२३

देवदेव उवाच ।
तस्यां तपत्यां नरसत्तमेन जातः सुतः पार्थिवलक्षणस्तु ।
स जातकर्मादिभिरेव संस्कृतो विवर्द्धताज्येन हुतो यथाग्निः ॥ २३।१ ॥
कृतो ऽस्य चूडाकरणश्च देवा विप्रण मित्रावरुणात्मजेन ।
नवाब्दिकस्य व्रतबन्धनं च वेदे च शास्त्रे विधिपारगो ऽबूत् ॥ २३।२ ॥
ततश्चतुःपड्भिरपीह वर्षैः सर्वज्ञतामभ्यगमत ततो ऽसौ ।
ख्यातः पृथिव्यां पुरुषोत्तमो ऽसौ नाम्ना कुरुः संवरणस्य पुत्रः ॥ २३।३ ॥
ततो नरपतिर्दृष्ट्वा धर्मिकं तनयं शुभम् ।
दारक्रियार्थमकरोद् यत्नं शुभकुले ततः ॥ २३।४ ॥
सोदामिनीं सुदाम्नस्तु सुतां रूपाधिकां नपः ।
कुरोरर्थाय वतवान् स प्रादात् कुरवे ऽपि ताम् ॥ २३।५ ॥
स तां नृपसुतां लब्ध्वा धर्मार्थावविरोधयन् ।
रेमे तन्व्या सह तया पौलोम्या मघवानिव ॥ २३।६ ॥
ततो नरपतिः पुत्रं राज्यभारक्षमं बली ।
विदित्वा योवराज्याय विधानेनाभ्यषेचयत् ॥ २३।७ ॥
ततो राज्ये ऽभिषिक्तस्तु कुरुः पित्रा निजे पदे ।
पालयामास स महीं पुत्रवच्च स्वयं प्रजाः ॥ २३।८ ॥
स एव क्षेत्रपालो ऽभूत् पशुपालः स एव हि ।
स सर्वपालकश्चासीत् प्रजापालो महाबलः ॥ २३।९ ॥
ततो ऽस्य बुद्धिरुपन्ना कीर्तिर्लोके गरीयसी ।
यावत्कीर्तिः सुसंस्था हि तावद्वासः सुरैः सह ॥ २३।१० ॥
स त्वेवं नृपतिश्रेष्ठो याथातथ्यमवेक्ष्य च ।
विचचार महीं सर्वां कीर्त्यर्थं तु नराधिपः ॥ २३।११ ॥
ततो द्वैतवनं नाम पुण्यं लोकेश्वरो बली। ।
तदासाद्य सुसन्तुष्टो विवेशाभ्यान्तरं ततः ॥ २३।१२ ॥
तत्र देवीं ददर्शाथ पुण्यां पापविमोचनीम् ।
प्लक्षजां ब्रह्मणः पुत्रीं हरिजिह्वां सरस्वतीम् ॥ २३।१३ ॥
सुदर्शनस्य जननीं ह्वन्दं कृत्वा सुविस्तरम् ।
स्थितां भगवतीं कूले तीर्थकोटिभिराप्लुताम् ॥ २३।१४ ॥
तस्यास्तज्जलमीक्ष्यैव स्नात्वा प्रीतो ऽभवन्नृपः ।
समाजगाम च पुनः ब्रह्मणो वेदिमुत्तराम् ॥ २३।१५ ॥
समन्तपञ्चकं नाम धर्मस्थानमनुत्तमम् ।
आकमन्ताद् योजनानि पञ्च च सर्वतः ॥ २३।१६ ॥
देवा ऊचुः ।
कियन्त्यो वेदयः सन्ति ब्रह्मणः पुरुषोत्तम ।
येनोत्तरतया वेदिर्गादिता सर्वपञ्चका ॥ २३।१७ ॥
देवदेव उवाच। ।
वेदयो लोकनाथस्य पञ्च धर्मस्य सेतवः ।
यासु यष्टं सुरेशेन लोकनाथेन शम्भुना ॥ २३।१८ ॥
प्रयागो मध्यमा वेदिः पूर्वा वेदिर्गयाशिरः ।
विरजा दक्षिणा वेदिरनन्तफलदायिनी ॥ २३।१९ ॥
प्रतीची पुष्करा वेदिस्त्रिभिः कुण्डैरलङ्कृता ।
समन्तपञ्चका चोक्ता वेदिरेवोत्तराव्यया ॥ २३।२० ॥
तममन्यत राजर्षिरिदं क्षेत्रं महाफलम् ।
करिष्यामि कृषिष्यामि सर्वान् कामान् यथेप्सितान् ॥ २३।२१ ॥
इति सञ्चिन्त्य मनसा त्यक्त्वा स्यन्तनमुत्तमम् ।
चक्रे कीर्त्यर्थमतुलं संस्थानं पार्थिवर्षभः ॥ २३।२२ ॥
कृत्वा सीरं स सौवर्णं गह्य रुद्रवृषं प्रभुः ।
पौण्ड्रकं याम्यमहिषं स्वयं कर्षितुमुद्यतः ॥ २३।२२ ॥
तं कर्षन्तं नरवरं समभ्येत्य तक्रतुः ।
