देवदेव उवाच ।
एवं पृथूदको देवाः पुण्यः पापभयापहः ।
तं गच्छध्वं महातीर्थं यावत् सन्निधिवोधितम् ॥ २४।१ ॥
यदा मृगशिरोऋक्षे शशिसूर्यौ बृहस्पतिः ।
तिष्ठन्ति सा तिथिः पुण्या त्वक्षया परिगीयते ॥ २४।२ ॥
तं गच्छध्वं सुरश्रेष्ठा यत्र प्राची सरस्वती ।
पितॄन् आराधयध्वं हि तत्र श्राद्धेन भक्तिततः ॥ २४।३ ॥
ततो मुरारिवचनं श्रुत्वा देवाः सवासवाः ।
समाजग्मुः कुरुक्षेत्रे पुण्यतीर्थं पृथूदकम् ॥ २४।४ ॥
तत्र स्नात्वा सुराः सर्वे बृहस्पतिमचोदयन् ।
विशस्व भगवन् ऋक्षमिमं मृशिरं कुरु ।
पुण्यां तिथिं पापहरां तव कालो ऽयमागतः ॥ २४।५ ॥
प्रवर्तते रविस्तत्र चन्द्रमापि विशत्यसौ ।
त्वदायत्तं गुरो कार्यं सुराणां तत् कुरुष्व च ॥ २४।६ ॥
इत्येवमुक्तो देवैस्तु देवाचार्यो ऽब्रवीदिदम् ।
यदि वर्षाधिपो ऽहं स्यां ततो यास्यामि देवताः ॥ २४।७ ॥
आषाढे मासि मार्गर्क्षे चन्द्रक्षयतिथिर्हि या ।
तस्यां पुरन्दरः प्रीतः पिण्डं पितृषु भक्तितः ॥ २४।८ ॥
प्रादात् तिलमधून्मिश्रं हविष्यान्नं कुरुष्वथ ।
ततः प्रीतास्तु पितरस्तां प्राहुस्तनयां निजाम ॥ २४।९ ॥
मेनां देवाश्च शैलाय हिमयुक्ताय वै ददुः ।
तां मेनां हिमवांल्लब्ध्वा प्रसादाद् दैवतेष्वथ ।
प्रीतिमानभवच्चासौ रराम च यथेच्छया ॥ २४।१० ॥
ततो हिमाद्रिः पितृकन्यया समं समर्पयन् वै विषयान् यथैष्टम् ।
अजीजनत् सा तनयाश्च तिस्रो रूपातियुक्ताः सुरयोषितोपमाः ॥ २४।११ ॥
इति श्रीवामनपुराणे चतुर्विंशो ऽध्यायः