पुलस्त्य उवाच ।
मेनायाः कन्यकास्तिस्रो जाता रूपगुणान्विताः ।
सुनाभ इति च ख्यातश्चतुर्थस्तनयो ऽभवत् ॥ २५।१ ॥
रक्ताङ्गी रक्तनेत्रा च रक्ताम्बरविभूषिता ।
रागिणि नाम सञ्जाता ज्येष्ठा मेनासुता मुने ॥ २५।२ ॥
शुभाङ्गी पद्मपत्राक्षी नीलकुञ्चितमूर्धजा ।
श्वेतमाल्याम्बरधरा कुटिला नाम चापरा ॥ २५।३ ॥
नीलाञ्चनचयप्रख्या नीलेन्दीवरलोचना ।
रूपेणानुपमा काली जघन्या मेनकासुता ॥ २५।४ ॥
जातास्ताः कन्यकास्तिस्रः षडब्दात् परतो मुने ।
कर्तुं तपः प्रयातास्ता देवास्ता ददृशुः शुभाः ॥ २५।५ ॥
ततो दिवाकरैः सर्वैर्वसुभिश्च तपस्विनी ।
कुटिला ब३ह्मलोकं तु नीता शशिकरप्रभा ॥ २५।६ ॥
अथोचुर्देवताः सर्वाः किं त्वियं जनयिष्यति ।
पुत्रं महिषहन्तारं ब्रह्मन् व्याख्यातुमर्हसि ॥ २५।७ ॥
ततो ऽब्रवीत् सुरपतिर्नेयं शक्ता तपस्विनी ।
शार्वं धारयितुं तेजो वराकी मुच्यातां त्वियम् ॥ २५।८ ॥
ततस्तु कुटुला ऋद्धा ब्रह्माणं प्राह नारद ।
तथा यतिष्ये भगवन् यता शार्वं सुदुर्द्धरम् ॥ २५।९ ॥
धारयिष्याम्यहं तेजस्तथैव श्रुणु सत्तम ।
तपसाहं सुतप्तेन समाराध्य जनार्दनम् ॥ २५।१० ॥
यथा हरस्य मूर्धानं नमयिथ्ये पितामह ।
तथा देव करिष्यामि सत्यं सत्यं मयोदितम् ॥ २५।११ ॥
पुलस्त्य उवाच ।
ततः पितामहः क्रुद्धः कुटिलां प्राह दारुणाम् ।
भगवानादिकृद् ब्रह्मा सर्वेशो ऽपि महामुन् ॥ २५।१२ ॥
ब्रह्मोवाच ।
यस्मान्मद्वचनं पापे न क्षान्तं कुटिले त्वया ।
तस्मान्मच्छापनिर्दग्धा सर्वा आपो भविष्यसि ॥ २५।१३ ॥
इत्येवं ब्रह्मणा शप्ता हिमवद् दुहिता मुने ।
आपोमयी ब्रह्मलोकं प्लावयामास वेगिनी ॥ २५।१४ ॥
तामुद्वृत्तजलां दृष्ट्वा प्रबबन्ध पितामहः ।
ऋक्सामाथर्वयजुभिर्वाङ्मयैर्बन्धनैर्दृढम् ॥ २५।१५ ॥
सा बद्धा सिस्थिता ब्रह्मन् तत्रैव गिरिकन्यका ।
आपोमयी प्लावयन्ती ब्रह्मणो विमला जटाः ॥ २५।१६ ॥
या सा रागवती नाम सापि नीता सुरैर्दिवम् ।
ब्रह्मणे तां निवेद्यैवं तामप्याह प्रजापतिः ॥ २५।१७ ॥
सापि क्रुद्धाब्रवीन्नूनं तथा तप्स्ये महत्तपः ।
यथा मन्नामसंयुक्तो महिषघ्नो भविष्यति ॥ २५।१७ ॥
तामप्यथाशपद् ब्रह्म सन्ध्या पापे भविष्यसि ।
या मद्वाक्यमलङ्घ्यं वै सुरैर्लङ्घयसे बलात् ॥ २५।१८ ॥
तामप्यथाशपद् ब्रह्म सन्ध्या पापे भविष्यसि ।
या मद्वाक्यमलङ्घ्यं वै सुरैर्लङ्घयसे बलात् ॥ २५।१९ ॥
