ऽसौ महात्मा सर्वात्मा दक्षयज्ञक्षयङ्करः ।
शङ्करः शूलधृक् शर्वस्त्रिनेत्रो वृषवाहनः ॥ २६।३४ ॥
जीमूतकेतुः शत्रुघ्नो यज्ञभोक्ता स्वयं प्रभुः ।
यमीश्वरं वदन्त्येके शिवं स्थाणौ भवं हरम् ॥ २६।३५ ॥
भीममुग्रं महेशानं महादेवं पशोः पतिम् ।
वयं तेन प्रेषिताः स्मस्त्वत्सकाशं गिरीश्वर ॥ २६।३६ ॥
इयं या त्वत्सुता काली सर्वलोकेषु सुन्दरी ।
तां प्रार्थयति देवेशस्तां भवान् दातुमर्हति ॥ २६।३७ ॥
स एव धन्यो हि पिता यस्य पुत्री शुभं पतिम् ।
रूपाभिजनसम्पत्त्या प्राप्नोति गिरिसत्तम ॥ २६।३८ ॥
यावन्तो जङ्गमागम्या भूताः शैल चतुर्विधाः ।
तेषां माता त्वियं देवी यतः प्रोक्तः पिता हरः ॥ २६।३९ ॥
प्रणम्य शङ्करं देवाः प्रणमन्तु सुतां तव ।
कुरुष्व पादं शत्रूणां मूर्ध्नि भस्मपरिप्लुतम् ॥ २६।४० ॥
याचितारो वयं शर्वो वरो दाता त्वमप्युमा ।
वधूः सर्वजगन्माता कुरु यच्छ्रेयसे तव ॥ २६।४१ ॥
पुलस्त्य उवाच ।
तद्वचो ऽङ्गिरसः श्रुत्वा काली तस्थावधोमुखी ।
हर्षमागत्य सहसा पुनर्दैन्यमुपागता ॥ २६।४२ ॥
ततः शैलपतिः प्राह पर्वतं गन्धमादनम् ।
गच्छ शैलानुपामन्त्र्य सर्वानागान्तुर्महसि ॥ २६।४३ ॥
ततः शीघ्रतरः शैलो गृहाद् गृहमगाञ्जवी ।
मेर्वादीन् पर्वतश्रेष्ठानाजुहाव समन्ततः ॥ २६।४४ ॥
ते ऽप्याजग्मुस्त्वरावन्तः कार्यं मत्वा महत्तदा ।
विविशुर्विस्मयाविष्टाः सौवर्णेष्वासनेषु ते ॥ २६।४५ ॥
उदयो हेमकूटश्च रम्यको मन्दरस्तथा ।
उद्दालको वारुणश्च वराहो गरुडासनः ॥ २६।४६ ॥
शुक्तिमान् वेगसानुश्च दृढशृङ्गो ऽथ शृङ्वान् ।
चित्रकूटस्त्रिकूटश् च तथा मन्दरकाचलः ॥ २६।४७ ॥
विन्ध्यश्च मलयश्चैव पारियात्रो ऽथ दुर्दरः ।
कैलासाद्रिर्महेन्द्रश्च निषधो ऽञ्जनपर्वतः ॥ २६।४८ ॥
एते प्रधाना गिरयस्तथान्ये क्षुद्रपर्वताः ।
उविष्टाः सभायां वै प्रणिपत्य ऋषिंश्च तान् ॥ २६।४९ ॥
ततो गिरीशः स्वां भार्या मेनामाहूतवांश्च सः ।
समागच्छत कल्याणी समं पुत्रेण भामिनी ॥ २६।५० ॥
साभिवन्द्य ऋषीणां हि चारणांश्च तपस्विनी ।
सर्वान् ज्ञातीन् समाभाष्य विवेश ससुता ततः ॥ २६।५१ ॥
ततो ऽद्रिषु महाशैल उपविष्टेषु नारद ।
उवाच वाक्यं वाक्यज्ञः सर्वानाभाष्य सुस्वरम् ॥ २६।५२ ॥
हिमवानुवाच ।
इमे सप्तर्षयः पुण्या याचितारः सुतां मम ।