प्रोवाच राजन् किमिदं भवान् कर्तुमिहोद्यतः ॥ २३।२३ ॥
तं कर्षन्तं नरवरं समभ्येत्य शतक्रतुः ।
प्रोवाच राजन् किमिदं भवान् कर्तुमिहोद्यतः ॥ २३।२४ ॥
राजाब्रवीत् सुरवरं तपः सत्यं क्षमां दयाम् ।
कृषामि शौचं दानं च योगं च ब्रह्मचारिताम् ॥ २३।२५ ॥
तस्योवाच हरिर्देवः कस्माद्बीजो नरेश्वर ।
लब्धो ऽष्टाङ्गेति सहसा अवहस्य गतस्ततः ॥ २३।२६ ॥
गते ऽपि शक्र राजर्षिरहन्यहनि सीरधृक् ।
कृषते ऽन्यान् समन्ताच्च सप्तक्रोशान् महीपतिः ॥ २३।२७ ॥
ततो ऽहमब्रुवं गत्वा कुरो किमिदमित्यथ ।
तदाष्टाङ्गं महाधर्मं समाख्यातं नृपेण हि ॥ २३।२८ ॥
ततो मयास्य गदितं नृप बीजं क्व तिष्ठति ।
स चाह मम देहस्थं बीजं तमहमब्रुवम् ।
देह्यहं वापयिष्यामि सीरं कृषतु वै भवान् ॥ २३।२९ ॥
ततो नृपतिना बाहुर्दक्षिणः प्रसृतः कतः ।
प्रसृतं तं भुजं दृष्ट्वा मया चक्रेण वेगतः ॥ २३।३० ॥
सहस्रधा ततश्छिद्य दत्तो युष्माकमेव हि ।
ततः सव्यो भुजो राज्ञा दत्तश् छिन्नो ऽप्यसौ मया ॥ २३।३१ ॥
तथैवोरुयुगं प्रादान्मया छिन्नौ च तावुभौ ।
ततः स मे शिरः प्रादात् तेन प्रीते ऽस्मि तस्य च ।
वरदो ऽस्मीत्यथेत्युक्ते कुरुर्वरमयाचत ॥ २३।३२ ॥
यावदेतन्मया कृष्टं धर्मक्षेत्रं तदस्तु च ।
स्नातानां च मृतानां च महापुण्यफलं त्विह ॥ २३।३३ ॥
उपवासं च दानं च स्नानं जप्यं च माधव ।
होमयज्ञादिकं चान्यच्छुभं वाप्यशुभं विभो ॥ २३।३४ ॥
त्वत्प्रसाद्धृषीकेश शङ्खचक्रगदाधर ।
अक्षयं प्रवरे क्षेत्रे भवत्वत्र महाफलम् ॥ २३।३५ ॥
तथा भवान् सुरैः सार्धं समं देवेन शलिना ।
वस त्वं पुण्डरीकाक्ष मन्नामव्यञ्जके ऽच्युत ।
इत्येवमुक्तस्तेनाहं राज्ञा बाढमुवाच तम् ॥ २३।३६ ॥
तथा च त्वं दिव्यवपुर्भव भूयो महीपते ।
तथान्तकाले मामेव लयटमेष्यसि सुव्रत ॥ २३।३७ ॥
कीर्तिश्च शाश्वती तुभ्यं भविष्यति न संशयः ।
तत्रैव याजका यज्ञान् यजिष्यन्ति सहस्रशः ॥ २३।३८ ॥
तस्य क्षेत्रस्य रक्षार्थं ददौ स पुरुषोत्तमः ।
यक्षं च चन्द्रनामानं वासुकिं चापि पन्नगम् ॥ २३।३९ ॥
विद्याधरं शङ्कुकर्णं सुकेशिं राक्षसेश्वरम् ।
अजावनं च नृपतिं महोदेवं च पावकम् ॥ २३।४० ॥
एतानि सर्वतो ऽभ्येत्य रक्षन्ति कुरुजाङ्गलम् ।
अमीषां बलिनो ऽन्ये च भृत्याश्चैवानुयायिनः ॥ २३।४१ ॥
अष्टौ सहस्राणि धरनुर्धराणां ये वारयन्तीह सुदुष्कृतान् वै ।
स्नातुं न यच्छन्ति महोग्ररूपास्तवन्यस्य भूताः सचराचराणाम् ॥ २३।४२ ॥
तस्यैव मध्ये बहुपुण्य उक्तः पृथूदकः पापहरः शिवश्च ।
पुण्या नदी प्राङ्मुखतां प्रयाता यत्रौघयुक्तस्य शुभा जताढ्या ॥ २३।४३ ॥
पूर्वं प्रजेयं प्रपितामहेन सृष्टा समं भूतगणैः समस्तैः ।
मही जलं वह्निसमीरमेव खं त्वेवमादौ विबभौ पृथूदकः ॥ २३।४४ ॥
तथा च सर्वाणा महार्णवानि तीर्थानि नद्यः स्त्रवणाः सरांसि ।
सन्निर्मितानीह महाभुजेन तच्चैक्यमागात् सलिलं महीषु ॥ २३।४५ ॥