सापि जाता मुनिश्रेष्ठ सन्ध्या रागवती ततः ।
प्रतीच्छत् कृत्तिकायोगं शैलेया विग्रहं दृढम् ॥ २५।२० ॥
ततो गते कन्यके द्वे ज्ञात्वा मेना तपस्विनी ।
तपसो वारयमास उमेत्येवाब्रवीच्च सा ॥ २५।२१ ॥
तदेव माता नामास्याश्चक्रे पितृसुता शुभा ।
उमेत्येव हि कन्यायाः सा जगाम तपोवनम् ॥ २५।२२ ॥
ततः सा मनसा देवं शूलपाणिं वृषध्वजम् ।
रुद्रं चेतसि सन्धाय तपस्तेपे सुदुष्करम् ॥ २५।२३ ॥
ततो ब्रह्माब्रवीद् देवान् गच्छध्वं हिमवत्सुताम् ।
इहानयध्वं तां कालीं तपस्यन्तीं हिमालये ॥ २५।२४ ॥
ततो देवाः समाजग्मुर्ददृशुपः शैलनन्दिनीम् ।
तेजसा विजितास्तस्या न शेकुरुपसर्पितुम् ॥ २५।२५ ॥
इन्द्रो ऽमरगणैः सार्द्धं निर्द्धूतस्तेजसा तया ।
ब्रह्मणो ऽधिकतेजो ऽस्या विनिवेद्य प्रतिष्ठितः ॥ २५।२६ ॥
ततो ब्रह्माब्रवीत् सा दि ध्रवं शङ्करवल्लभा ।
यूयं यत्तेजसा नूनं विक्षिप्तास्तु हतप्रभाः ॥ २५।२७ ॥
तस्माद् भजध्वं स्व स्वं हि स्थानं भो विगतज्वराः ।
सतारकं हि महिषं विदध्वं निहतं रणे ॥ २५।२८ ॥
इत्येवमुक्ता देवेन ब्रह्मणा सेन्द्रकाः सुराः ।
जग्मुः स्वान्येव धिष्ण्यानि सद्यो वै विगतज्वराः ॥ २५।२९ ॥
उमामपि तपस्यन्तीं हिमवान् पर्वतेश्वरः ।
निवर्त्य तपसस्तस्मात् सदारो ह्यनयद्गृहान् ॥ २५।३० ॥
देवो ऽप्याश्रित्य तद्रौद्रं व्रतं नाम्ना निराश्रयम् ।
विचचार महाशैलान् सेरुप्राग्र्यान् महामतिः ॥ २५।३१ ॥
स कदाचिन्महाशैलं हिमवन्तं समागतः ।
तेनार्चितः श्रद्धयासौ तां रात्रिमवसद्धरः ॥ २५।३२ ॥
द्वितीये ऽह्नि गिरीशेन महादेवो नमन्त्रितः ।
इहैव तिष्ठस्व विभो तपःसाधनाकारणात् ॥ २५।३३ ॥
इत्येवमुक्तो गिरिणा हरश्चक्रे मतिं च ताम् ।
तस्थावाश्रममाश्रित्य त्यक्त्वा वासं निराश्रयम् ॥ २५।३४ ॥
वसतो ऽप्याश्रमे तस्य देवदेवस्य शूलिनः ।
तं देशमगमत् काली गिरिराजसुता शुभा ॥ २५।३५ ॥
तामागतां हरो दृष्ट्वा भूयो जातां प्रियां सतीम् ।
स्वागतेनाभिसम्पूज्य तस्थौ योगरतो हरः ॥ २५।३६ ॥
सा चाभ्येत्य वरारोहा कृताञ्जपरिग्रहा ।
ववन्दे चरणौ शौवौ सखीभिः सह भामिनी ॥ २५।३७ ॥
ततस्तु सुचिराच्छर्वः समीक्ष्य गिरिकन्यकाम् ।
न युक्तं चैवमुक्त्वाथ सगणो ऽन्तर्दधे ततः ॥ २५।३८ ॥
सापि शर्ववचो रौद्रं श्रुत्वा ज्ञानसमन्विता ।