महेश्वरार्थं कन्यां तु तच्चावेद्यं भवत्सु वै ॥ २६।५३ ॥
तद् वदध्वं यथाप्रज्ञं ज्ञातयो यूयमेव मे ।
नोल्लङ्घ्य युष्मान् दास्यामि तत्क्षमं वक्तुमर्हथ ॥ २६।५४ ॥
पुलस्त्य उवाच ।
हिमवद्वचनं श्रुत्वा मेर्वाद्याः स्थावरोत्तमाः ।
सर्व एवाब्रुवन् वाक्यं स्थिताः स्वेष्वासनेषु ते ॥ २६।५५ ॥
याचितारश् च मुनयो वरस्त्रिपुरहा हरः ।
दीयतां शैल कालीयं जामाताभिमतो हि नः ॥ २६।५६ ॥
मेनाप्यथाह भर्तारं शृणु शैलेन्द्र मद्वचः ।
पितृनाराध्य देवैस्तैर्दत्तानेनैव हेतुना ॥ २६।५७ ॥
यस्त्वस्यां भूतपतिना पुत्रो जातो भविष्यति ।
स हनिष्यति दैत्यैन्द्रं महिषं तारकं तथा ॥ २६।५८ ॥
इत्येवं मेनया प्रोक्तः शैलैः शैलेश्वरः सुताम् ।
प्रोवाच पुत्रि दत्तासि शर्वाय त्वं मयाधुना ॥ २६।५९ ॥
ऋषीनुवाच कालीयं मम पुत्री तपोधनाः ।
प्रणामं सङ्करवधूर्भक्तिनम्रा करोति व ॥ २६।६० ॥
ततो ऽप्यरुन्धती कालीमह्कमारोप्य चाटुकैः ।
लज्जमानां समाश्वास्य हरनामोदितैः शुभैः ॥ २६।६१ ॥
ततः सप्तर्षयः प्रोचुः शैलराज निशामय ।
जामित्रगुणसंयुक्तां तिथिं पुण्यां सुमङ्गलाम् ॥ २६।६२ ॥
उत्तराफाल्गुनीयोगं तृतीये ऽह्नि हिमांशुमान् ।
गमिष्यति च तत्रोक्तो मुहूर्त्तो मैत्रनामकः ॥ २६।६३ ॥
तस्यां तिथ्यां हरः पाणिं ग्रहीष्यति समन्त्रकम् ।
तव पुत्र्या वयं यामस्तदनुज्ञातुमर्हसि ॥ २६।६४ ॥
ततः सम्पूज्य विधिना फलमूलादिभिः शुभैः ।
विसर्जयामास शनैः शैलराड् ऋषिपुङ्गवान् ॥ २६।६५ ॥
ते ऽप्याजग्मुर्महावेगात् त्वाक्रम्य मरुदालयम् ।
आसाद्य मन्दरगिरिं भूयो ऽवन्दन्त शङ्करम् ॥ २६।६६ ॥
प्रणम्योचुर्महेशानं भवान् भर्त्ताद्रिजा वधुः ।
सब्रह्यकास्त्रयो लोका द्रक्ष्यन्ति घनवाहनम् ॥ २६।६७ ॥
ततो महेश्वरः प्रीतो मुनीन् सर्वाननुक्रमात् ।
पूजयामास विधिना अरुन्धत्या समं हरः ॥ २६।६८ ॥
ततः सम्पूजिता जग्मुः सुराणां मन्त्रणाय ते ।
ते ऽप्याजग्मुर्हरं द्रष्टुं ब्रह्मविष्ण्विन्द्रभास्कराः ॥ २६।६९ ॥
गेहं ततो ऽभ्येत्य महेश्वरस्य कृतप्रणामा विविशुर्महर्षे ।
सस्मार नन्दिप्रमुखांश्च सवानभ्येत्य ते वन्द्य हरं निषण्णाः ॥ २६।७० ॥
देवैर्गणैश्चापि वृतो गिरीशः स शोभते मुक्तजटाग्रभारः ।
यता वने सर्ज्जकदम्बमध्ये प्ररोहमूलो ऽथ वनस्पतिर्वै ॥ २६।७१ ॥
इति श्रीवामनपुराणे षड्विंशो ऽध्यायः