अन्तर्दुःखेन दह्यन्ती पितरं प्राह पार्वती ॥ २५।३९ ॥
तात यास्ये महारण्ये तप्तुं घोरं महत्तपः ।
आराधनाय देवस्य शङ्करस्य पिनाकिनः ॥ २५।४० ॥
तथेत्युक्तं वचः पित्रा पादे तस्यैव विस्तृते ।
ललिताख्या तपस्तेपे हराराधनाकाम्यया ॥ २५।४१ ॥
तस्याः सख्यस्तदा देव्याः परिचर्या तु कुर्वते ।
समित्कुशफलं चापि मूलाहरणमादितः ॥ २५।४२ ॥
विनोदनार्थं पार्वत्या मृन्मयः शूलधृग् हरः ।
कृतस्तु तेजसा युक्तो भद्रमस्त्विति साब्रवीत् ॥ २५।४३ ॥
पूजां करोति तस्यैव तं पश्यति मुहुर्मुहुः ।
ततो ऽस्यास्तुष्टिमगमच्छ्रद्धया त्रिपुरान्तकृत् ॥ २५।४४ ॥
बटुरूपं समाधाय आषाढी मुञ्जमेखली ।
यज्ञोपवीती छत्री च मृगाजिनधरस्तथा ॥ २५।४५ ॥
कमण्डलुव्यग्रकरो भस्मारुणितविग्रहः ।
प्रत्याश्रमं पर्यटन् स तं काल्याश्रममागतः ॥ २५।४६ ॥
तमुत्थाय तदा काली सखीभिः सह नारद ।
पूजयित्वा यथान्यायं पर्यपृच्छदिदं ततः ॥ २५।४७ ॥
उमोवाच ।
कस्मादागम्यते भिक्षो कुत्र स्थाने तवाश्रमः ।
क्व च त्वं प्रतिगन्तासि मम शीघ्रं निवेदय ॥ २५।४८ ॥
भिक्षुरुवाच। ।
ममाश्रमपदं बाले वाराणस्यां शुचिव्रते ।
अथातस्तीर्थयात्रायां गमिष्यामि पृथूदकम् ॥ २५।४९ ॥
देव्युवाच ।
किं पुण्यं तत्र विप्रेन्द्र लब्धासि त्वं पृथूदके ।
पथि स्नानेन च फलं केषु किं लब्दवानसि ॥ २५।५० ॥
भिक्षुरुवाच ।
मया स्नानं प्रयागे तु कृतं प्रथममेव हि ।
ततो ऽथ तीर्थे कुब्जाम्रे जयन्ते चण्डिकेश्वरे ॥ २५।५१ ॥
बन्धुवृन्दे च कर्कन्धे तीर्थे कनखले तथा ।
सरस्वत्यामग्निकुण्डे भद्रायां तु त्रिविष्टपे ॥ २५।५२ ॥
कोनटे कोटितीर्थे च कुब्जके च कृसोदरि ।
निथ्कामेन कृतं स्नानं ततो ऽभ्यागां तवाश्रमम् ॥ २५।५३ ॥
इहस्थां त्वां समाभाष्य गमिष्यामि पृथूदकम् ।
पृच्छामि यदहं त्वां वै तत्र न क्रोद्धुमर्हसि ॥ २५।५४ ॥
अहं यत्तपसात्मानं शोषयामि कृशोदरि ।
बाल्ये ऽपि संयततनुस्तत्तु श्लाघ्यं द्विजन्मनाम् ॥ २५।५५ ॥
किमर्थं भवती रौद्रं प्रथमे वयसि स्थिता ।
तपः समाश्रिता भीरु संशयः प्रतिभाति मे ॥ २५।५६ ॥
प्रथमे वयसि स्त्रीणां सह भर्त्रा विलासिनि ।
सुभोगा भोगिताः काले व्रजन्ति स्थिरयौवने ॥ २५।५७ ॥
तपसा वाञ्छयन्तीह गिरिजे सचराचराः ।
रूपाभिजनमैश्वर्यं तच्च ते विद्यते बहु ॥ २५।५८ ॥
तत् किमर्थमपास्यैतानलङ्काराञ् जटा धृताः ।
चीनांशुकं परित्यज्य किं त्वं वल्कलधारिणी ॥ २५।५९ ॥
पुलस्त्य उवाच ।
ततस्तु तपसा वृद्धा देव्याः सोमप्रभा सखी ।
भिक्षवे कथयामास यथावत् सा हि नारद ॥ २५।६० ॥
सोमप्रभोवाच ।
तपश्चर्या द्विजश्रेष्ठ पार्वत्या येन हेतुना ।
तं शृणुष्व त्वियं काली हरं भर्तारमिच्छति ॥ २५।६१ ॥
पुलस्त्य उवाच ।
सोमप्रभाया वचनं श्रुत्वा सङ्कम्प्य वै शिरः ।
विहस्य च महाहासं भिक्षुराह वचस्त्विदम् ॥ २५।६२ ॥
भिक्षुरुवाच। ।
वदामि ते पार्वति वाक्यमेवं केन प्रदत्ता तव बुद्धिरेषा ।
कथं करः पल्लवकोमलस्ते समेष्यते शार्वकरं ससर्पम् ॥ २५।६३ ॥
तथा दुकूलाम्बरशालिनी त्वं मृगारिचर्माभिवृतस्तु रुद्रः ।
त्वं चन्दनाक्ता स भस्मभूषितो न युक्तरूपं प्रतिभाति मे त्विदम् ॥ २५।६४ ॥
पुलस्त्य उवाच ।
एवं वादिनि विप्रेन्द्र पार्वती भिक्षुमब्रवीत् ।
मा मैवं वद बिक्षो त्वं हरः सर्वगुणाधिकः ॥ २५।६५ ॥
शिवो वाप्यथवा भीमः सधनो निर्धनो ऽपि वा ।
अलङ्कृतो वा देवेशस्तथा वाप्यनलङ्कृतः ॥ २५।६६ ॥
यादृशस्तादृशो वापि स मे नाथो भविष्यति ।
निवार्यतामयं भिक्षुर्विवक्षुः स्फुरिताधरः ।
न तथा निन्दकः पापी यथा शृण्वन् शशिप्रभे ॥ २५।६७ ॥
पुलस्त्य उवाच ।
इत्येवमुक्त्वा वरदा समुत्थातुमथैच्छत ।
ततो ऽत्यजद् भिक्षुरूपं स्वरूपस्थो ऽभवच्छिवः ॥ २५।६८ ॥
भूत्वोवाच प्रिये गच्छ स्वमेव भवनं पितुः ।
तवार्थाय प्रहेष्यामि महर्षिन् हिमवद्गृहे ॥ २५।६९ ॥
यच्चेह रुद्रमीहन्त्या मृन्मयश्चेश्वरः कृतः ।
असौ भद्रेश्वरेत्येवं ख्यातो लोके भविष्यति ॥ २५।७० ॥
देवदानवगन्धर्वा यक्षाः किम्पुरुषोरगाः ।
पूजयिष्यन्ति सततं मानवाश्च शुभेप्सवः ॥ २५।७१ ॥
इत्येवमुक्ता देवेन गिरिराजसुता मुने ।
जगामाम्बरमाविश्य स्वमेव भवनं पितुः ॥ २५।७२ ॥
शङ्करो ऽपि महातेजा विसृज्य किरिकन्यकाम् ।
पृथूदकं जगामाथ स्नानं चक्रे विधानतः ॥ २५।७३ ॥
ततस्तु देवप्रवरो महेश्वरः पृथूदके स्नानमपास्तकल्मषः ।
कृत्वा सनन्दिः सगणः सवाहनो महागिरिं मन्दरमाजगाम ॥ २५।७४ ॥
आयाति त्रिपुरान्तके सह गणैर्ब्रह्मर्षिभिः सप्तभिरारोहत्पुलको बभौ गिरिवरः संहृष्टतित्तः क्षणात् ।
चक्रे दिव्यफलैर्जलेन शुचिना मूलैश्च कन्दादिभिः पूजां सर्वगणेश्वरैः सह विभोरद्रिस्त्रिनेत्रस्य तु ॥ २५।७५ ॥
इति श्रीवामनपुराणे पञ्चविंशो ऽध्यायः